________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[२३. २७भवदादिष्टवाक्यस्य जानीद्यर्थमिदं बुध । युष्माभिः कृतकर्तव्यैः सिंहानीक्रियतामिति ॥ २७ ॥ लेखकस्य निशम्योक्तं भूयो भूयो जगावमून् । शृणुतास्य पदस्यार्थ सिंहमध्यापय द्रुतम् ॥२८॥ सिंहस्य मत्सुतस्यास्य कारापयत मत्रिणः। अध्यापनं श्रुतस्येदं पावनं शीघ्रमादरात् ॥ २९ ॥
वीरसेननृपस्येदं निशम्य वचनं बुधाः । परं प्रमोदमायाता निन्दन्ति खललेखकम् ॥ ३०॥ 5 कारयित्वा खरारोहं लेखकस्य दुरात्मनः । बद्धानि पञ्चबिल्वानि पत्तनभ्रमणं तथा ॥ ३१॥ एवं विधाय राजेन्द्रो लेखकं दुष्टमानसम् । खलीकृत्य चकारास्य स्वदेशादपसारणम् ॥ ३२॥ यथायं लेखकः प्राप्तः खलीकारं सुदुःसहम् । व्यञ्जनेन परित्यक्तं भावयन्नर्थमीदृशम् ॥ ३३ ॥ जिनवक्राम्बुजायातं भव्यकर्णरसायनम् । अपवर्गपरावाप्तिभव्यजन्तुहितप्रदम् ॥ ३४॥ व्यञ्जनच्युतकं ज्ञानं तथा साधुरपि क्षितौ । पठन् मूर्खत्वमासाद्य भवं भ्राम्यति दुःखितः ॥३५॥
॥ इति श्रीव्यञ्जनकथानकमिदम् ॥ २३ ॥
२४. अर्थहीनकथानकम् । अथायोध्यापुरी कान्ता विनीता विषयेऽभवत् । वसुपालो नृपस्तस्यां प्रिया वसुमती मता ॥१॥ अनयो रूपसंपन्नो वसुमित्रः सुतोऽभवत् । उपाध्यायोऽस्य संजातो गर्गों विद्यासमन्वितः ॥२॥
अवन्त्यां च महादेशे श्रीमदुज्जयिनी च° पूः । वीरदत्तो नृपस्तस्यां वीरदत्ता च तत्प्रिया ॥३॥ 15 वसुपालनरेन्द्रस्य विह्वलीभूतवैरिणः । आज्ञाभङ्गं करोत्येष वीरदत्तो नृपः सदा ॥४॥
चातुरङ्गेण सैन्येन तत्पुरं परिवेष्टय सः । वसुपालनृपस्तस्थौ तत्पराक्रमविस्मितः ॥ ५॥ वसुपालोऽपि तत्रत्यो दध्यौ कोट्टबहिः स्थितः । कालेन कियता मे हि वीरदत्तो भवेद्वशः ॥६॥ अयोध्यायामरं तावल्लेखं च प्रहिणोम्यहम् । मत्सुतो वसुमित्रोऽपि येनायं पठति स्फुटम् ॥७॥ चिन्तयित्वा चिरं स्नेहात्पुत्रविद्यासमागमात् । लेखं आहेतुमारेभे वसुपालो नराधिपः ॥ ८॥ 20 स्वस्ति श्रीपुण्ययुक्ताया उज्जयिन्या नरेश्वरः । वसुपालप्रतापासिसाधितारातिमण्डलः ॥९॥ विनीतायां स्थितां देवीं चार्वी वसुमती तथा । मैत्रिणं चादिदेशाशु कुशलप्रश्नपूर्वकम् ॥१०॥ कार्य च लिख्यते चारु वसुमित्रश्रुताप्तये । उपाध्यायस्य कर्तव्यं गौरवं विविधं बहु ॥ ११ ॥ कुन्दपुष्पसमानाभं बाष्पाढ्यं मृदुसिक्थकम् । शालिभक्तं च दातव्यं घृतं च मषिसंयुतम् ॥ १२॥
राज्ञा विसर्जितः शीघ्रं लेखावाहो हि तत्समम् । जगाम सरसं सोऽपि स्वामिकार्यपरायणः॥१३॥ 25 ततः क्रमेण संप्राप्य वसुपालनृपालयम् । भूपालवल्लभामत्रिलेखकादिसमन्वितम् ॥ १४ ॥
ततः क्रमोपविष्टेषु सर्वेषु नृपबन्धुषु । लेखकोऽपि च तल्लेखं तत्समक्षं प्रवक्ति सः ॥१५॥ भाजनानि विचित्राणि शालिभक्तं सुगन्धि च । घृतं च 'मषिसंयुक्तं दातव्यं पाठकाय वै ॥१६॥ उपाध्यायस्य गर्गस्य पठति प्रीतिमानसः । महताऽयं प्रयत्नेन वसुमित्रसमन्वितः ॥ १७ ॥
आसनं स्वर्णमादाय स्वर्णपात्र्यां शशिप्रभः । ओदनो मुद्गसंघोऽपि घृतं तत्क्षणनिर्मितम् ॥ १८॥ 30 दीयतेऽस्मै ततोऽङ्गारमपी तत्क्षणनिर्मिता । वधूजनैरिदं सर्वं गर्गों भुङ्क्तेऽतिलज्जितः ॥ १९॥"
एवं मषीयुतं भक्तं भुञानस्य दिने दिने । गर्गस्य दुर्बलं जातं शरीरं नष्टदीधिति ॥ २० ॥
14 omits 27-28. 2 फ बलीकृत्य. 3 पफ युग्मम् , ज युगलम्. 4 फज व्यञ्जनहीन?. 5 फ पुरी. 6 फ भवद्वशः. 7 पज त्रिकलमिदम्, फ निकलम्. 8 प मन्त्रिणां. १ प मषिः मुद्दालिः, फ मखि. 10 फ सालनानि. 11 ज मसि, फ मखि. 12 पफ युग्मम् , ज युगलम.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org