________________
२७. ७७ ]
नागदत्तमुनि कथानकम्
४५
सोsहं त्वद्बोधाधातुं स्नेहनिर्भरमानसः । डोम्बवेषं समादाय संप्राप्तो भवदन्तिकम् ॥ ४८ ॥ श्रुत्वा देववचः सत्यं नागदत्तो मुमूर्च्छ सः । चेतनां प्राप्यं भूयोऽपि जगादेमं कृतानतिः ॥ ४९ ॥ यज्जल्पितं त्वया साधो नीतं निर्वहणं हितम् । अनेनागमनेनेश भ्रातृस्नेहो नवीकृतः ॥ ५० ॥ जीवितं च चलं लोके शरीरं रोगमन्दिरम् । कदलीगर्भनिःसारं यौवनं च शरीरिणाम् ॥ ५१ ॥ भोगिभोगसमा भोगाश्चञ्चलाः संपदः खलाः । स्नेहोऽपि बन्धुभिः सार्धं श्रतः स्वप्नेन्द्रचापवत् ॥५२॥ : इति संचिन्त्य बुद्धात्मा हित्वा सर्वं परिग्रहम् । अन्ते संयमसेनस्य नागदत्तोऽग्रहीत् तपः ॥५३॥ कृतकृत्यत्वमासाद्य नागदत्तं तपःक्रियाम् । कारयित्वाऽमरः शीघ्रं जगाम दिवमुद्धजाम् ॥ ५४ ॥ नागदत्तस्य वृत्तान्तं श्रुत्वा देवनिवेदितम् । नागवर्मा जनः सर्वो विस्मयं परमं ययौ ॥ ५५ ॥ विद्युत्तोय तुषाराढ्यघनगर्जितकारिणि । घनागमे घनध्वान्ते तस्थौ तरुतले मुनिः ॥ ५६ ॥ मार्तण्डकरसंतप्ते शिलोच्चयशिलातले । धराधरस्थिरो योगी तस्थौ प्रतिमया सुधीः ॥ ५७ ॥ तुषारकणसंदग्धसमस्तनलिनीवने । शीतकाले सुखं तस्थौ नगरादेर्बहिर्मुनिः ॥ ५८ ॥ षष्ठाष्टमादियोगेन नानावग्रहकारणैः । यथाऽस्तमनशायी स चकार शिथिलं वपुः ॥ ५९ ॥ नानातपः प्रकुर्वाणः पूर्वदेशं प्रगत्य सः । तत्र तीर्थाणि सर्वाणि ववन्दे भक्तितत्परः ॥ ६० ॥ पूर्वदेशात् समागच्छन् विन्ध्ये प्रत्यन्तवासिना । शूरदत्तेन संदृष्टो नागदत्तो यतिस्तदा ॥ ६१ ॥ विन्ध्यमध्यस्थितं साधुं दृष्ट्वाऽमुं म्लेच्छराशयः । शूरदत्तं जगुः सर्वे स्वनादापूरिताम्बराः ॥ ६२ ॥ is नागदत्तसुता यावन्नागश्री रूपराजिता । साऽधुना प्रस्थिता गन्तुं कौशाम्बीं नगरीं प्रति ॥ ६३ ॥ कथयिष्यति नो" वार्तां राजपुत्रीजनस्य वै । अतो निरुध्यते तावन्मुनिरत्रैव नायक ॥ ६४ ॥" म्लेच्छवाक्यं समाकर्ण्य शूरदत्तो जगावमून् । " गुञ्जाफलसमानाक्षान् कज्जलालिसमप्रभान् ॥ ६५ ॥ शत्रुमित्रसमासंगः ”सुखदुःखसमानकः । यातु नो ध्रियते साधुर्न किंचिद्वदति ध्रुवम् ॥ ६६ ॥ मुक्तो" मुनिर्गतः सोऽपि शूरदत्तमतेन तैः । दृष्टो व्रजन् वनस्यान्ते नागदत्ताजनत्रजैः ॥ ६७ ॥" 20 नागदत्तमुनिं वीक्ष्य नागदत्ता जगावमुम् । न कोऽपि तस्करो दृष्टो भवता ब्रूहि मे मुने ॥ ६८ ॥ ममेदभावसंत्यक्तो मातृस्वसकदर्शनम् । अनालोच्य ययौ क्वापि जिनकल्पी विशुद्धधीः ॥ ६९ ॥ स्तोकान्तरमसौ सार्थो यावद्वजति तद्वने । तावदागत्य वेगेन गृहीतः सधनोऽपि तैः ॥ ७० ॥ नागदत्तां सुतायुक्तां सुवर्णरजतादिकम् । आदाय तस्कराः क्षिप्रं ययुर्निजगृहं पुनः ॥ ७१ ॥ आस्थानमण्डपस्थस्य शूरदत्तस्य तस्कराः । नागदत्तादिकं कोशं निदधुः पुरतोऽस्य ते ॥ ७२ ॥ 25 विलोक्य शूरदत्तोऽपि तत्सर्वं पुरतः स्थितम् । जगाद तस्करान् सर्वान् हसन्निति सविस्मयः ॥७३॥ त्रियते मुनिरत्रैव युष्माभिर्गदितं वचः । कथयिष्यत्ययं वार्तामस्मदीयां जनस्य सः ॥ ७४ ॥ वचनं प्रोक्तमस्माभिस्तदानीं भवतां पुरः । मुनिर्व्रजतु नो किंचित्ख्याति लोकस्य निःस्पृहः ॥७५॥ अस्मदीयकथाऽनेन न" ख्याता साधुना सता । अस्य सार्थसमूहस्य बन्धनत्वमुपेयुषः ॥ ७६ ॥" शूरदत्तवचः श्रुत्वा नागदत्ताऽपि तं जगौ । कोपसंभ्रान्तरक्ताक्षी दष्टदन्तच्छदा तदा ॥ ७७ ॥ "
1 प षट्कलकमिदम्, फज षट्कलम्. 2 फज भ्रातृस्नेहनवी 3 पफज त्रिकलमिदम्. 4 प दिवमुद्धजम्. 5प अवग्रहः = प्रतिमा. 6 ज यथास्तुमनशायी, फ यथास्तुमनसायास 7 प पूर्वदेशं 8फ संतुष्टो. 9 फज नागदत्ता सुता. 10 फज मा. 11 फज त्रिकलकम्, प त्रिकलमिदम्. 12 प गुआदल 13 फज संगसुख" . 14 फ मुक्तेर्मुनि, ज मुक्तमुनिं 15 प युग्मम्, फज युगलम् 16 फ विख्याता, 17 प चतुः कुलकमिदम् फ चतुष्कुलकम् ज चतुष्कम्.
Jain Education International
For Private & Personal Use Only
10
www.jainelibrary.org