________________
-२३. २६ ]
व्यञ्जनकथानकम् तस्मान्निजगुरुं प्राप्य शीघ्रमालोचनां कुरु । येन संपद्यते साधो कारणं तव शोभनम् ॥५६॥ श्रेणिकस्य वचः श्रुत्वा परिणामहितं परम् । जगाम स्वगुरोः पार्थं वैराग्याहितमानसः ॥ ५७॥ त्रिःपरीत्य तमीशानं वन्दित्वा च पुनः पुनः । निजगौ कृष्णसंदीवो गुरुनिह्नवकारणम् ॥ ५८॥ श्रुत्वा शिष्यवचः सोऽपि प्रायश्चित्तं वितीर्णवान् । अस्मै 'खनिन्दनासक्तकरिणे भववेपिने ॥५९॥ गुरुदत्तं विधायोच्चैः प्रायश्चित्तं मुनिः सकः । बभूव केवलज्ञानी लोकालोकावलोकनः ॥ ६०॥
॥ इति श्रीगुरुनिहवाख्यानकमिदम् ॥ २२॥
२३. व्यञ्जनकथानकम् । मगधाविषये रम्ये पुरे राजगृहेऽभवत् । वीरसेनो नृपः शूरो वीरसेनाऽस्य वल्लभा ॥१॥ अनयोनन्दनो जातः सिंहः सिंहपराक्रमः । उपाध्यायोऽभवत्तस्य सोमशर्माऽतिपण्डितः ॥२॥ अथोत्तरापथे देशे पुरे पोदननामनि । राजा सिंहरथो नाम सिंहसेनाऽस्य सुन्दरी ॥३॥ ॥ एष सिंहरथो राजा सिंहविक्रमराजितः । वश्यो न वीरसेनस्य नताशेषमहीपतेः ॥ ४ ॥ अन्यदा वीरसेनोऽयं गतः सिंहरथोपरि । स्वसैन्यसमुदायेन चतुरङ्गेन भूयसा ॥५॥ तत्कोट्टवेष्टनं कृत्वा वीरसेनः समन्ततः । महाबलसमृद्धोऽपि तद्वशीकारविह्वलः ॥६॥ वीरसेनोऽपि तत्रत्यो दध्यौ विस्मितमानसः। एकः पुत्रोऽस्ति मे बालः स किं पठति वा न वा ॥७॥ चिन्तयित्वा चिरं तत्र वीरसेनो नराधिपः । प्रहिणोति स्म सल्लेखं महादेवीं स्वमत्रिणाम् ॥ ८॥ खस्ति श्रीपोदनाभिख्यपुरादरिविमर्दनः । सामन्ताधिपतिः श्रीमान् वीरसेनो महाबलः ॥९॥ राजद्राजगृहे रम्ये पुरे राजगृहेऽखिलान् । आदिदेश महादेवी मत्रिमुख्यान् समङ्गलम् ॥ १० ॥ मगोत्रतिलकीभूतमस्मदत्यन्तवल्लभम् । रमणीमत्रिसंघातं सिंहमध्यापय द्रुतम् ॥ ११ ॥ यावच्छत्रोर्वशीकारं विदधामि बलीयसः । तावत्सुतस्य कर्तव्यं भवद्भिः परिरक्षणम् ॥ १२॥ रिपुं ववशमाधाय करदीभूतमानतम् । आगमिष्याम्यहं क्षिप्रं स्थेयं सर्वैः प्रयत्नतः ॥ १३ ॥2॥ लेखवाहगले कृत्वा लेखं संवेष्टय यत्नतः । पुरं राजगृहं तोषी प्राहिणोत्तं महीपतिः ॥ १४ ॥ लेखवाहो द्रुतं प्राप्य तत्त्रियां मत्रिसंयुताम् । लेखं मुमोच हृष्टात्मा सप्रणामं तदग्रतः॥ १५॥ लेखार्थमवगम्याशु स्वबुद्ध्या लेखकस्तदा । तेषां तदर्थमाचष्टे "सिंहोऽन्धीक्रियतामिति ॥ १६ ॥ सिंहोऽन्धलः कृतो मूढैः कायस्थवचनात्तकैः । शोकविह्वलचेतोभिर्गच्छद्भिर्भूपतेर्भयम् ॥ १७ ॥ अत्रान्तरे वशीकृत्य भीमं सिंहरथं रिपुम् । वीरसेनो नृपः शीघ्रमाजगाम निजं पुरम् ॥ १८ ॥ प्रविश्य मन्दिरं राजा चोपविश्य सभागृहे । सिंहमाहूय सस्नेहं मुदाऽमुं परिषस्वजे ॥ १९ ॥ सिंहस्य लोचनद्वन्द्वं दृष्ट्वा दृष्टिविवर्जितम् । जगाद भूपतिः कान्तां मत्रिणोऽपि पुरःस्थितान् ॥२०॥ सिंहाक्षियुगलं लोका विनष्टं केन हेतुना । शीघ्रं वदत मे स्पष्टं यथातथ्यं प्रयोजनम् ॥ २१॥ । वीरसेनवचः श्रुत्वा ते वदन्ति नरेश्वरम् । वल्लेखदर्शनादस्य नाशितं लोचनद्वयम् ॥ २२ ॥ श्रुत्वा तद्वचनं राजा भूयोऽपि निजगावमुम् । लेखार्थः कथितः केन लेखकेनेति ते जगुः ॥२३॥ ३॥ आकर्ण्य तद्वचो भूपो लेखकं पुरतः स्थितम् । जगाद क्रोधरक्ताक्षो भृकुटीभीषणालिकः ॥ २४ ॥ रेरे खल दुराचार सिंहलोचननाशन । कूटलेखक पापिष्ठ मल्लेखार्थ निवेदय ॥ २५ ॥ वीरसेनवचः श्रुत्वा लेखको निजगाद तम् । “तवेदं विस्मृतं वाक्यं सिंहमध्यापय द्रुतम् ॥२६॥
1फ स्वनिन्दनाशक्तिकारिणे. 2 फ उपाध्यायो भवेत्तस्य. 3 पज सिंहान्धीक्रियतामिति.... 4 फ तदेदं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org