________________
४८
हरिषेणाचार्यकृते धृहत्कथाकोशे
[२८. ५३सुताऽपि जननीवाक्यं निशम्य स्नेहतत्परा । जगाद मातरं साऽपि पुत्रद्वयसमन्विताम् ॥ ५३॥ यतः प्रभृति मे रत्नं त्वया दत्तं मनोहरम् । ततः प्रभृति भावोऽयं मे मातर्जायतेऽधरः ॥ ५४॥ मातरं वल्लभां हन्मि भ्रातरावपि निश्चितम् । अशोभनः पुनर्दत्तो भ्रातृभ्यां हि मया' मणिः ॥५५॥ मातृस्वसृवचः श्रुत्वा महावैराग्यकारणम् । भ्रातरौ भोगनिर्विण्णौ चक्रतुर्दीक्षणे मतिम् ॥ ५६ ॥ 5 रत्नमादाय ते सर्वे महावैराग्यसंगताः । दत्त्वा मणिं जिनायाशु नन्दनान्ते प्रवव्रजुः ॥ ५७॥
अन्योन्यं कोपमावेद्य प्रशमं प्राप्य ते यथा । शूरदत्तादयः सर्वे दैवीं गतिमुपाययुः ॥ ५८॥ साधवोऽपि तथा लोके सर्वस्खहितमिच्छवः । क्रोधादिकं विनिर्जित्य दिवं मोक्षं च यान्ति ते ॥५९॥
॥ इति श्रीशरमित्रशूरचन्द्रादिपरस्परकोपाजनन
विधाननिराकरणकथानकम् ॥ २८॥
२९. वासुदेवकथानकम् । सुराष्ट्रकप्रदेशेऽस्ति पुरी द्वारावती परा । अस्यां बभूव भूपालो वासुदेवो महाबलः ॥१॥ सत्यभामादिसद्भार्या बभूवुस्तस्य शोभनाः । रूपातिशयतो यासां न शच्यपि समा भवेत् ॥२॥ अन्यदाऽसौ महीपालो जिनायतनमुद्धजम् । नारायणो जगामेदं मुनिसंघसमाकुलम् ॥३॥
कृत्वा जिनमुनिस्तोत्रं हरिः स्थित्वा यथाऽऽसनम् । विलोक्य दुर्बलं साधु जीवंधरमवैक्षत ॥४॥ 15 ज्ञात्वा विष्णुमतं वैद्यः समुत्थाय जिनालयात् । राज्ञा समं निजं सौधं जगामौषधवाञ्छया ॥५॥ प्राणदान् वटकान् कृत्वा श्रावकाणां गृहे गृहे । स्थापयामास वैद्योऽपि वासुदेवमतेन सः ॥६॥ प्रथमं वटकं दत्त्वा योगिने स्थानमीयुषे । तद्भक्षणे कृते पश्चात्तकाञ्जलिचतुष्टयम् ॥७॥ श्रावकाणां जनस्यैवं समस्तस्य च तत्पुरे । जीवंधरो ददौ शिष्यां तदा विष्णुपुरस्सरम् ॥ ८॥ यत्रैव च गृहे योगी मुनिस्तिष्ठति सर्वदा । तत्रैवास्मै जनः सर्वो वटकं मथितं ददौ ॥९॥ 20 भोजनं भोक्तुकामस्य मुनेः श्रावकवेश्मनि । पुनर्नवमिदं जातं शरीरं रोगवर्जितम् ॥ १० ॥
अन्यदा वासुदेवोऽयं सरणं समवादिकम् । ययौ नेमिजिनेन्द्रस्य समं वैद्येन भक्तितः ॥११॥ नेमिनाथनुतिं कृत्वा सकलांश्च दिगम्बरान् । वन्दित्वाऽयं सुखं तस्थौ वासुदेवः सवैद्यकः ॥१२॥ प्राक्तनं योगिनं दृष्ट्वा स्वस्थीभूतशरीरकम् । देहस्य कुशलं विष्णुः पप्रच्छेमं सकौतुकः ॥ १३ ॥ विष्णुवाक्यं समाकर्ण्य स योगी निजगावमुम् । सारता का शरीरस्य राजन् धर्मच्युतस्य भोः॥१४॥ 25 मुनेर्वचनमाकर्ण्य दध्यौ जीवंधरस्तदा । अनेन मुनिना विष्णोः पुरतो जल्पितं कथम् ॥१५॥
साधुर्वदति यद्येवं नारायणपुरस्सरम् । कायस्त्वदीयवैद्येन शोभनो विहितो मम ॥ १६॥ ग्रामहस्तितुरङ्गौघं धनधान्यादिकाञ्चनम् । अदास्यन्मे ततो राजा पारितोषिकपूर्वकम् ॥१७॥ एवं चिन्तयतस्तस्य चार्तध्यानमुपेयुषः । जीवितं वापि संनष्टं तद्वैद्यस्य भयादिव ॥ १८ ॥ रेखामध्यगते तुङ्गे नानातरुविराजिते । पर्वते भीषणे वैद्यो यूथनाथोऽभवद्धरिः ॥ १९ ॥ ३० ततोऽसौ विहरन् क्वापि साधुस्तं प्राप्य पर्वतम् । तस्थौ घनागमे तत्र तिन्तिणीकतरोरधः ॥२०॥
1ज महा° 2 फज त्रिकलम्, पत्रिकलमिदम्. 3 फ देवगति', ज दैवगति. 4 फज जगादेमं. 5 प गुटिकान्. 6 फज lose some lines here. 7 प स्नानमीयुषे. 8 फज शिष्यं, [ शिक्षा ]. 9पचतुष्कलकमिदम्, फज चतुष्कलमू. 10 फज सन्निष्ट. 11फ भवेद्धरिः, 12प हरिः मर्केटः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org