________________
-१३. १४] विनयधरनृपकथानकम्
२७ कर्पूरकुङ्कुमेनापि समालभनमुत्तमम् । चक्रुर्नभश्चरा भक्त्या जिनानां क्षीणकर्मणाम् ॥ १३४ ॥ गन्धान्धीकृतभृङ्गोधैः पञ्चवर्णः समुज्वलैः । अर्चयन्ति जिनान् पुष्पैः खेचराः शुद्धचेतसः॥१३५॥ बाष्पाढ्यौदनसन्मुद्घृतादिचरुभिर्वरैः। पूजां कुर्वन्ति खेटोघा जिनानां पुरतः पराम् ॥ १३६ ॥ श्रीखण्डावासकर्पूरसिह्लादिसलिलादिकम् । उत्क्षिपन्ति स्वतो धूपं जिनानां खचरेश्वराः॥ १३७॥ सिद्धभक्तियुतां सारां भव्यश्रवणहारिणीम् । जिनस्तुतिं प्रकुर्वन्ति विद्याधरकुमारकाः ॥ १३८॥ 5 विपञ्चीवंशकंसालमृदङ्गपटुमर्दलैः । गर्जद्भिर्मधुरं तूर्यैराहतैः शिल्पिपाणिभिः ॥ १३९॥ करणैरङ्गहारैश्च संयुक्ता भक्तितत्पराः । आनन्दनाटकं खेटाः प्रनटन्ति जिनाग्रतः ॥१४० ॥ पञ्चाचारपरान् दान्तपञ्चेन्द्रियतुरङ्गमान् । प्रणमन्ति स्म योगीन्द्रान् खेचरेन्द्राः प्रमोदिनः॥१४॥ पूजाभङ्गं जिनेन्द्राणां यः करिष्यति मानवः । तस्य पीडां करिष्यामो वयं शृणुत सज्जनाः ॥१४२॥ एवमुक्त्वा नृपं लोकान् जिनं नत्वा मुनीनपि । तथा वैरकुमारं च खेचराः स्वपदं ययुः ॥१४३॥।॥ जिनधर्मप्रभावं च दृष्ट्वा मुदितमानसौ । नृपतिस्तन्महादेवी श्रावको तो बभूवतुः ॥१४४॥ केचिन्मुनित्वमापन्नाः केचिच्छ्रावकतां पराम् । केचिन्मध्यस्थतां लोकाः केचिन्मनसि तोषिणः।।१४५॥ धर्मस्य कथको ज्ञानी निमित्तज्ञः प्रवाद्यपि । तपस्वी चेति पञ्चैते सिद्धान्तोद्योतका मताः ॥१४६॥
तथा चोक्तम् - धर्मकथी" प्रावचनी वादी नैमित्तिकी तपस्वी च ।
पञ्चैते यतिवृषभाः प्रवचनस्योद्भासकाः प्रोक्ताः ॥ १४७ ॥ यथा वैरकुमारेण कृता धर्मप्रभावना । तथाऽन्येनापि कर्तव्या साधुना धर्ममिच्छता ॥ १४८ ॥ ॥ इति श्रीवैरकुमारसम्यक्त्वगुणप्रभावनाख्यानकमिदम् ॥ १२ ॥
१३. विनयंधरनृपकथानकम् । अथ कुम्भिपुरे श्रीमान् राजा श्रीविनयंधरः । तस्य भार्या मनःकान्ता विनयादिमतिः परा ॥१॥ 20 उसभोपपदो दासो राज्ञः श्रेष्ठी बभूव सः। उसभोपपदा दासी श्रेष्ठिनो रमणी प्रिया ॥२॥ अन्योन्यप्रेमसंबन्धचेतसोरनयोरभूत् । नन्दनो जनतानन्दो जिनदासः प्रियंवदः॥३॥ पुण्यप्रभावतः किंचित्कार्यमारभते हि यत् । तत्तत्सिद्धिं यतो याति 'सिद्धार्थाह्वोऽप्यतोऽभवत्॥४॥ अथानेकमहाव्याधिविह्वलीभूतमानसः । निद्रां न लभते नक्तं दिवाऽपि विनयंधरः ॥५॥ अस्थिचर्मावशेषोऽभूद् भूपतिर्व्याधिराशिभिः । भिषग्भिरपि संत्यक्तो बहुभिः कृतकर्मभिः ॥ ६॥ 25 अत्रान्तरे नृपोऽवाचि श्रावकेण महात्मना । सिद्धार्थनामयुक्तेन व्याधिविह्वलविग्रहः ॥ ७॥ त्वं करोषि यदि स्पष्टं मदचो धरणीधर । ततो व्याधिमहं क्षिप्रं निहन्मि तव निश्चितम् ॥ ८॥ सिद्धार्थवचनं श्रुत्वा राजेमं पुनरब्रवीत् । अयुक्तमपि ते वाक्यं करोमि हितकारिणः ॥९॥ इदं तु मद्धितं प्रोक्तं त्वया किं न करोम्यहम् । मजीवितं त्वया दत्तं तथा राज्यमपि ध्रुवम् ॥१०॥ भूपालवचनं श्रुत्वा दीनकं कृपयाऽऽधीः । तमादाय करे यातः सिद्धार्थो जिनमन्दिरम् ॥११॥ 30 कृत्वा जिनमुनिस्तोत्रं कारयित्वा नृपेश्वरम् । सिद्धार्थो भूभुजा सार्धं निविष्टोऽत्र यथासनम् ॥१२॥ जलाज्यक्षीरसंघातैर्दधिगन्धोदकैरपि । कुङ्कुमैः कुसुमैयूंपैश्चरुदीपफलैरपि ॥ १३ ॥ तूर्यशंखनिनादेन बधिरीकृतदिग्मुखम् । सिद्धार्थः कारयामास तदा जिनमहामहम् ॥ १४ ॥
1फ जिनं पुष्पैः. 2फ शिष्याब्यौदन.3फ श्रवणवारिणीम्. 4.पफज युग्मम्. 5 पज मध्यस्थितां. 6फ धर्मकथा. 7 ज सिद्धार्थो कोऽप्यतो. 8पज जिनं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org