________________
15
१८. अभिनन्दनमुनिकथानकम् ।
• तथाभिनन्दनः साधुः कस्मिन्नपि पुरे वसन् । स्वभावार्जवसंपन्नो विवेकपरिवर्जितः ॥ १ ॥ स्वाध्यायस्यामला वेला श्रवणस्योदये भवेत् । उपदेशं कुतोऽप्राप्य श्रुतं पठति मूढधीः ॥ २ ॥ कालाकालमनालोच्य मिथ्यात्वपापमोहितः । यतो जानाति नैतस्य तत्त्वं वाचामगोचरम् ॥ ३ ॥ पठन्नपि तथा काममभ्यस्तं नावधारयेत् । असमाधानतो योगी गतः कालेन पञ्चताम् ॥ ४ ॥ आर्तध्यानसमायोगान्मिथ्यात्वमरणादपि । मन्दाकिनीजले जातो महामीनः क्षणादसौ ॥ ५ ॥ " ततो गङ्गानदीतीरे स्थितोऽसौ शफरो महान् । मुनिपाठध्वनिं श्रुत्वा तदा जातिस्मरोऽभवत् ॥६॥ ततः स्वं निन्दितुं शक्तः पापिष्ठोऽहं दुराशयः । श्रुतातिचारतो जातो मीनः सुरसरिजले ॥ ७ ॥ ज्ञात्वा स्वभवमीदृक्षं सम्यक्त्वादिकमाप्य च । द्वादशाणुव्रतत्रातं मृतः स च सुरोऽभवत् ॥ ८ ॥ गुणदोषान् समालोक्य पठितव्यं श्रुतं ततः । साधुभिः साधुताचारैः काले स्वहितमिच्छुभिः ॥ ९ ॥ ॥ इति अभिनन्दनमुन्यकालाध्ययनकथानकमिदम् ॥ १८ ॥
*
१९. ज्ञानविनयकथानकम् |
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ १७.१५
पूर्वोक्तयोगिनं दृष्ट्वा पठन्तं कालतः श्रुतम् । पूजयित्वा च तं भक्त्या ययौ देवी स्वमालयम् ॥१५॥ द्रव्यं क्षेत्रं तथा कालं भावं चेति विशोधयेत् । पठन्निदं श्रुतं साधुः परलोकं प्रसाधयेत् ॥ १६ ॥ ॥ इति वीरभद्रमुनिकालाध्ययनकथानकमिदम् ॥ १७ ॥
*
20
३२
१ ॥ २ ॥
॥
विषये वत्सकावत्यां कौशाम्बी विद्यते पुरी । धनसेनो नृपस्तस्यां धनश्रीरस्य कामिनी ॥ प्रिया श्राविका जाता सम्यग्दर्शनभूषिता । पतिर्भागवतस्तस्याः परिव्राजकभक्तिमान् ॥ सुपरिव्राजकस्तत्र सुप्रतिष्ठाख्यया पुनः । राज्ञो भोजनवेलायां प्रभुङ्क्ते सर्वदाऽप्यसौ ॥ यमुनानिम्नगावाहे बृसिकोपरि संस्थितः । भगवान् सुप्रतिष्ठोऽस्थाजलस्तम्भनविद्यया ॥ ४ ॥ पद्मासनोपविष्टोऽसावक्षसूत्रेण सर्वदा । जापं करोति तुष्टात्मा लोकविस्मयकारकः ॥ ५ ॥ विद्युत्प्रभोऽभवद्राजा पत्तने रथनूपुरे । सम्यग्दर्शनसंपन्नो द्वादशाणुव्रतान्वितः ॥ ६॥ उत्तप्तकाञ्चनच्छायशरीरोद्योतिताम्बरा । परित्राजकसंभक्ता विद्युद्वेगाऽस्य वल्लभा ॥ ७ ॥ विद्युत्प्रभोऽनया साकं 'वन्दनायै जिनेश्वरान् । स्वकायोद्योतिताकाशश्चचाल रथनूपुरात् ॥ ८ ॥ द्योतमानो नभस्सर्वं मुक्ताहारकरोत्करैः । क्रमेण यमुनां प्राप जलपूरितरोधसाम् ॥ ९ ॥ 25 यमुनावाहगं दृष्ट्वा सुप्रतिष्ठं बृसीस्थितम् । विद्युद्वेगा जगौ कान्तं भक्तिहृष्टतनूरुहा ॥ १० ॥ पश्य कान्तास्य माहात्म्यं तपसो हि तपस्विनः । भगवस्य मदीयस्य दुःकरस्यान्ययोगिभिः ॥ ११ ॥ माघमासे कृताकम्पे लोकानां हिमशीकरैः । पश्य त्वं यमुनामध्ये कथं योगेऽवतिष्ठते ॥ १२ ॥ पद्मासनस्थितो हस्तादक्षसूत्रं प्रचालयन् । विद्याबलादयं कान्त यमुनान्तेऽवतिष्ठते ॥ १३ ॥ विद्युद्वेगावचः श्रुत्वा जगौ विद्युत्प्रभस्तकाम् । किं तपोऽस्य वराकस्य विद्याबलमपि प्रिये ॥ १४ ॥ भूयोऽपि कान्तयाऽवाचि वल्लभो रोषमाप्तया । विद्याबलं तपस्तेऽत्र नान्येषां प्रतिभासते ।। १५ ।।
30
1 फ स्वाध्यायस्य सदा वेला. 2 फ मिध्यात्वं प्राप मोहितः 3फ गतो गाङ्गानदी. 4 फ भगवः सुप्रतिष्ठो 5 फ वन्दनाय. 6 फ रोधसम् 7 फ योग्यवतिष्ठते. 8 प तिष्ठति, फ वितिष्ठते.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org