________________
-२७. १४
नागदत्तमुनिकथानकम्
४३
अथैकस्मै ददौ विद्यां हीनवर्णां परीक्षितुम् । अधिकाक्षरसंयुक्तामन्यस्मै मुनिनायकः ८॥ द्वाभ्यां चतुर्थमादाय विद्याराधयितुं स्तौ । एकस्य काणिका देवी चान्यस्योद्दन्तुरागता ॥ ९ ॥ विलोक्य देवतां व्यग्रामेताभ्यां चिन्तितं तदा । काणिकोद्दन्तुरा देवी दृश्यते न कदाचन ॥ १० ॥ शोधयित्वा पुनर्विद्यां मन्त्रव्याकरणेन तु । ऊनाधिकाक्षरं दत्त्वा हित्वा ताभ्यां विचिन्तितम् ॥ ११ ॥ भूयोऽपि चिन्तिता विद्या ताभ्यां देवी समागता । सर्वलक्षणसंपूर्णा किंकर्तव्यसमाकुला ॥ १२ ॥ विसर्ज्य देवतां साधू सिद्धविद्यौ तपखिनौ । गुरोः समीपतां प्राप्य प्रोचतुस्तौ यथाक्रमम् ॥१३॥ भवद्भिर्दत्तविद्यायां दत्तमेकं मयाऽक्षरम् । तथा निरस्तमेकं च महाऽतीचारकारिणा ॥ १४ ॥ कृतातीचारपापस्य प्रायश्चित्तं त्वमावयोः । प्रदेहि सांप्रतं तेन स्वचेतःशुद्धिमिच्छतोः ॥ १५ ॥ निशम्य तद्वचो योगी महासत्त्वसमन्वितम् । उवाच तौ भृशं प्रीतौ विनीताकारधारिणौ ॥ १६ ॥ ऊनाधिकाक्षरे विद्ये परीक्षार्थं यथाक्रमम् । वितीर्णे ते भवद्भ्यां मे न वां दोषोऽल्पकोऽपि सः ॥१७॥ ७ एवं निगद्य हृष्टात्मा धरसेनो मुनीश्वरः । आचाराङ्गं ददौ ताभ्यां विनीताभ्यां ससंभ्रमम् ॥ १८ ॥ आदाय तौ तदा विद्यां समस्तामल्पकालतः । पूजितौ सुरलोकेन जग्मतुः स्वमनीषितम् ॥ १९ ॥ यथा तौ योगिनौ विद्यां व्यञ्जनार्थोभयात्मिकाम् | शोधयित्वा श्रुताचारौ जातौ सुरनरार्चितौ ॥२०॥ तथा साधुरपि ज्ञानं व्यञ्जनार्थोभयात्मकम् । शोधयित्वा पठन्नाशु याति निर्वाणतामसौ ॥ २१ ॥ ॥ इति श्रीव्यञ्जनार्थो भयशुद्धिकथानकमिदम् ॥ २६ ॥
*
२७. नागदत्तमुनिकथानकम् ।
मगधाविषये सारे पुरं राजगृहं परम् । बभूवात्र प्रजापालो भूपतिः पालितप्रजः ॥ १ ॥ प्रियधर्माऽभवद्भार्या भूपतेरस्य रूपिणी । प्रियादिधर्ममित्रान्तौ पुत्रौ स्यातां तयोरिमौ ॥ २ ॥ अन्यदा धर्ममाकर्ण्य जैनौ तौ भ्रातरौ मुदा । दीक्षां दमवरस्यान्ते जैनीं जगृहतुः क्षमौ ॥ ३ ॥ उग्रं तपो विधायेमौ दक्षं कर्मविनाशने । आराध्याराधनां वीरौ जातौ देवौ महर्द्धिकौ ॥ ४ ॥ प्रियधर्मचरो देवः प्रियमित्रचरं सुरम् । ज्यायान् जगाद नाकस्थः कनिष्ठमिति तद्भवम् ॥ ५ ॥ द्वयोरेको यदि क्षिप्रं भुवं याति सुरालयात् । तदवस्थेन बोद्धव्यो भोगासक्तमतिः सकः ॥ ६ ॥ ज्यायसो वचनं श्रुत्वा स्नेहनिर्भरचेतसः । निजगावनुजस्तत्र तोषकण्टकिताङ्गकः ॥ ७ ॥ साधु संजल्पितं भ्रातः स्नेहसंबन्धमिच्छता । त्वया मया भवत्पक्षः प्रतिपन्नः स्फुटं प्रभो ॥ ८ ॥ अस्त्यवन्तीमहादेशे श्रीमदुज्जयिनी पुरी । नागवर्मा नृपस्तस्यां नागदत्ता च तत्प्रिया ॥ ९ ॥ प्रियमित्रचरो देवः स्वर्गादेत्यायुषः क्षयात् । पुत्रोऽनयोर्बभूवायं नागदत्ताख्यया पुनः ॥ १० ॥ ततोऽन्या नागदत्तस्य भगिनी रूपशालिनी । नागश्रीरिति विख्याता नागिनीव मनोहरी ॥ ११ ॥ विषये वत्सकावत्यां कौशाम्बी नगरी परा । जिनदत्तो नृपोऽस्यां स्याजिनदत्ताऽस्य वल्लभा ॥ १२ ॥ अनयो रूपसंपन्नो नन्दनो जिनपालितः । नागश्रीर्नागदत्तेन दत्ताऽस्मै स्नेहमिच्छता ॥ १३ ॥ प्रियधर्मचरो देवो दिव्यनारीमनः प्रियः । स्वर्गे संतिष्ठते योऽरं भुञ्जानः सुखसंपदम् ॥
१४ ॥ ३०
1 प चान्यस्य दन्तुरागता. 2 फ देवताव्यग्रां. 3 प त्रिकलमिदम्, फज त्रिकलम्. 4 फज खमनीक्षितम् 5फ भयात्मकम् ज भयात्मकाम्. 6 फज often omit इति, श्री and इदम्. 7फ पुरम्. 8 फomits some lines.
Jain Education International
15
For Private & Personal Use Only
20
25
www.jainelibrary.org