________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[२७. १५अन्यदाऽवधिमासाद्य धर्महीनं मदोल्बणम् । सर्पक्रीडां प्रकुर्वाणं नागदत्तं ददर्श सः ॥१५॥ अथ सर्पद्वयं क्षिप्त्वा करण्डे भीषणाकृतिः । डुम्बरूपधरो देवस्तत्समान्तरमाविशत् ॥ १६ ॥ तत्सभान्तरमासाद्य पाणो वदति सत्सभाम् । आगत्य मत्समं कोऽपि नागक्रीडां करोत्वरम् ॥१७॥
श्रुत्वा तद्वचनं वीरो नागदत्तस्त्वरान्वितः। तत्सन्मुखं समागत्य जगादेमं कलध्वनिः ॥१८॥ । रेरे डुम्ब दुराचार मुञ्च सर्प मदन्तिकम् । येनाहं निर्विषं क्षिप्रं करोम्येनं विसंशयम् ॥ १९॥
श्रुत्वा तद्वचनं डुम्बः क्रुद्धस्तत्सन्मुखं तदा । मुमोच भीषणं सर्प कोपारुणनिरीक्षणम् ॥ २० ॥ दृष्ट्वा सन्मुखमायान्तं दन्दशूकं महाजवम् । गतिबन्धं चकारास्य नागदत्तो महामतिः ॥ २१ ॥ कुण्डलीकरणं शीघ्रं दृष्टिबन्धं मुखस्य च । घटप्रवेशनं चके नागदत्तोऽस्य भोगिनः ॥ २२ ॥ एकं सर्प वशीकृत्य नागदत्तो जगावमुम् । रेरे डुम्बाधुना मुञ्च द्वितीयमपि पन्नगम् ॥ २३ ॥ 10 नागदत्तवचः श्रुत्वा डुम्बोऽपि निजगौ तकम् । नाहं मुञ्चामि रक्ताक्षं पन्नगं कालनामकम् ॥२४॥ रङ्गे राजकुमारस्य प्रमादो यदि जायते । अमुतः सर्पतो भीमात् ततो दोषो न मे स्फुटम् ॥२५॥ पाणवाक्यं समाकर्ण्य नागदत्तोऽपि तं जगौ । अभयं वत्स ते मुञ्च दन्दशूकं भयानकम् ॥२६॥ डुम्बः कुमारवाक्येन स्फुरन्तं भीमविग्रहम् । भीमभोगं चलजिह्व मुमोच फणिनं रुषा ॥ २७॥
दृष्ट्वोरगं तमायान्तं यावद्गृह्णाति पाणिना । नागदत्तोऽमुना तावत्संदष्टः पन्नगेन सः ॥२८॥ 15 दष्टमात्रस्ततो भूमौ पपात विषवेगतः । नागदत्तोऽस्य सद्वन्धुर्जगामाकुलतां पराम् ॥ २९ ॥
दृष्ट्वा नागं कुमारं च विषविह्वलविग्रहम् । तद्बान्धवजनः सर्वो डुम्बान्तिकमुपाययौ ॥ ३० ॥ नागदत्तपिता पुत्रदुःखविह्वलमानसः। जगादेति विनीतात्मा पाणं हृष्टतनूरुहम् ॥ ३१॥ सुवर्णधनधान्यानि ग्रामपत्तनकुञ्जरान् । अश्वादिकं गृहाण त्वं पुत्रस्योजीवनं कुरु ॥३२॥
नृपवाक्यं समाकर्ण्य पाणोऽपि निजगाद तम् । निराकर्तुं न शक्नोमि नागस्यैतस्य दुन्दुभिम् ॥३३॥ 20 अथवा जीवनोपायो विद्यते त्वत्सुतस्य सः । यदि दीक्षां प्रगृह्णाति नान्यथा कथितं तव ॥ ३४ ॥
अनयाऽवस्थया दत्तो मत्रो मे गुरुभिर्नृप । जीवत्यनेन मन्त्रेण यो दीक्षां विदधाति सः ॥ ३५॥ पाणवाक्यं समाकर्ण्य तन्मातापितरौ तदा । ऊचतुस्तं महाशोकदुःखदुःखितचेतसौ ॥ ३६॥ अस्मत्सुताय शूराय जीवितं देहि शोभनम् । पश्चादयं प्रगृह्णातु तपो जैनमनुत्तरम् ॥ ३७॥ डुम्बो निशम्य तद्वाक्यं जगादेमं कलध्वनिः । करोमि जीवितं सूनोरनयाऽवस्थया द्रुतम् ॥ ३८॥ 25 ततस्तद्वाक्यतः शीघ्रं विह्वलीभूतमानसम् । डुम्बोऽपि निर्विषं चक्रे नागदत्तं स्वमत्रतः ॥ ३९ ॥ ततश्चेतनतां प्राप्य जयमङ्गलनिस्वनैः । नागदत्तः समुत्तस्थौ विषेण परिवर्जितः ॥ ४० ॥ वस्थीभूतशरीरस्य नागदत्तस्य तत्क्षणे । निजरूपं तदा देवो दर्शयामास शोभनम् ॥४१॥ नागदत्तोऽपि तं दृष्ट्वा जगाद कृतकौतुकः । कोऽसि त्वं शोभनाकारः कथयाशु मम स्फुटम् ॥४२॥
नागदत्तवचः श्रुत्वा जगादेमं सुरस्तदा । प्रियधर्मोऽस्म्यहं भद्र प्रियमित्रो भवानसि ॥४३॥ 30 जैनं तपः समादाय कालं कृत्वा समाधिना । जातौ महर्द्धिकौ देवौ सुरूपौ द्वावपि स्फुटम् ॥४४॥
त्वमवाचि मया नाके तत्त्वतः सरसं तदा । यदि कोऽपि द्वयोरेको विषयी मेदिनीमितः ॥४५॥ विषयासक्तचित्तस्य पृथिवीतलवासिनः। प्रबोधस्तस्य कर्तव्यो नाकस्थेन सुरेण तु ॥४६॥ अवधिज्ञानमासाद्य दृष्टोऽसि त्वं मया भुवि । सर्पक्रीडां प्रकुर्वाणो विषयासक्तमानसः ॥४७॥
1प सर्पक्षयं. 2 प रङ्गे-गारुडवादे. 3 फ तं 4 प तमायातं. 5 4 दृष्टमात्र. 6 फ धान्यादि 7 फज दुन्दुमिः, प दुन्दुभिं-विषम्. 8 फ प्रगृह्णाति. 9 4 repeats 43-44 as 45-46 again.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org