________________
-२५. ६ ]
व्यञ्जनार्थहीन कथानकम्
४१
3
वसुमित्रोऽपि गर्गेण तदाश्रममागच्छता । विद्यायाः पात्रतां नीतः स्वकीयाया महात्मना ॥ २१ ॥ अत्रान्तरे वशीकृत्य वीरदत्तं महाबलम् । वसुपालः कृतानन्दो विवेश निजमन्दिरम् ॥ २२ ॥ उपविश्य नृपस्तत्र गर्गमाहूय सादरम् । सुतं चोत्सङ्गमारोप्य जगादेमं ससंभ्रमम् ॥ २३ ॥ किं कृशोऽसि गुणाधान सूपाध्याय महामते । किं न संपद्यते किंचिन्महे तव शोभनम् ॥ २४ ॥ निशम्य वसुपालस्य वचनं स्नेहसंगतम् । गर्गों जगाद तं वीरं दुर्बलः स्खलिताक्षरम् ॥ २५ ॥ स्वर्णपट्टोपविष्टाय स्वर्णपात्रे प्रदीयते । शालिभक्तं समुद्धं मे घृतं सुरभिनिर्मलम् ॥ २६ ॥ कृष्णाङ्गारमषी' बह्वी घृतपूराः सपूरकाः । व्यञ्जनानि प्रशस्तानि दधिक्षीरावसानकम् ॥ २७ ॥ एवमादि वरं भोज्यं वस्त्रताम्बूलभोजनम् । भवत्प्रसादतो राजन् सर्वं संपद्यते मम ॥ २८ ॥ भवत्कुले समाचारो विषमो नरनायक | कृष्णाङ्गारमषी' येन दीयते मे महत्यपि ॥ २९ ॥ यतस्त्वया प्रभो लेखः प्रेषितो मंत्रियोषिताम् । ततः प्रभृति भुञ्जानो मषीं' तिष्ठामि संततम् ॥ ३० ॥ ७ अस्थिचर्मावशेषस्य क्षयव्याधिमुपेयुषः । अनेन कारणेनेश शरीरं दुर्बलं मम ॥ ३१ ॥ उपाध्यायवचः श्रुत्वा वसुपालो विशुद्धधीः । बभाण क्रोधरक्ताक्षो लेखकं पुरतः स्थितम् ॥ ३२ ॥ रे लेखक दुराचार लेखार्थं ब्रूहि मत्पुरः । नो चेदेवं करोषि त्वं निहन्मि त्वां स्वयं रुषा ॥ ३३ ॥ शालिभक्तं मृदुश्लक्ष्णं व्रीहिभक्तं मयोदितम् । घृतं चाज्यं परिप्रोक्तं मषीकजलमेव तत् ॥ ३४ ॥ भूयस्त्वदीयलेखस्य लेखार्थः परिकीर्तितः । एषामेवंविधोऽस्माभिः कुरु त्वमधुनोचितम् ॥ ३५॥” ” लेखकोक्तं समाकर्ण्य वसुपालो जगावमुम् । शालिभक्तं वरं प्रोक्तं घृतमाज्यं” तथैव च ॥ ३६ ॥ हृद्या खल्वाटकी दालिश्च मषिः परिकीर्तिता । अत्र दोषः समायातस्तव मूढमतेरिति ॥ ३७ ॥ गर्दभारोपणं शीघ्रं जटापञ्चकमेव च । बन्धनं पञ्चबिल्वानां पत्तनभ्रमणं तथा ॥ ३८ ॥ कारयित्वा खलीकारं तरामस्य प्रमादिनः । स्वदेशाद् गमनं चक्रे वसुपालो महामतिः ॥ ३९ ॥ * अर्थहीनं यथा लेखं लेखको वाचयन् द्रुतम् । भूभुजा वसुपालेन खदेशादपसारितः ॥ ४० ॥ तथा मुनिरपि ज्ञानं जैनमर्थपरिच्युतम् । पठन् जडत्वमासाद्य संसारमवगाहते ॥ ४१ ॥
॥ " इति श्रीअर्थहीनकथानकमिदम् ॥ २४ ॥
*
२५. व्यञ्जनार्थहीनकथानकम् ।
कुरुजङ्गलदेशेऽस्ति हस्तिनागपुरं परम् । महापद्मोऽत्र भूपालः सम्यग्दर्शनभूषितः ॥ १ ॥ पद्मपत्रविशालाक्षी पद्मपादकरद्वया । सम्यग्दर्शनसंपन्ना पद्मश्रीरस्य कामिनी ॥ २ ॥ तथोत्तरापथे देशे पोदनाख्ये पुरेऽभवत् । सिंहनादो नृपः श्रीमान् वैर्यनेकपकेसरी ॥ ३ ॥ अन्यदाऽयं महापद्मो महाबलविभूतिभिः । सिंहनादोपरि क्रोधात् पोदनाख्यं पुरं ययौ ॥ ४ ॥ ततो रोधं विधायाशु पोदनस्य पुरस्य सः " । स्वसैन्यसमुदायेन महापद्मः प्रतिष्ठति ॥ ५ ॥ सहस्रकूटमुत्तुङ्गं पोदनस्थं जिनालयम् । धृतं स्तम्भसहस्रेण दृष्ट्वा राजा " विसिष्ये ॥ ६ ॥
1 फज वसुमित्रेण 2 फ मागच्छतः 3 फज मगृहे. 4 फ मखी, 5 फ मखी 6 फ मन्त्रयोषिताम्. 7 फ मखीं. 8 प षट्कलकमिदम् ज षट्कुलकमिदम् फ षटूकलकम्. 9 प चाय्यं 10 फ मखीकज्जलमेव च. 11 फ चतुष्कुलम् ज 'चतुष्कुलकम्, प चतुष्कुलकमिदम्. 12 प कृतमाय्यं 13 फ मखिः 14 प युग्मम्, फज युगलम् 15 ज अर्थहीनकथानकमिदम् फ अर्थहीनकथानकमिदमगमत्. 16 फच. 17फ प्रतिष्ठते
18 फ राज्ञा. बृ० को ० ६
Jain Education International
For Private & Personal Use Only
20
25
www.jainelibrary.org