________________
हरिषेणाचार्यकृते वृहत्कथाकोशे
[ १३.१५
जिनगन्धोदकं दिव्यं सर्वोपधि मुनेरपि । पादप्रक्षालनं सोऽपि पाययामास भूपतिम् ॥ १५ ॥ यावत्पिबति तद्भूपो मन्यमानोऽमृताधिकम् । तावद्व्याधिरसौ नष्टस्तद्भयादिव वेगतः ॥ १६ ॥ 'सानुभवं राजा व्याधिनिर्गमकारणम् । जिनभक्तिसमायुक्तः श्रावकत्वं प्रपन्नवान् ॥ १७ ॥ विधाय महतीं पूजां महासन्मानदानगाम् । सिद्धार्थाय नृपस्तुष्टो महाग्रामशतं ददौ ॥ १८ ॥ यथा श्रद्दधतो जैनं मतं पापविनाशनम् । मुनिपादोदकं पीतं व्याधिर्नष्टोऽमुतः क्षणात् ॥ १९ ॥ साधुनाऽपि तथा पूतं जन्ममृत्युजरापहम् । पातव्यं मुक्तिकामेन धर्मपानीयमादरात् ॥ २० ॥ ॥ इति जिनमतश्रद्धान परविन यंधरनृपकथानकमिदम् ॥ १३ ॥
5
२८
*
१४. बुद्धिमतीकथानकम् ।
१ ॥
२ ॥
3
काशीजनपदे सारे वाराणस्यां पुरि प्रभुः । राजा विशाखदत्तोऽभूत् तद्भार्या कनकप्रभा ॥ 1. चित्रचित्रकरस्तत्र विचित्रो नाम विश्रुतः । विचित्रादिपदा' कान्ता तद्भार्याऽपि बभूव सा ॥ तत्सुता बुद्धिसंपन्ना रूपराजितविग्रहा । नीलोत्पलदलश्यामा नाम्ना बुद्धिमती मता ॥ ३ ॥ जिनस्य चित्रशालायां विशालायां गृहान्तरे । चित्रं चित्रकरश्चित्रं विचित्रं कुरुतेतराम् ॥ ४ ॥ अन्यदा भक्तमादाय पितुर्बुद्धिमतीद्धधीः । विचित्रचित्रशालां तामाजगाम विलासिनी ॥ ५ ॥ मणिकुट्टिमभूम्यन्ते मयूरच्छदमुज्वलम् । लिलेख तत्पिता रम्यं निर्मलीभूतभूतलम् ॥ ६ ॥ is तत्काले चित्रशालां च विवेश नृपतिः पराम् । ददर्श चन्द्रकच्छायं शिखिपिच्छं प्रभोज्वलम् ॥७॥ कौतुकेन करेणेदं यावद्गृह्णाति भूपतिः । बुद्धिमत्या च तावद्धि धिमूर्खोऽयं प्रभाषितः ॥ ८ ॥ श्रुत्वा तद्वचनं राजा लज्जाविनतमस्तकः । विलक्षो मूकतां प्राप्य तस्थौ मनसि दुःखितः ॥ ९ ॥ ततोऽन्यदिवसे जाते भूपस्य पुरतो जगौ । पितरं तत्सुता दक्षा चित्रं कुर्वाणमुत्तमम् ॥ १० ॥ यौवनं याति नो यावदोदनस्य मृदोरिदम् । कुरु त्वं भोजनं तावद्विलम्बित्वं न सांप्रतम् ॥११॥ 20 आकर्ण्य तद्वचो राजा प्राहेमां स सकौतुकः । ओदनस्य च किं भद्रे यौवनं ब्रूहि सांप्रतम् ॥ १२ ॥ निशम्य भूपतेर्वाक्यं जगौ बुद्धिमती तकम् । ओदनस्योष्णता तद्धि ततस्त्वमतिमूर्खकः ॥ १३॥ भूयोऽन्यदिवसे' भूते चित्रकर्मपटासनम् । भूभुजोऽग्रे चकारासौ बुद्धिमस्य परीक्षितुम् ॥ १४ ॥ तच्चित्रसंयुतं कुड्यं विहायान्यं विलोकते । तथायं भाषितो भूपो महामूर्खो भवानिति ॥ तद्वाक्यानि समस्तानि परुषाणि निशम्य सः । जगाद क्रोधरक्ताक्षस्तदा बुद्धिमतीं नृपः ॥ 25 रे रे खले दुराचारे मत्तमातङ्गगामिनि । जिह्वामामूलतस्तेऽहं छिनझि क्रूरभाषिणि ॥ १७ ॥ नृपवाक्यं समाकर्ण्य निजगौ सा नरेश्वरम् । कस्मा॑दिह रूपं यासि मम त्वं कारणं विना ॥ १८ ॥ चापल्यमज्ञतावाक्यं संस्तवो लालनं गृहे । एते योगाः प्रलापाङ्गं नाहं तत्क्षम्यतां विभो ॥ १९ ॥ मयूरच्छदमादातुं चित्रस्थं नैव शक्यते । ओदनस्योष्णता सारा तत्रत्यं चित्रमीक्ष्यते ॥ २० ॥ श्रुत्वा बुद्धिमतीवाक्यं राजा विस्मितमानसः । बभूव प्रीतिसंपन्नस्तद्रूपहृतलोचनः ॥ २१ ॥ अङ्गप्रत्यङ्गतो राज्ञा यावत्तद्रूपमीक्षितम् । तावद्विह्वलतां प्राप्य मुमूर्च्छ क्षणमात्रतः ॥ २२ ॥ चेतनत्वं पुनः प्राप्य सिक्तचन्दनवारिणा । राजा तत्पितरं प्राह देहि कन्यामिमां मम ॥ २३ ॥ तत्पिता तद्वचः श्रुत्वा ददावस्मै स्वकन्यकाम् । परिणीता विधानेन भूभुजेयं सुतोषतः ॥ २४ ॥ ततोऽन्तःपुरमाहूय समक्षं बन्धुभूभुजाम् | बुद्धिमत्यै महीपालो महादेवीपदं ददौ ॥ २५ ॥
१५ ॥
१६ ॥
30
1फ सानुभयं 2फ पताकान्ता 3 फज प्रभाषितम् 4 फ विलम्बित्वमसांप्रतम् 5फ मूर्खक. 6 फ भूयोऽप्यन्यदिने भूते. 7 फज कस्मादि न. 8 फ तद्रूपाहृत' 9 फ omits 24.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org