________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ २१. १२१. ज्ञानबहुमानकथानकम् । ततः काशीजनान्तेऽभूद् भूपतिवृषभध्वजः । वाराणस्यां पुरि श्रीमान् साधितारातिमण्डलः ॥१॥ भूपतेरस्य सत्कान्ता तरुणी लोललोचना । अभूद् वसुमतीश्रीः सा निधानं शीलसंपदाम् ॥ २॥ वाराणसीसमीमे च गङ्गारोधसि सुन्दरः । पलाशोपपदः कूटो ग्रामो बहुधनोऽभवत् ॥३॥ 5 आसीदशोकनामात्र ग्रामे बहुधनो धनी । महत्तरोऽस्य भार्या च नन्दा तन्मानसप्रिया ॥ ४॥ ततोऽन्या सचिवोद्भूता सुनन्दा नाम कन्यका। परिणीता साऽशोकेन नन्दा वन्ध्येति सुन्दरी ॥५॥ अशोकः शोकसंत्यक्तोऽनेकगोकुलनायकः । संतिष्ठतेऽग्रणीस्तत्र नन्दिताशेषबान्धवः ॥ ६॥ वृषभध्वजभूपाय घृतकुम्भसहस्रकम् । वर्षे वर्षे प्रदायास्ते भुञ्जानो गोकुलानि सः ॥७॥ दृष्ट्वाऽशोको महाराटिं तथा नन्दासुनन्दयोः । अर्धाधु गोकुलं कृत्वा ददौ कार्यविचक्षणः ॥८॥ 10 तदा गोपालभाण्डानां गवां च परिपालनैः । चकार सा सुनन्दा च बहुमानं दिने दिने ॥९॥ ग्रामाद् गवां प्रयान्तीनामटवीं स्तोकमन्तरम् । प्रयाति च समं ताभिः सुनन्दा स्नेहतत्परा ॥१०॥ भूयोऽप्येकैकशो गाः स्वा गणयित्वा पुनः पुनः । गोपालकसमूहानां समायाति मन्दिरम् ॥११॥ वनाद् गृहं विशन्तीनां गवामायाति सन्मुखम् । भूयोऽपि गणयित्वा ताः प्रवेशयति मन्दिरम् ॥१२॥
आगतानां गृहं तासां बहु वट्टलकं वरम् । ददाति सा पुनस्तस्यै दुग्धं ददति ता बहु ॥१३॥ 15 तथा गोपालकेभ्योऽपि दुग्धं दधि घृतं बहु । ददाति भोजनं स्थानं चर्वणादिकमेव सा ॥ १४ ॥ गच्छतामटवीं तेषां गोपालानामनारतम् । लड्डुकांश्च प्रदायैभ्यो विससर्ज तकानपि ॥ १५॥ तेऽपि गोपालका दृष्ट्वा यत्र निर्झरनीरकम् । कोमलानि च शष्पानि सन्ति तत्र नयन्ति गाः ॥१६॥ दुग्ध्वा दुग्धानि गा गोपाः पिबन्ति प्रीतमानसाः । सुनन्दाकरसंदत्तभक्षभोजनकारिणः ॥१७॥
अटव्यां गतगोपानां पादधावनभोजनैः। सुष्वाप्य स्नानपानाद्यैरुपचारं करोति सा ॥१८॥ 20 सुगन्धि शीतलं तोयं पाययित्वा पुनः पुनः । मृदुस्निग्धानि मृष्टानि चारयित्वा तृणान्यपि ॥१९॥ तरुच्छायासु मध्याह्ने किंचित्कालं निवेश्य ताः । गोकीटान्वेषणेनात्र स्वहिताः कुर्वतेऽन्वहम् ॥२०॥ एवं गोपालकाः प्रीतास्तकया बहुमानिताः । वनं सुखेन गा नीत्वा चानयन्ति पुनर्ग्रहम् ॥२१॥" भाण्डकेषु पुनयेषु दुग्धं दधि घृतं तथा । क्रियते तेषु संस्कारं करोति सततं सका ॥ २२॥ नन्दा सुयौवनोन्मत्ता सुवल्लभतया प्रभोः । गोगोपभाण्डकानां च सन्मानं न करोति सा ॥२३॥ 25 गवां "वट्टलकं नैषां गोपालानां न भोजनम् । भाण्डकानां न संस्कारं करोति मदविह्वला ॥२४॥
गावो ददति नो दुग्धं विना सन्माननेन ताः। किंचिद्ददति चेदल्पं दुग्ध्वा गोपाः पिबन्ति तत् ॥२५॥ यत्किंचिदल्पकं दुग्धं स्थाप्यते भाण्डकेषु तत् । अशुद्धेषु च सर्वेषु विनाशमुपगच्छति ॥ २६ ॥ नास्ति नन्दागृहे दुग्धं न वा दधि घृतं न च । बहुमानं विना लोके न हो जायते नृणाम् ॥२७॥ अत्रान्तरे समाहूय नन्दाऽऽख्यां पूर्ववल्लभाम् । अशोकः प्राह तां कान्तां सस्नेहं पुरतः स्थिताम् ॥२८॥ घृतकुम्भसहस्रं च वृषभध्वजभूभुजे । दातव्यमधुनाऽस्माभिर्निर्विकल्पं मनस्खिनि ॥ २९ ॥ शतानि घृतकुम्भानां पञ्च त्वं देहि मे प्रिये । एतावन्त्येव चान्यानि सुनन्दा दास्यति ध्रुवम् ॥३०॥ अशोकवचनं श्रुत्वा नन्दा वदति तं क्रुधा । तावत्पञ्चशतान्यासन् घृतस्यैकं पलं न हि ॥ ३१॥
14°मतीश्री, जमतीश्रीसौनिधानं. 2 प धनो धनी. 3 प ज्येष्ठातरास्य, ज महत्तरास्य. 4 फ ततोऽन्य. 5फ तथा. 6 प प्रयातीनामटवीं. 7 फ कट्टलकं. 8 प दुरध्वा दुग्धा गा. 9प प्रीतिमानसाः, 10 पज सुखाय. 11 फ युग्मम्, पज युगलम्. 12 फ कट्टलकं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org