________________
-२२. २१ ]
गुरुह्निवकथानकम्
३७
नन्दावचनमाकर्ण्य सुनन्दा जनवाक्यतः । घृतकुम्भसहस्रं वै ददावस्मै धवाय सा ॥ ३२ ॥ घृतकुम्भसहस्रं च दृष्ट्वा स स्वपुरः स्थितम् । अशोको गोकुलं तस्याः सुनन्दायाः समर्पयत्' ॥ ३३ ॥ गृहं च स्वधनं चैव स सर्वं जीवितं तथा । अशोकोऽपि सुनन्दाया ददौ तत्प्रीतमानसः ॥ ३४ ॥ * अशोकमानसोत्तीर्णा खादन्ती भक्षमानकम् । नन्दा सुदुःखतस्तस्थौ स्थिता तत्र कुटीरके ॥ ३५ ॥ गोगोपालकभाण्डानां बहुमानमकुर्वती । नन्दा निर्धाटिता गेहादशोकेन वराकिका ॥ ३६ ॥ गोगोपालकभाण्डानां बहुमानं प्रकुर्वती । सुनन्दा पूजिता तेन जाता तत्प्राणवल्लभा ॥ ३७ ॥ एवं साधुरपि स्पष्टं बहुमानं करोति नो । ज्ञानस्य समवाप्नोति संतापं चित्तदुस्सहम् ॥ ३८ ॥ साधुर्ज्ञानस्य भावेन बहुमानं करोति यः । ज्ञानमासाद्य सोऽपीन्द्रैः सुनन्दावत्प्रपूज्यते ॥ ३९ ॥ ॥ इति श्रीज्ञानबहुमानाख्यानकमिदम् ॥ २१ ॥
*
२२. गुरुनिह्नवकथानकम् ।
अथावन्तीमहादेशे श्रीमदुज्जयिनी पुरी । अस्यां बभूव मानार्हो धृतिषेणो महीपतिः ॥ १ ॥ तस्याभवन्महादेवी श्रीकीर्तिधृतिरूपगा । भार्याऽमलमती नाम चण्डप्रज्ञोऽनयोः सुतः ॥ २ ॥ विन्यातटपुरे रम्ये सोमशर्माऽभवद् द्विजः । सौम्या च तत्प्रिया कालसंदीवस्तनयोऽनयोः ॥ ३ ॥ सर्वशास्त्रार्थकुशलश्चतुर्वेदषडङ्गधीः । अष्टादशलिपिज्ञोऽसौ मीमांसाऽऽहितमानसः ॥ ४ ॥ चण्डप्रज्ञस्य संजातश्चोपाध्यायो विशुद्धधीः । वैदिकः कालसंदीवः कलाविज्ञानकोविदः ॥ ५ ॥ " विवेद कालसंदीवात् सप्तदश लिपीरसौ । न चैकामध्यधीयानो लिपिं यवनसंभवाम् ॥ ६ ॥ यदा यवनदेशोत्थां भूयोभूयः प्रदर्शिताम् । न गृह्णाति लिपिं शुद्धां कुमारः सुकुमारकः ॥ ७ ॥ उपाध्यायेन रुष्टेन परिणामहितेन सः । चण्डप्रज्ञो हतो मूर्ध्नि तदा पादेन निर्दयम् ॥ ८ ॥ महारुषं परिप्राप्य स्वशिरःपादताडनात् । उवाच कालसंदीवं चण्डप्रज्ञोऽरुणेक्षणः ॥ ९ ॥ काकतालीययोगेन यदि मे राज्यसंभवः । ततः पादं कुठारेण छेत्स्यामीमं स्फुटं तव ॥ १० ॥ 20 कुमारवचनं श्रुत्वा बालविभ्रमकारणम् । जगाद कालसंदीवश्चण्डप्रज्ञं प्रकोपितम् ॥ ११ ॥ कुमार यदि ते राज्यं भविष्यति विसंशयम् । ततो मदीयपादस्य पट्टबन्धं करिष्यसि ॥ १२ ॥ अष्टादशलिपिज्ञं हि' कृत्वा कष्टेन पाठकः । ततो जगाम संतुष्टो दक्षिणापथमादरात् ॥ १३ ॥ जिनधर्मं समाकर्ण्य श्रुतसागरयोगिनः । समीपे कालसंदीवो दीक्षां दैगम्बरीं दधौ ततः समस्तराद्धान्तपारगः स्तोककालतः । बभूव कालसंदीवो विधाता तपसामलम् ॥ अथ दृष्ट्वा महामेघं विमानाकारधारिणम् । तत्क्षणाद् विलयं यातं धृतिषेणः प्रशान्तवान् ॥ १६ ॥ चण्डप्रज्ञं तमाहूय राज्यपठ्ठे बबन्ध सः । अमुष्य कृतकृत्यस्य सामन्तादिपुरःसरम् ॥ विहाय सकलं संगं स्वशरीरेऽपि निःस्पृहः । धृतिषेणो दधौ दीक्षां शान्तो जैनेश्वरीं तदा ॥ १८ ॥ ततः कलकलावर्तमुज्जयिन्यां पुरि प्रभुः । चकार विपुलं राज्यं चण्डप्रद्योत भूपतिः ॥ १९ ॥ अत्रान्तरे महामानी नृपो यवनसंभवः । प्राहिणोति स्म तल्लेखं चण्डप्रद्योत भूपतेः ॥ २० ॥ श्रीमदुज्जयिनीमध्ये सामन्तादिजनोऽखिलः । न कोऽपि तां लिपिं तत्र विवेद यवनोद्भवाम् ॥२१॥
I
॥
१४ ॥
१५ ॥ 25
१७ ॥
30
1 प अशोकोपि सुनन्दाया ददौ तत्प्रीतमानसः । 2 Omitted in प. 3 फ विज्ञातटपुरे. 4फ संभवम् 5 पफ युग्मम्, ज युगलमिदम्. 6 फज प्रको पिनम् 7 फ तं. 8 फ भूपतेः 9 फ omits 20. 10 फ यवनोद्भवम्.
Jain Education International
For Private & Personal Use Only
10
www.jainelibrary.org