________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[२५. ७ईदृशं सौधमुत्तुङ्ग हस्तिनागपुरे परम् । कारापयामि जैनेन्द्रं चित्रकूटविराजितम् ॥ ७॥ अथवा किं विकल्पेन बहुना विहितेन मे । लेखं संप्रेषयामास भार्यामत्रिगणस्य च ॥ ८॥ स्वस्ति श्रीपोदनस्थानान्महासामन्तसेवितः । श्रीपतिः श्रीमहापद्मो गुणरञ्जितभूतलः ॥९॥
श्रीहस्तिनपुरे रम्ये पद्मश्रीनिजमत्रिणः । आज्ञापयति सस्नेहं कुशलप्रश्नपूर्वकम् ॥ १०॥ 5 कार्यं च लिख्यते श्रेष्ठं सद्भिर्जिनगृहं प्रति । बहुस्तम्भसहस्राणां कर्तव्यः संग्रहो महान् ॥ ११॥
भूपलेखं समादाय लेखवाहस्त्वरान्वितः । हस्तिनागपुरं प्राप्य विवेश नृपमन्दिरम् ॥ १२॥ प्रवाच्य लेखको लेखमवधार्य तदर्थकम् । पद्मश्रीमत्रिसंघानामिति धीरं जगाद सः॥१३॥ स्तभानां छलकानां हि सहस्राणि बहून्यपि । स्वीकर्तव्यानि युष्माभिर्जिनालयनिमित्ततः ॥ १४ ॥ कायस्थस्य वचः श्रुत्वा महापद्ममहत्तरैः । छलकानां सहस्राणि गृहीतानि ह्यनेकशः ॥ १५ ॥ " अत्रान्तरे वशीकृत्य सिंहनादं महाबलम् । आजगाम तरां हृष्टो महापद्मो निजालयम् ॥ १६ ॥ सभामण्डपमासाद्य चोपविश्य यथाऽऽसनम् । महापद्मनृपः प्राह मत्रिणः पुरतः स्थितान् ॥१७॥ बहुस्तम्भसहस्राणि गृहीतानि न वा बुधाः । जिनायतनहेतुत्वात् मत्रिणो ब्रूत मे द्रुतम् ॥ १८ ॥ महापद्मस्य सद्वाक्यं निशम्योचुमेहत्तराः । देव स्तभसहस्राणि तिष्ठन्तीमान्यनेकशः ॥ १९॥
मत्रिवाक्यं समाकर्ण्य महापद्मो जगाद तान् । मया स्तम्भसहस्राणि समादिष्टानि न स्तभाः॥२०॥ 15 अवाचि भूपतिर्भूयो मत्रिभिर्दीनमानसैः । लेखको देव जानाति न वयं चात्र वस्तुनि ॥ २१॥
सचिवोक्तं समाकर्ण्य महापद्मोऽपि लेखकम् । जगाद क्रोधसंभारकम्पिताखिलविग्रहः ॥ २२॥ महापद्मगिरं श्रुत्वा लेखको निजगावमुम् । यादृशान्यक्षराण्यत्र लेखकोक्तानि तानि मे ॥ २३ ॥ लेखकोऽवाचि भूपेन देवानामपि वल्लभः । कूटलेखक दुर्बुद्धे लेखार्थं ब्रूहि मत्पुरः ॥ २४ ॥ बहुस्तम्भसहस्राणि विहायार्थममुं पुनः । बहुस्तभसहस्राणि लेखार्थं वक्ति लेखकः ॥ २५ ॥ 20 व्यञ्जनार्थं परित्यक्तं वदन् वाक्यं समान्तरे । निर्धाटितः खलीकृत्य महापद्मन लेखकः ॥ २६ ॥
ज्ञानं जिनोदितं पथ्यं संसारार्णवतारणम् । अज्ञानमलनिर्नाशि भव्यकर्णरसायनम् ॥ २७॥ पठन् साधुरिदं मूढो व्यञ्जनार्थविवर्जितम् । अज्ञानमलमासाद्य बंभ्रमीति भवार्णवम् ॥ २८ ॥
॥ इति श्रीव्यञ्जनार्थहीनकथानकमिदम् ॥ २५ ॥
२६. व्यञ्जनार्थोभयशुद्धिकथानकम् । 25 ततः सौराष्ट्रदेशेऽस्ति नगरं गिरिपूर्वकम् । धर्मसेनो नृपस्तत्र धर्मसेनाऽस्य सुन्दरी ॥१॥
तत्पत्तनसमीपे च चन्द्रोपपदिका गुहा । संतिष्ठते गुरुस्तस्यां धरसेनो महामुनिः ॥२॥ आचाराङ्गस्य चैकस्य वेत्ता शिष्यसमन्वितः । व्याख्यानं तत्र कुर्वाणस्तिष्ठति स्म मुनीश्वरः॥३॥ हैरिद्रापश्चिमे यामे वृषभौ द्वौ सितप्रभौ । प्रदक्षिणं प्रकुर्वाणौ ददर्शायं यतीश्वरः ॥४॥
प्रभातसमये साधू देवपुष्पादिको बली । आजग्मतुः कृतस्तोत्रैर्जिनयोगीन्द्रपादयोः ॥५॥ 30 उपविश्य क्षणं स्थित्वा प्रोचतुस्तौ मुनीश्वरम् । नाथ ग्रहीतुमायातौ त्वत्तो विद्यां मनोद्भवाम् ॥६॥
श्रुत्वा तद्भारती योगी निजगाद तकौ मुनी । दास्यामि भवतोर्विद्यां सुसमाहितचेतसोः ॥७॥ • 1फ जिनालयम् . 2 फ omits and confuses some lines. 3 4 confuses some lines. 4 फ omits 28. 5 प हरिद्रा रात्रिपश्चिमे प्रहरे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org