________________
-२८. ५२ ]
शूरमित्रशूरचन्द्रादिकथानकम् आकर्ण्य शूरचन्द्रस्य वचनं कृतकौतुकम् । जगाद शूरमित्रस्तं स्नेहनिर्भरमानसः ॥ २३॥ यावच्च मत्करे रत्नं तिष्ठतीदं मुहुर्मुहुः । तावत्प्रभृति मञ्चित्तं वर्तते त्वन्निपातने ॥ २४ ॥ अनेन कारणेनेदं गृहाण रुचिभासुरम् । अलं तेन सुवर्णेन यत्कुर्यात् कर्णकर्तनम् ॥ २५ ॥ अग्रजस्य वचः श्रुत्वा शूरचन्द्रो जगाद तम् । ममापि चेदृशो भावो रत्ने करगतेऽभवत् ॥ २६ ॥ श्रुत्वाऽन्योन्यसमालापं खनिपातनकारणम् । अशोभनमिदं ताभ्यां निक्षिप्तं तत्सरिजले ॥ २७॥ । ततस्तौ भ्रातरौ शान्तौ स्नेहनिर्भरमानसौ । शोभनाचारसंपन्नौ जग्मतुर्निजमन्दिरम् ॥ २८॥ पतितं तन्नदीमध्ये मत्स्येन गिलितं तदा । जालेनाथ समाकृष्टो धीवरेण स मीनकः ॥ २९॥ ततस्तेन समुद्धृत्य विक्रेतुं विशिखान्तरे । नीतोऽवतिष्ठते तत्र संयुक्तो रोहिताख्यया ॥३०॥ माता पुत्रौ विलोक्येतौ तदानीं गृहमागतौ । तोषपूरितचेतस्का बभूव सुतया समम् ॥ ३१॥ तदाऽऽगतक्रियां कृत्वा पादप्रक्षालनादिकम् । माताऽऽपणं जगामाशु ग्रहीतुं मत्स्यमादरात् ॥३२॥ 10 आदाय रोहितं मीनं वर्मल्येन तदम्बिका । आजगाम पुनर्गेहं तत्प्राघूर्णकविह्वला ॥ ३३॥ यावच्छिनत्ति तं मीनं तन्माता स्नेहतत्परा । तावत्पपात तन्मध्यान्मणिर्मूल्यविवर्जितः ॥ ३४॥ मणिमादाय हस्तेन तोषपूरितमानसा । दध्यौ तदा च तन्माता चेतसीदं मिथो भृशम् ॥३५॥ दारको द्वावपि क्षिप्रं सुतां मत्रीतिकारिणीम् । निहन्मि येन तिष्ठामि स्वगृहे प्रीतमानसा ॥३६॥ ममेदं युज्यते नैव पुत्रपुत्रीविनाशनम् । विधातुं हीनसत्त्वानामपि दुःखावहं भवेत् ॥ ३७॥ पश्चात्तापमिमं कृत्वा सुतायै रत्नमुत्तमम् । ददौ तन्मातृका शीघ्रं सुतसद्भावकारिणी ॥ ३८॥ सुता रत्नं समादाय दध्यौ मनसि मूढधीः । मातरं भ्रातरौ नूनं विषं दत्त्वा निहन्म्यहम् ॥३९॥ हा हा कथं मया ध्यातं महापापनिमित्तकम् । संसारकारणं तद्धि महादुःखविधायकम् ॥ ४० ॥ चिन्तयित्वा चिरं दीनं रत्नं भ्रात्रोः समर्पितम् । शुभसंकल्पमासाद्य तया बुद्धिसमेतया ॥४१॥ दृष्ट्वा रत्नमिदं तौ च भ्रातरौ स्नेहतत्परौ । विज्ञाय भवतस्त्रस्तौ वैराग्यं परमं गतौ ॥ ४२ ॥ 20 शर्वरीप्रथमे यामे शूरदत्ता जगौ सुतम् । पुत्र द्वादशभिर्वः किमानीतं त्वया वद ॥४३॥ जननीवाक्यमाकर्ण्य शूरदत्तो जगाद ताम् । आवाभ्यां रत्नमुत्कृष्टं लब्धं दीधितिभासुरम् ॥४४॥ मद्धस्तसंगतं रत्नं कनिष्ठं हन्मि मे मतिः। यदाऽस्य हस्तसंप्राप्तं ज्येष्ठं हन्मीति भूरिशः" ॥४५॥" एवं संचिन्तयन्तौ द्वौ संप्राप्तौ सरयूनदीम् । तत्तटेऽन्योन्यमालोच्य स्वस्वभावनिरूपताम् ॥४६॥ असुन्दरमिदं रत्नमावाभ्यां सरयूहदे । निक्षिप्तं तद्विरक्ताभ्यां प्राप्ताभ्यां भवदन्तिकम् ॥४७॥" 25 पुत्रवाक्यं समाकर्ण्य शूरदत्ता जगावमुम् । गताऽहं हट्टमालोक्य भवन्तौ गृहमागतौ ॥ ४८॥ तत्र मत्स्यं समादाय मूल्येन गृहमाप्य च । मीनस्य खण्डनं यावद्विदधामि महानसौ ॥४९॥ तावन्महामणिं दृष्ट्वा तत्रत्यं परिगृह्य तम् । पुत्र तोषं परिप्राप्ता महामणिसमागमात् ॥ ५० ॥ हस्तप्राप्ते मणौ भावः संजातो मम बालका" । भवन्तौ हन्मि पुत्रीं च वल्लभामपि बालिकाम् ॥५१ भूयो विरक्तिमासाद्य बहुमूल्यमणेरपि । वितीर्णोऽयं मया पुत्र सुतायै स्नेहकारणात् ॥ ५२ ॥ ०
1फज त्रिकलम् , पत्रिकलमिदम्. 2 प गलितं. 3 फज समीनकं. 4 फज वितिष्ठते. 5 फज वर्मलेन, प (मौल्येन). 6 फज तदन्तिका. 7 फ चेतसीदं मथो, [चेतसीदमथो ]. 8 प पुत्रं पुत्री 9 महापात. 10 प दीपित. 11 फज भूरि सः 12 has lost a line here. 13 फज एवं चिन्तयितावावां प्राप्ता सरसयूनदीम्. 14 फज निरूप्यतां. 15 प चतुष्कलकमिदम् , फ चतु:कलम् , ज चतुष्कलम्, 16 फज बालकः. 17 फ विरक्त. 18 प चतुष्कलकमिदम् , फ चतुष्कलकम् , ज चतुष्कलम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org