________________
४९
-२९. ५०]
श्रीवासुदेवकथानकम् चण्डवातजलाघातपातितेनोपरिष्टतः । स मुनिभिन्नपर्यङ्कस्तच्छाखाग्रेण तिष्ठते ॥ २१॥ उपसर्गोऽयमीदृक्षो यदि क्षेमेण यास्यति । ततो मम प्रवृत्तिः स्यादाहारादेन चान्यथा ॥ २२॥ तावदस्थं विलोक्यमं मुनि मर्कटनायकः । परिदध्यौ हृदि स्पष्टं तन्मुखाम्भोजवीक्षणः ॥ २३ ॥ यो निजेऽपि शरीरेऽस्ति निर्ममत्वो महामुनिः । स ममत्वं कथं कुर्यादन्यस्यापधने परम् ॥ २४॥ पर्यन्तस्थितशाखाग्रं बद्धा वल्लीकदम्बकैः । औपरिष्टकशाखां च नम्रीकृत्यात्र मर्कटः ॥ २५॥ । सहैवोत्पतनं कृत्वा मर्कटानां कदम्बकम् । गतमन्यत्र शाखायां सा शाखा निर्गताऽमुतः ॥२६॥ ततोऽवतीर्य तद्वृक्षान्मर्कटो मर्कटैः समम् । प्रणम्यौषधियोगेन रोहणं कृतवानसौ ॥ २७ ॥ ततः पुरः स्थितं दृष्ट्वा मर्कटं मुनिसत्तमः । कृपावधूपरिष्वक्तहृदयो निजगावमुम् ॥ २८॥ तैरश्ची गतिमापन्नो वैद्यो जीवंधरः स्फुटम् । आर्तध्यानान्मृति प्राप्य मत्समं हरिणोदिते ॥ २९॥ दिनानि सप्त जानीहि कपीन्द्र तव जीवितम् । ततो मद्वचनाच्छीघ्रं कुरुष्व हितमात्मनः ॥ ३०॥ ॥ मुनिवाक्यं समाकर्ण्य संसारत्रस्तमानसः । जगाद तं हरिः क्षिप्रं देहि मेऽनशनं विभो ॥ ३१ ॥ शिलातलोपविष्टाय मर्कटाय महात्मने । ददावनशनं योगी धर्मविन्यस्तचेतसे ॥ ३२ ॥ कोपं क्षमाबलेनार्य मानं मार्दवयोगतः । मायामृजुत्वयोगेन लोभं शौचबलेन च ॥३३॥ चतुर्गतिकसंसारवासवासितदेहिनाम् । दुर्गतेर्हेतुकानेतान् कषायांश्चतुरो जय ॥ ३४॥ आराधनां समाराध्य विधिनाऽपि चतुर्विधाम् । कृत्वा कालं हरिः क्षिप्रं सप्तमे दिवसेऽनघः ॥३५॥ 15 अणिमादिगुणोपेतः सुरनारीमनःप्रियः । बभूव प्रथमे नाके दिव्यरूपधरोऽमरः ॥ ३६॥ किं दत्तं किं मया भुक्तं किं तपोऽनुष्ठितं पुरा । येनाहं कृतपुण्यः सन् उत्पन्नो नाकजे गृहे ॥३७॥ अवधिज्ञानमासाद्य स्वभवं मर्कटोद्भवम् । विवेदेमं सुरशुद्धं तन्मुनेरुपदेशतः ॥ ३८॥ ज्ञात्वा नाकसमुत्पत्तिमात्मनो मर्कटामरः । तद्वन्दनाय हृष्टात्मा प्रस्थानमकरोदसौ ॥ ३९ ॥ रथैः कनकनिर्माणैरश्वैः पवनयायिभिः । हस्तिभिर्मदधाराभिः सिक्तगण्डस्थलैः परैः ॥ ४०॥ 20 हारराजितवक्षोभिः पिन्नद्धकरकङ्कणैः । अधिरूढैः सुरैः सार्धं व्याप्ताशेषनभस्तलम् ॥४१॥ वृक्षमूलस्थितं साधू भक्तिहृष्टतनूरुहः । सुरैः समं कृतानन्दैरनंसीन्मर्कटामरः ॥ ४२ ॥ महारजतनिर्माणैः कमलैरस्य योगिनः । अर्चयित्वा स्वयं पादाववादीत् प्लवगामरः ॥४३॥ तिर्यग्जातिसमुत्पन्नो मर्कटोऽहं पुरा भवे । अधुना त्वत्प्रणीतेन संन्यासेन सुरोऽभवम् ॥ ४४ ॥ श्रुत्वाऽमरवचः साधुर्जगादेनं विशुद्धधीः । यदीच्छसि हितं स्वस्मै मानोन्मानं करिष्यसि ॥४५॥ 25 श्रुत्वा मौनीश्वरं वाक्यं भूयोभूयः प्रणम्य तम् । नतेन शिरसा देवो ययौ निजकलेवरम् ॥४६॥ गोशीर्षचन्दनैः श्रेष्ठैः कुङ्कुमागरुभिस्तदा । कृत्वा पूजां खकायस्य ययौ देवो निजां दिवम् ॥४७॥ कृताऽमरेश्वरेणेयं पूजा साधुशरीरके । तेनामरेश्वरं तीर्थं बभूव भुवि विश्रुतम् ॥४८॥ यथाऽत्र वासुदेवेन वैयावृत्येन योगिनः । बद्धं तीर्थंकरस्येदं गोत्रं भुवनशेखरम् ॥ ४९ ॥ तथाऽन्योऽपि प्रकुर्वाणो वैयावृत्यं चतुर्विधे । संघे नरो हि बध्नाति तीर्थकृद्ोत्रमुत्तमम् ॥ ५० ॥ ३॥
॥ इति श्रीवासुदेववैयावृत्यतीर्थकरगोत्रबन्धन
___ कथानकमिदं संपूर्णम् ॥ २९॥
1पफज चतुष्कलम्. 2 पफज त्रिकलम्. 3 पफज युगलम्. 4 पफज युग्मम्. 5[सुरः]. 6 [पिनद्ध ]. 7 पफज त्रिकलम्. 8 फ कडेवरं, प कलेवर-मृतकशरीरम्. 9फ omits 50.
बृ० को० ७ Jain Education International For Private & Personal Use Only
www.jainelibrary.org