________________
३५
-२०. २३ ]
ज्ञानाचरणकथानकम् सुप्रतिष्ठेन हीनेन कृतनेन दुरात्मना । विद्या लब्ध्वाऽप्यतो नष्टा मन्दभाग्येन पापिना ॥ ८०॥ धनसेनेन भूपेन विद्या लब्धाऽतिभक्तितः। विद्युत्प्रभाख्यखेटेन पूजितेन विभूतिभिः ॥ ८१ ॥ ज्ञानस्य मुक्तिमार्गस्य विवेकस्य प्रयत्नतः । विनयोऽस्ति प्रकर्तव्यः साधुना मुक्तिमिच्छता ॥ ८२॥
॥ इति श्रीज्ञानविनयाख्यानकमिदम् ॥ १९॥
२०. ज्ञानाचरणकथानकम् । अथाभवदहिच्छत्रे वसुपालो नराधिपः । भार्या वसुमती तस्य पुत्री वसुमती शुभा ॥१॥ तदा सहस्रकूटाख्यं नगोत्तुङ्गमनोहरम् । अकारयदिदं राजा जिनायतनमुत्तमम् ॥ २॥ तस्मिन् पार्श्वजिनेन्द्रस्य प्रतिमामतिशोभनाम् । लेपकारः कलाधारः करोति स्म प्रयत्नतः ॥ ३॥ प्रभाते यावदायाति लेपकारस्तदन्तिकम् । तावत्तां प्रतिमां तत्र ददर्श पतितामसौ ॥४॥ भूयोऽपि मृत्तिकापिण्डैठेपकारो विधाय ताम् । विचित्ररूपसंपन्नां जिनार्चा यात्यतो गृहम् ॥५॥10 अथ राजा समागत्य निरूप्य प्रतिमामसौ । पतितां रोषमापन्नो लेपकारं विसृष्टवान् ॥६॥ एवं बहुषु यातेषु लेपकारेषु केषुचित् । अन्यः समागतो भूपं लेपकारो महामतिः ॥ ७॥ लेपकारं समालोक्य भूपतिः पुरतः स्थितम् । बभाणेति च तं क्रुद्धो विनीताकारधारिणम् ॥ ८॥ अस्माभिर्लेपकाराणां धनं दत्तं यथेप्सितम् । तथापि प्रतिमा नेता समाप्तिं मूढचेतसाम् ॥ ९॥ इदानीं त्वं समायातश्चित्रचित्रकरो महान् । गृहीत्वेमां कुरु क्षिप्रं ते दास्यामि महद्धनम् ॥१०॥ 15 अथवेदं न विज्ञानं विद्यते तव शोभनम् । तदा याहि “गृहाद्वारमस्पृशंशिरसा द्रुतम् ॥११॥ भूपवाक्यं समाकर्ण्य लेपकारो जगावमुम् । करोमि प्रतिमां राजन् बहुना जल्पितेन किम् ॥१२॥ प्रदायास्मै स्वहस्तेन ताम्बूलं नरनायकः । विससर्ज तकं सोऽपि जगाम निजमन्दिरम् ॥ १३॥ लेपकारो जिनस्तोत्रं विधाय बहुभक्तितः । गुरुभक्तिं चकारासौ गुरोराचारवेदिनः ॥१४॥ गुरुभक्तिं विधायासावुपविश्य तदन्तिके । जगाद मुनिचन्द्रं च भक्तिनिर्भरमानसः॥ १५ ॥ 20 मद्यस्य मधुमांसस्य क्षीरवृक्षफलस्य च । दधिदुग्धघृतस्यापि रमणीरमणस्य च ॥ १६॥ यावत्पार्थजिनेन्द्रार्चा निष्पत्तिं नोपगच्छति । तावन्निवृत्तिमेतेषां मुनिचन्द्र प्रदेहि मे ॥ १७ ॥ यदुक्तं तेन तत्सर्व वितीर्णं तस्य योगिना । आदाय भक्तितः सोऽपि सप्रमाणं समुत्थितः ॥१८॥ समस्तलक्षणोपेतां सर्वावयवसुन्दरीम् । लेपकारश्चकारैतां पार्श्वनाथप्रयातनाम् ॥ १९ ॥ ततोऽयं वसुपालेन धनधान्यादिसंपदा । विधाय बहुसन्मानं पूजितः सरसं तदा ॥ २०॥ 23 विधायावग्रहं तेन प्रतिमा विहिता यथा । भूभुजा पूजितेनालं मणिकाञ्चनभूतिभिः ॥ २१ ॥ तथैव साधुनाऽवश्यमागमं पठता सता । अवग्रहः प्रकर्तव्यस्तद्भक्तिकृतचेतसा ॥ २२ ॥ तस्मिन् समाप्तिमापन्ने प्राप्य पूजां नरादिकाम् । अपवर्गसुखं भूयो लभिष्यति मुनीश्वरः ॥२३॥
॥ इति श्रीज्ञानाचरणकथानकम् ॥ २० ॥
.. 1पज लब्ध्वाप्यसौ. 2फ देशकस्य. 3 फ नगोत्तुङ्गमहेश्वरम्. 4 फ गृहद्वार. 5 फ घृतदुग्धदधिस्थापि. 6 फ युग्मम् , पज युगलमिदम्. 7 प प्रयातनाम्-प्रतिमाम्. 8 पज नरादिकम्. 9 ज कथानकमिदम् , फ कथानकमिदमगात्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org