________________
-१९. ४८ ]
ज्ञान विनयाख्यानकम्
३३
२० ॥
२१ ॥
२३ ॥
२४ ||
ततो विद्युत्प्रभोऽवोचद् विद्युद्वेगां रूपं गताम् । विद्याबलं तपस्तेऽहं दर्शयाम्यस्य सांप्रतम् ॥ १६॥ डोम्बवेषं विधायाशु सुप्रतिष्ठोपरि द्रुतम् । स्थितौ तौ कुथितं चर्म क्षालयन्तौ सुदुःसहम् ॥ तद्गन्धोदकदुर्गन्धिव्याप्ताशेषशरीरकः । सुप्रतिष्ठोऽगमत्तस्मात् स्थानादुपरि संस्थितः ॥ ईषत्प्रहसनं कृत्वा तौ तदानीं बलान्वितौ । ' उपरिष्टाद्गतौ तस्य तत्प्रक्षालनकारिणौ ॥ भूयोऽपि सुप्रतिष्ठोऽयं क्रोधरक्तनिरीक्षणः । तस्थौ तदुपरि क्षिप्रं ददन् गालीकदम्बकम् ॥ स्वप्रियाप्रत्ययं कृत्वा तामुत्तीर्य तकौ तदा । पताकावलिभी रम्यं चक्रतुर्नगरं द्रुतम् ॥ चतुर्गोपुरसंयुक्तं प्राकारपरिखावृतम् । नानासौधापणायुक्तं वाप्युद्यानविभूषितम् ।। २२ ।। ततो नगरमालोक्यादृष्टपूर्वं मनोहरम् | तत्समीपेऽपि तौ डोम्बौ दध्याविति स विस्मितः ॥ मयेदृशं पुरं जातु न दृष्टं चारुदर्शनम् । तस्मात् कृतमिदं नूनमेताभ्यां विस्मयास्पदम् || एकां विद्यां विजानामि जलस्तम्भनकारिणीम् । प्राप्नोम्येतामपि स्पष्टं किमसाध्यं भवेन्मम ॥ २५ ॥ " सुप्रतिष्ठो विचिन्त्यैवं विस्मयव्याप्तमानसः । संप्राप्य तत्समीपं च सप्रणामं जगाविमौ ॥ साधो विद्यामिमां देहि मम त्वं पुरकारिणीम् । साध्यं करोमि येनाहं नगरं बुधरञ्जनम् ॥ सुप्रतिष्ठवचः श्रुत्वा पाणो वदति तं तदा । स्वकार्यकरणासंगविह्वलीभूत मानसम् ॥ २८ ॥ आवां पाणौ भवान् विप्रस्तपस्वी च महागुणः । अस्मन्नमस्कृतेर्विद्यासिद्धिमायाति नान्यथा ॥ २९ ॥ विद्या सिद्धा कथंचित्ते नूनं नतिमकुर्वतः । भूयो विनाशतां चेयं यास्यति क्षणमात्रतः ॥ ३० ॥ तद्वचोविस्तरं श्रुत्वा दध्यौ विस्मितमानसः । सुप्रतिष्ठस्तदा खिन्नः किंकर्तव्यविमूढधीः ॥ इतो व्याघ्रः समायाति इतस्तिष्ठति दोतटी । इतो लोकप्रभुत्वं मे इतो विद्यासमागमः ॥ विद्यासमागमं पूर्वं प्रगृह्णामि ततोऽपरम् । भविष्यति प्रभुत्वं मे लोके विद्यासमागमात् ॥ कृत्वा गर्दभसंरावं क्रियते जनरञ्जनम् । धनानि येन जायन्ते लोकद्वय हितान्यलम् ॥ तथा चोक्तम्
२६ ॥
२७ ॥
15
३१ ॥
३२ ॥
1 फ उपविष्टाद्गतौ 2फ पताकावलभीरम्यं, ज पताकावलिरम्यं. 4. फ गुणाधान. 5 प भन्मते.
वृ० को० ५
Jain Education International
१७ ॥
१८ ॥
१९ ॥
कृत्वा गर्दभरटितमपि त्वं जनमनुरञ्जयमित्र ।
येन धनानि भवन्ति तवोच्चैर्यानि हितान्युभयत्र ॥ ३५ ॥ ततस्तौ त्रिःपरीत्यायं मूर्धन्यस्तकरद्वयः । सुप्रतिष्ठः प्रणम्योच्चैर्देहि विद्यां मम प्रभो ॥ सुप्रतिष्ठं पुरो दृष्ट्वा जानुस्पृष्टमहीतलम् | पाणोऽस्मै पुरविद्यां तां ददौ पूर्वविचारतः ॥ ततो विद्यां प्रदायास्मै विनताखिलमूर्तये । यातवन्तौ तकौ क्वापि तत्परीक्षानिमित्ततः ॥ प्राकारपरिखासौधं वाप्युद्यानादिभूषितम् । चकार नगरं रम्यं विद्ययाऽयं तया पुनः ॥ उपसंहृत्य तां विद्यां तोषपूरितमानसः । सुप्रतिष्ठः सुविद्योऽरं राजान्तिकमुपाययैौ ॥ राजा विलोक्य तं हृष्टो विनयानतमस्तकः । तत्सन्मुखमभीयाय पञ्चषानि पदानि सः ॥ स्वर्णपट्टस्थितं कृत्वा सुप्रतिष्ठं महीपतिः । प्रणामपूर्वकं प्राह तन्मुखाम्भोजवीक्षणः ॥ ४२ ॥ क्व गतोऽसि प्रभो वीर विकृतं ते प्रयोजनम् । अतिक्रमोऽद्य संजातो भोजनस्य वदाशु मे ॥ ४३ ॥ ३० निशम्य भूपतेर्वाक्यं तोषकण्टकिताङ्गकः । जगाद सरसं भूपं सुप्रतिष्ठोऽकनिष्ठकः ॥ ४४ ॥ अनारतं प्रकुर्वद्भिर्ध्यानमध्ययनं तपः । सांप्रतं लब्धमस्माभिर्जन्मनस्तपसः फलम् ॥ ४५ ॥ सुप्रतिष्ठवचः श्रुत्वा निजगौ भूपतिस्तकम् । किं जन्मनः फलं नाथ ब्रूहि त्वं तपसोऽपि मे ॥ ४६ ॥ अवाचि भूपतिस्तेन सुप्रतिष्ठेन तोषिणा । किं जल्पितेन राजेन्द्र ज्ञास्यसि क्रिययाऽपि तत् ॥ ४७ ॥ अन्तःपुरेण सर्वेण नानाजनपदेन च । राजन्नद्य गुणाधार' भोजनं कुरु मन्मठे ॥ ४८ ॥
४१ ॥
35
3 पफ युग्मम् ज युगलमिदम्.
For Private & Personal Use Only
३३ ॥
३४ ॥
20
३६ ॥
३७ ॥
३८ ॥ -
३९ ॥
४० ॥
www.jainelibrary.org