________________
हरिषेणाचार्यकृते वृहत्कथाकोशे
[ २२. २२ततस्तं लेखमादाय स्खकरेण विधृत्य तम् । प्रवाच्य भूपतिः स्वेन तदर्थं ज्ञातवानसौ ॥२२॥ धरणीमण्डलं सर्वे यत्नेन महता ध्रुवम् । अन्विष्य सद्गुरुः सभ्याः क्षिप्रमानीयतामिति ॥२३॥ तदाज्ञां प्राप्य तद्भपाः श्रीमदुजयिनीपुरः । निर्ययुस्तं समानेतुमुपाध्यायं कृतत्वराः ॥ २४ ॥ ददृशुर्भट्टपुत्रास्तं कालसंदीवयोगिनम् । 'विन्यातटपुराभ्याशे परमागमवेदिनम् ॥ २५ ॥ । दृष्ट्वा वदन्ति तं तत्र विनयानतमस्तकाः । वयं भवन्तमानेतुं प्रेषिताः प्रभुणा प्रभो ॥ २६॥ तस्मादुत्तिष्ठ गच्छाम तदभ्याशं मुनीश्वर । ताम्बूलादि न गृह्णाति त्वददर्शनतः प्रभुः ॥२७॥ तद्भट्टपुत्रसद्वाक्यं श्रुत्वा भक्तिसमन्वितम् । जगाम कालसंदीवश्चण्डप्रद्योतमन्दिरम् ॥ २८॥ विलोक्य कालसंदीवं चण्डप्रज्ञस्त्वरान्वितः । तत्सन्मुखमभीयाय विधाय करकुडलम् ॥ २९॥ स्वयमेवासनं दत्त्वा कालसंदीवयोगिने । चक्रे तदासनस्थाय पादप्रक्षालनं नृपः ॥ ३०॥ " धनसारसमृद्धेन कुङ्कुमेनातिचारुणा । लिम्पति स्म गुरोः पादौ स्वयमेव क्षितीश्वरः ॥ ३१॥ अष्टापदमयं पढें कालसंदीवपादयोः । चण्डप्रज्ञो बबन्धायं शङ्खतूर्यादिभूतिभिः ॥३२॥ गन्धान्धीकृतभृङ्गौधैर्नानापुष्पैमनोरमैः । कालसंदीवपादौ हि पूजयामास भूपतिः ॥ ३३॥ श्रीखण्डघनसारादि धूपं संधूपिताशकम् । समुत्क्षिपति भूपालः कालसंदीवपादयोः ॥ ३४ ॥ करौ शिरसि विन्यस्य चण्डप्रद्योतभूपतिः । ननाम कालसंदीवं मनोवाक्कायकर्मभिः ॥ ३५ ॥ । ततः प्रणामं पुनः कृत्वा चण्डप्रज्ञो जगौ गुरुम् । भगवन् देहि मे दीक्षां संसारार्णवतारणीम् ॥३६॥
नरेन्द्रवचनं श्रुत्वा जगादेमं मुनीश्वरः । संसारवाससंभीतं गुरुभक्तिपरायणम् ॥ ३७॥ दिव्यज्ञानेन विज्ञाय भव्यतामस्य भूपतेः । तदानीं कालसंदीवो ददौ दीक्षां विशुद्धये ॥ ३८ ॥ दीक्षानन्तरमेवास्य शरीरं तपसो बलात् । गोदुग्धकुन्दपुष्पा बभूव विधुसंनिभम् ॥ ३९ ॥ नानातपोविधानज्ञो निगृहीतेन्द्रियः स्थिरः । ततोऽयं गुरुणाऽऽनीतः श्वेतसंदीवनाम तम् ॥४०॥ ॥ ततस्तौ द्वावपि क्षिप्रं गुरुशिष्यौ प्रजग्मतुः । ध्वजमालामनोहारि परं राजगृहं पुरम् ॥ ४१॥ विपुलादिगिरौ वीरः शरणे समवादिके । मुनिदेवादिसंकीर्णे तस्थौ केवललोचनः ॥ ४२ ॥ ततो वीरजिनेशस्य समवस्थानमुत्तमम् । जगाम कालसंदीवः श्वेतसंदीवसंयुतः ॥४३॥ विलोक्य श्वेतसंदीवं समवस्थानतो बहिः । जगाद श्रेणिको नाथ कस्य पार्थे तपोऽग्रहीत् ॥४४॥ श्रेणिकस्य वचः श्रुत्वा कौतुकव्याप्तचेतसः । जगौ तं श्वेतसंदीवो वितथासक्तमानसः॥४५॥ 'अहं प्रसिद्धिमायातो राजराजसुपूजितः । मद्गुरुः कालसंदीव इत्याख्यातं कथं ब्रुवे ॥४६॥
अस्माकं हि महीपाल प्रीणिताशेषभूतलः । ज्ञानाम्भोधिस्तपोराशिमहावीरो भवेद्गुरुः ॥४७॥ ' एवं 'निगदतस्तस्य शरीरं शशिसंनिभम् । अङ्गारराशिसंकाशं तत्क्षणेन बभूव तत् ॥४८॥ श्रुत्वा तद्वचनं राज्ञा चिन्तितं मनसि स्फुटम् । शरीरं शुक्लमायातं किं मुनेरस्य कृष्णताम् ॥४९॥ एवं विचिन्त्य राजेन्द्रःप्राप्य गौतमसन्निधिम् । भक्त्या प्रणम्य तं नाथं पप्रच्छेति स कौतुकात्॥५०॥ 30 कुन्दपुष्पसमानाभं शरीरं विधुनिर्मलम् । कृष्णत्वं किं गतं ब्रूहि श्वेतसंदीवयोगिनः ॥५१॥
आकर्ण्य तद्वचः सत्यं गौतमोऽपि तमब्रवीत् । कौतुकव्याप्तचेतस्कं विनयानतविग्रहं ॥५२॥ असत्यभाषणादस्य लज्जया निजगौरवात् । सितं शरीरमायातं कृष्णत्वं गुरुनिह्नवात् ॥ ५३॥ निशम्य गौतमेनोक्तं श्रेणिको द्रव्ययोगिनम् । जगाद श्वेतसंदीवं कृष्णीभूतशरीरकम् ॥ ५४॥ सितकुन्दसमानाभं त्वच्छरीरं मनोहरम् । गुरुनिह्नवदोषेण कृष्णतां समुपागतम् ॥ ५५ ॥
1फ विज्ञातट. 2 फ युवेश्वरः. 3 फ सारादि. 4 फ °दायिनीम् 5जतेन्द्रियस्थिरः, फतेन्द्रियस्थितिः. 6 फ श्वेतसंदीवमानताम्. 7 Only in फ. 8 प निगद्यत 9 फ विग्रहः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org