________________
-१७. १४ ] वीरभद्रकथानकम
३१ धर्मों विक्रेतुमारब्धः श्मशानं प्राप्य योगिना । उपसर्गविनाशार्थ किंचिद्धनमुदाहृतम् ॥३१॥ अङ्गुष्ठाङ्गुलियोगेन चैकवारेण यत्नतः । उत्पाट्यन्ते यके केशाः पुरुषैर्मुनिमस्तके ॥ ३२ ॥ अहो लोककृतानन्द कृतकोलाहलखन । तेषामपि च केशानां न मूल्यं भवति स्फुटम् ॥ ३३॥ जिनधर्मस्य भव्यानां संसारोच्छेदकारिणः । त्रैलोक्याधिकमूलस्य केन मूल्यं विधीयते ॥ ३४॥ तथापि दत्तमस्माभिर्मुनेः किंचिदिदं धनम् । उपसर्गापनोदाय गृह्णात्वर्थी ततो जनः ॥ ३५॥ देवता मुनिवात्सल्यं विधाय प्रीतमानसा । कृतयोगिनमस्कारा जगामादर्शनं क्षणात् ॥ ३६॥ देवीवचनमाकर्ण्य विष्णुदत्तादयो जनाः । विस्मयं परमं प्राप्य निगदन्ति परस्परम् ॥ ३७॥ सर्वासामेव शुद्धीनां तपःशुद्धिः प्रशस्यते । तपःशुद्धिप्रशुद्धानां किङ्करास्त्रिदशा नृणाम् ॥ ३८॥ अहो व्रतमिदं जैनं देवानामपि पूजितम् । अहो जैनेश्वरो धर्मो लोकद्वयफलप्रदः ॥ ३९॥ धनलाभाद्वरं धर्मलाभो भवति शोभनः । धनलाभस्तु जन्तूनां वधबन्धनकारणम् ॥४०॥ ॥ एवं विचिन्त्य बुद्धात्मा वैराग्याहितमानसः । सोमशान्तिके जैनं विष्णुदत्तोऽग्रहीत्तपः ॥४१॥ दृष्ट्राऽऽश्चर्यमिदं केचिजिनधर्मस्य शोभनम् । जिनधर्म परं प्राप्ताः केचिन्मध्यस्थतां गताः ॥४२॥ ततो विस्मयमासाद्य जिनधर्मप्रशंसनम् । कृत्वा नृपादयो लोका जग्मुर्निजगृहं मुदा ॥ ४३ ॥ विष्णुदत्तस्तपः कुर्वन् परमं सोमशर्मणा । विजहार महीपृष्ठं मोक्षाङ्गं संप्रसाधयन् ॥ ४४॥ देवकोट्टपुरस्याराद्यप्रदेशे प्रपातिता । रत्नवृष्टिस्ततो देव्या कोटितीर्थं बभूव तत् ॥ ४५ ॥
॥ इति सोमशर्ममुनिप्रतिबद्धलोचाख्यानकमिदम् ॥१६॥
१७. वीरभद्रकथानकम् । कस्मिन्नपि पुरे साधुवीरभद्रोऽभवदृजुः । अटवीं प्राप्य सोऽकाले श्रुतं पठति संततम् ॥ १॥ अन्यदा स कदाचिच्च पठन्नागममुत्तमम् । श्रुतदेव्या निशि स्पष्टं दृष्टोऽकाले दिगम्बरः ॥ २॥ तद्वोधनार्थमादाय कलशं तक्रसंभृतम् । मस्तके भ्राम्यति स्पष्टमग्रतः पार्श्वतो मुनेः ॥३॥ 20 परिपक्ककपित्थोत्थगन्धामोदितदिङ्मुखम् । गृहाण शीतलं तकं मुने कान्तिबलप्रदम् ॥४॥ योगी तद्वाक्यमाकर्ण्य जगादेमां पुरःस्थिताम् । वातग्रस्ताऽसि किं मूढे किं पिशाचसमीक्षिता ॥५॥ किं खेटं खर्व नान्यत्पत्तनं पुटभेदनम् । ग्रामादिकं न विद्येत येनायासि मदन्तिकम् ॥ ६॥ शर्वयाँ भीमरूपायां गृहीत्वा मथितं खले । गृहिल्ले काऽसि किं वृद्धे नरकुञ्जरनिन्दिते ॥ ७॥ साधोर्वचनमाकर्ण्य श्रुतदेवी मुनिं जगौ । जिनागमसमासंगनित्यभावितमानसा ॥ ८॥ स्निग्धं मधुरगम्भीरं भव्यलोकसुखप्रदम् । शुद्धं जिनमुखाम्भोजनिर्यातं पापनाशनम् ॥ ९॥ एवंविधं श्रुतं साधो यदकाले पठस्यरम् । गहिल्लकोऽसि किं न त्वं बन्धमोक्षप्रकाशनम् ॥१०॥ देवीवचनतो योगी यावदालोकते नभः । तावत्स्वाध्यायवेलेयमतिक्रान्ता प्रमादतः ॥११॥ यदकाले श्रुतं ध्यानं पठितं च मयाऽखिलम् । तदस्य चातिचारस्य मिथ्या मे दुःकृतं भवेत् ॥१२॥ ततः प्रभातकालेऽगात् वीरभद्रोऽन्तिकं गुरोः । आलोच्य शर्वरीवृत्तं स जातः परिशुद्धवाक् ॥१३॥ 30 अयमेव मुनिः प्राप्य धर्मं जिनवरोदितम् । पापठीति श्रुतं काले स्वाध्यायाहितमानसः ॥ १४ ॥
1प उत्पाद्यन्ते. 2 फज मूल्यस्य. 3 फ षभिः कुलकम् , पज षट्कुलकमिदम्. 4 फ प्रीतिमानसा. 5 पज मध्यस्थितां. 6 फर्थसमादाय. 7 पज कान्तबल. 8 फज गहिल्लिकासि. 9 फज जगौ मुनि. 10 फ त्रिकला, पज त्रिकलमिदमू. 11 प परिशुद्धभाक्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org