________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ १९.४९भगवो भूभुजाऽवाचि विस्मयव्याप्तचेतसा । किं सत्यमिदमेव' न सत्यं राजेन्द्र नान्यथा ॥४९॥ भुक्त्वा नृपसमं सोऽपि निमन्त्र्य नृपति क्षणात् । तोषपूरितचेतस्को निर्जगाम नृपालयात् ॥५०॥ अथ सौधैः सुधाशुक्लैः साणूरैरपि शोभनैः । आपणैर्धनसंपूर्णैः पौरलोकसमाकुलैः ॥५१॥ परिखातोरणै रम्यैश्चतुर्गोपुरकैरपि । प्राकारवापिकोद्यानवनैरपि मनोहरैः ॥५२॥ 5 वितानध्वजमालाभिर्नानावस्त्रैः प्रसारितैः । 'राजमानं पुरं चके सुप्रतिष्ठः स्वविद्यया ॥ ५३॥ राजाऽन्तःपुरलोकौधैः कृतकोलाहलस्वनैः । आजगाम पुरं तेन जनसंघट्टमीयुषा ॥ ५४॥ भूपावरोधलोकानां "यथास्वमनुयायिनाम् । अमत्राणि पवित्राणि सौवर्णानि ददुर्जनाः ॥ ५५ ॥ हस्तप्रक्षालनं दत्तं जनैः सालनकानि च । ओदनो मुद्गसंयुक्तो घृतं तत्क्षणनिर्मितम् ॥ ५६ ॥ अत्रान्तरे तकौ पाणौ प्राप्तौ गोपुरकाङ्गणम् । दृष्टिगोचरमायातौ सुप्रतिष्ठतपखिनः ॥ ५७ ॥ " सुप्रतिष्ठेन चादिष्टाः किंकरास्तन्निरासनम् । यावत्कुर्वन्ति ते तावत्स्थितं शून्यं कुटीरकम् ॥ ५८॥ न भोजनं न भोज्यं च न पुरं न गृहादिकम् । सुप्रतिष्ठो नृपस्तस्थौ केवलं वजनैः समम् ॥५९॥ सुप्रतिष्ठं ततः प्राह कृष्णवक्र सकौतुकः । किं जातं तपसश्छिद्रं ते च मे ब्रूहि सांप्रतम् ॥६॥ भूपवाक्येन तेनोक्तं किं तपो नियमो गुणः । अस्माकं हि कृतघ्नानां भूपते शीलमेव वा ॥ ६१॥ दृष्टावेतौ त्वया डोम्बौ विद्या नगरसंभवा । दत्तेयं मह्यमेताभ्यां राजन् प्रणतिपूर्वकम् ॥ ६२॥ 15 त्वल्लज्जया प्रणामो मे राजन् हि न कृतोऽनयोः । अनेन कारणेनार्य विद्यैताभ्यां हृता पुनः ॥६३॥'
राजा तद्वचनं श्रुत्वा भक्त्या प्राप्य तदन्तिकम् । त्रिःपरीत्य तकौ नत्वा ययाचे विद्यकामयम् ॥६४॥ राज्ञो वचनमाकर्ण्य डौम्बको तमवोचताम् । यावद्दर्श त्वया भूप कर्तव्या नुतिरावयोः ॥६५॥ अस्मन्नुति विना विद्या सिद्धाऽपि क्षयमेष्यति । भगवस्येव मूढस्य कृतघ्नस्य दुरात्मनः ॥६६॥
__ तथा चोक्तम् - विनयेन विना का श्रीः का निशा शशिना विना ।
रहिता सत्कवित्वेन कीदृशी वाग्विदग्धता ॥ ६७ ॥ एवमुक्त्वा पुनस्ताभ्यां विद्या दत्ता महीभुजे । तेनापि भक्तितश्चात्ता तदा तन्नतिपूर्वकम् ॥ ६८॥ गतौ क्वापि तकौ देशात्तत्परीक्षणहेतुतः । तद्विद्यया पुरं कृत्वा ययौ राजा स्वमन्दिरम् ॥ ६९ ॥ यावदास्थानमासाद्य भूपतिर्व्यवतिष्ठते । पाणौ च तावदागत्य तिष्ठतो द्वारि भूपतेः ॥ ७० ॥ 5 ततः क्रमेण तौ दृष्टौ भूभुजाऽऽस्थानमीयुषा । आस्थानतः समुत्थाय ययौ तत्सन्मुखं नृपः ॥७॥ त्रिः परीत्य तको राजा तद्भक्तिस्थिरमानसः । सभाजनसमक्षं च ननाम सरसं तदा ॥ ७२ ॥ दृष्ट्वा भक्तिं नृपस्यास्य विनयस्थितिशालिनः । 'वैद्याधरं परं रूपं दर्शयामासतुस्तकौ ॥ ७३ ॥ दृष्ट्वा रूपं तयोः कान्तं विस्मयं प्राप भूपतिः । सभाजनैः समं सर्वैः कौतुकव्याप्तमानसैः ॥७४॥
ततो नृपतिना "पृष्टस्तद्रूपाहितचेतसा । किं किन्नरोऽसि किं देवः किं खेटः किं धनाधिपः॥७५॥ 30 नृपवाक्यं समाकर्ण्य जगौ विद्याधरोऽपि तम् । विद्युत्प्रभोऽस्म्यहं राजन् विद्युद्वेगेति मत्प्रिया ॥७६॥ रथनूपुरनाथोऽस्मि सर्वविद्याधराधिपः । भवद्विनयतः प्रीतस्त्वद्गुणाकृष्टमानसः ॥ ७७ ॥ धनसेनं नृपं धर्मे न्ययुक्त स्वप्रभावतः । स्वकान्तां सुप्रतिष्ठस्य निजाचारक्षतेरपि ॥ ७८॥ सितं मुक्तामयं हारं कुण्डले मणिनिर्मिते । विद्युप्रभः प्रदायास्मै सपत्नीकः पुरं ययौ ॥ ७९ ॥
1 फज सत्यमिदमेवेन. 2 फ राजामानं. 3 फ त्रिकलम्, पज त्रिकलमिदम्. 4 फ यथास्थानानुयायिनाम्. 5 फन च भोजनभोज्यं च. 6 पज किं पापं तपस. 7 फत्रिकलम्, पज त्रिकलमिदम्. 8 0mitted in फ. 9 फ विद्याधरपरं, ज वैद्याधरपरं. 10 पज पृष्टः सद्रूपाहितचेतसा. 11 फ क्षतैरपि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org