________________
-१५. १६ ]
प्रियवीराकथानकम् अथान्तःपुरमागत्य बुद्धिमत्यन्तिकं तदा । महादेवीति संभाष्य टक्कराणां शतं ददौ ॥ २६ ॥ एवं तिसृषु सन्ध्यासु तत्पूजां च पुरन्ध्रयः । यत्नेन महता कृत्वा हृष्टा यान्ति स्वमन्दिरम् ॥२७॥ स्थित्वा बुद्धिमती जैने मन्दिरे निन्दती स्वकम् । मत्समा वनिता देव नोत्पद्यत कदाचन ॥२८॥ अथ तां दुर्बलां दृष्ट्वा भूपतिः प्राह वल्लभाम् । केन ते विप्रियं कान्ते ब्रूहि मे हन्मि तं द्रुतम् ॥२९॥ प्रियस्य वचनं श्रुत्वा जगौ बुद्धिमती तकम् । न कोऽपि विप्रियं नाथ करोति मम सांप्रतम् ॥३०॥ यदोक्ताऽपि प्रिया किंचिन्न वक्ति जनविप्रियम् । तदा च चित्रशालान्ते मूढस्तस्थौ नराधिपः ॥३१॥ जिनपादान्तिके यावत्सा करोति स्वनिन्दनम् । पूर्ववत्तावदागत्य नन्ति तां टोलकैस्तकाः ॥३२॥ अत्रान्तरे स भूपालो निःसृत्य जिनमन्दिरात् । निहत्याथ कशाघातैस्ता निस्सारितवानरम् ॥३३॥ ततोऽभिषिच्य तां भूपः कुम्भैभर्मविनिर्मितैः । तस्यै समर्पयामास स्वनामाङ्कितकङ्कणम् ॥ ३४ ॥ यथा बुद्धिमती राज्ञा पूजिता स्वं सुनिन्दती । तथा साधुरपि क्षिप्रं निन्दन् पूज्यः सुरेश्वरैः ॥३५॥ ॥
॥ इति श्रीबुद्धिमतीखनिन्दनकथानकमिदम् ॥ १४ ॥
१५. प्रियवीराकथानकम् । साकेताख्यपुरे राजा श्रीमान् दुर्योधनोऽभवत् । तस्यापि च महादेवी श्रीधरी नाम विश्रुता ॥१॥ तत्राभवदुपाध्यायः सुमित्रोऽपि षडङ्गधीः । चतुर्वेदपरिज्ञानी जरावेपितविग्रहः ॥२॥ तद्भार्या तरुणी चासीत् प्रियवीरा प्रियंवदा । यौवनेन समारूढा मत्ता भ्रमति तत्पुरे ॥३॥ 15 कामभोगं प्रभुञ्जाना प्रियवीराऽग्निभूतिना । छात्रेण यौवनस्थेन मदोन्मत्ता च तिष्ठति ॥ ४॥ अग्निभूतिरुपाध्यायं वृद्धं जनकसंनिभम् । जघान निष्ठुरस्वान्तः प्रियवीरामतेन सः ॥५॥ छर्जिकान्तर्गतं कृत्वा मस्तके तन्निधाय च । नक्तं जगाम दुष्टात्मा प्रियवीरा श्मशानकम् ॥ ६॥ यावत्तां मुञ्चति क्षिप्रं चितायां प्रियवीरका । तावच्छिरसि सा देव्या निश्चला विहिता तया ॥७॥ उत्कलन्तीं प्रधावन्ती फूत्कारं कुर्वतीमपि । देवताऽपि तकां प्राह गगनस्थितविग्रहा ॥ ८॥ मया जारनिमित्तेन कुमारपतिराहतः । नगरस्य चतुर्दिक्षु भ्रमन्ती वचनं वद ॥९॥ अनेन च विधानेन छर्जिका पतति द्रुतम् । हित्वोपायमिमं भद्रे नास्याः पातोऽस्ति जातुचित् ॥१०॥ देवतावचनं श्रुत्वा भयवेपितविग्रहा । भ्राम्यति त्वरितं साऽपि सर्वतो नगराबहिः॥११॥ अहो जनाः स्फुटं वाक्यं मदीयं शृणुताशु मे । कुमारपतिरानीतः पञ्चतां जारहेतुना ॥ १२ ॥ एवं यावद् वदत्येषा भ्रमन्ती पत्तनाद्वहिः । तावत्सा छर्जिका तस्याः पतिता क्वापि दूरतः ॥१३॥ 25 यथा सा छर्जिका" तस्याः पतिता क्वापि सत्त्वतः । स्वगर्हणं प्रकुर्वन्त्या जाताऽतो दोषवर्जिता॥१४॥ मुनिनैवं तथा गत्वा गुरुपाद्ये प्रयत्नतः । निन्दा गर्दा प्रकर्तव्या संसारोच्छेदमिच्छुना ॥ १५ ॥
तथा चोक्तम्आलोचनैर्निन्दनगर्हणैश्च व्रतोपवासैः स्तुतिसंकथाभिः।
एभिः प्रपञ्चैः क्षपणं करोमि विषप्रतीघातमिवाप्रमत्तः ॥ १६ ॥ ॥ इति प्रियवीरामहागऱ्याख्यानकथानकमिदम् ॥१५॥
1ज टकाराणां. 2 Omitted in फ. 3फ तदा सा चित्र. 4 प पादान्तके. 5ज ढोलके. 6फ repeats this verse. 7 फज छज्जिकान्त. 8 जपूत्कार.9 फ interchanges 12 and 13. 10 फ वज्जिका, ज छज्जका. 11 फज छज्जिका. 12 पज सत्वरः. 13 फ जातासी. 14 पज तथा सखद्गुरु. 15फ°च्छेदमिच्छता.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org