________________
[ २७. ७८
४६
हरिषेणाचार्यकृते बृहत्कथाकोशे
यस्त्वया वर्णितो नग्नः श्रमणः क्रूरमानसः । नृशंसो निर्दयोऽशान्तो निर्लजः पिशुनः खलः ॥७८॥ क्रियासमभिहारेण निःस्पृहं स्वतनावपि । विनिन्द्यानन्दितं चित्ते शूरदत्तं जगाद सा ॥ ७९ ॥ शूरदत्तोषितः सोऽयं मदीये जठरे वरे' । क्षुरिकां देहि मे वत्स पाटयाम्यधुनोदरम् ॥ ८० ॥ नागदत्तोदितं श्रुत्वा प्रणम्य निजगौ तकाम् । या त्वं तस्य मुनेर्माता ममापि त्यज कोपनम् ॥८१॥ - एवमुक्त्वा तकां शीघ्रं मणिरत्नधनादिभिः । नागदत्तामसौ निन्ये कौशाम्बीं सुतया समम् ॥ ८२ ॥ शूरदत्त नरेन्द्रोऽपि नागदत्तमुनीश्वरम् । संप्राप्य भक्तिसंपन्नो ननाम कलनिस्वनः ॥ ८३ ॥ पुनः पुनः प्रणम्येमं सामन्तैर्बहुभिः समम् । शूरदत्तोऽपि जग्राह दीक्षां दैगम्बरीमसौ ॥ ८४ ॥ मातरं भगिनीं दृष्ट्वा पीड्यमानां मलिम्लुचैः । नागदत्तमुनिर्मोहं न जगाम यथाऽनघः ॥ ८५ ॥ पीड्यमानः कृतान्ताभैः परीषहमहाभटैः । क्षपकोऽपि तथा जातु मोहं याति न शुद्धधीः ॥ ८६ ॥ ॥ इति श्रीनागदत्तमुनिकथानकमिदम् || २७ ।।
10
२८.
।
पूर्वमालव के देशे तिलकाराष्ट्रनामनि । एकरथ्यं पुरं तत्र बभूव जनसंकुलम् ॥ १ ॥ तत्राभवत् प्रतापाढ्यः शूरसेनो नराधिपः । तद्भार्या शूरसेना च कन्दोट्टदललोचना ॥ बभूव शूरदत्तोऽत्र श्रेष्ठी धनसमन्वितः । शूरदत्ता प्रिया चास्य रमणी गुणभूषिता ॥ ३ ॥ 1s शूरादिमित्रचन्द्रान्तौ नन्दिताखिलबान्धवौ । अभूतां नन्दनौ कान्तौ सुता मित्रवती तयोः ॥ ४ ॥ अथ कालं गतः श्रेष्ठी द्रव्यं च क्षयमागतम् । दरिद्रतां परिप्राप्ताः शूरमित्रादयः स्फुटम् ॥ ५ ॥ शूरमित्रः समं तेन शूरचन्द्रेण दुःखितः । प्रययौ सिंहलद्वीपं तदानीं धनतृष्णया ॥ ६ ॥ तत्र द्वादशभिर्वर्षैरनयों मणिनायकः । लब्धस्ताभ्यां प्रभादीप्तो रविर्वा तेजसा स्फुरन् ॥ ७ ॥ ततो रत्नं समादाय शूरमित्रोऽनुजेन सः । पथि प्रवर्तयामास तोषपूरितमानसः ॥ ८ ॥ 2 करे मणि समादाय तस्थौ ज्यायान् वनान्तरे । शूरचन्द्रो गतो भिक्षामादातुं ग्राममन्तिकम् ॥९॥ शूरमित्रस्ततो दध्यौ करस्थितमणिस्तदा । अनुजं हन्मि येनेदं रत्नं भवति मेऽनघम् ॥ १० ॥ प्रतिक्षणविवर्त्याः स्युः परिणामा हि देहिनाम् । ततो निनिन्द स ज्यायानात्मानं सुचिरं तदा ॥ ११ ॥ हासुन्दरं कथं ध्यातं मया संसारवर्धनम् । सहोदरं न हन्तुं मे पितृकल्पस्य युज्यते ॥ १२ ॥ एवं चिन्तयतस्तस्य शूरचन्द्रः समागतः । भिक्षामादाय संक्षेपात् भुक्त्वा तौ जग्मतुस्ततः ॥१३॥ अन्येद्युः शूर मित्रोऽपि भिक्षार्थं नगरं गतः । मणिमादाय हस्तेन शूरचन्द्रो वने स्थितः ॥ १४ ॥ मणिहस्तः पुनर्दध्यौ शूरचन्द्रोऽपि तत्क्षणम् । ज्येष्ठं निहन्मि येनेदं मम रत्नं प्रजायते ॥ १५ ॥ हा हा विरूपकं ध्यातं मया दुःखनिमित्तकम् । ज्येष्ठस्य पितृतुल्यस्य हिंसने विहिता मतिः ॥१६॥ यावदेवंविधं वाक्यं ध्यायति स्मानुजोऽत्र सः । तावज्येष्ठः समायातो भिक्षामादाय शोभनाम् ॥१७॥ भुक्त्वा तौ भोजनं तत्र स्वस्वभावसमन्वितौ । क्रमेण निम्नगां प्राप्तौ स्वपत्तनसमीपगाम् ॥ १८ ॥ 30 प्रपाय शीतलं तोयं स्थित्वा वेत्रवतीतटे । शूरमित्रोऽनुजं प्राह शूरचन्द्रं पुरः स्थितम् ॥ १९ ॥ अलमेतेन दिव्येन रत्नेन मम सांप्रतम् । शुरचन्द्र गृहाणेदं मूल्येन परिवर्जितम् ॥ २० ॥ शूरमित्रवचः श्रुत्वा बभाणेमं कृतानतिः । शूरचन्द्रः कृतध्वानः कौतुकव्याप्तमानसः ॥ २१ ॥ समानमावयो रत्नं कुतो मे यच्छसि प्रभो । सत्येन श्रावितः क्षिप्रं यथावृत्तं निवेदय ॥ २२ ॥ 1 फज घरे. 2 फज त्रिकलम् प त्रिकलमिदम्. 3 फज तलिका . 4 फ 'निवर्त्याः 5 प प्रयायते.
1
1
25
*
शूरमित्रशूरचन्द्रादिकथानकम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org