________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[१२. १०१यावच्छृणोति तद्गीतं स्थित्वा तुरगसंस्थितः । तावद्ददर्श सद्रूपां कन्यकां भूपतिः पराम् ॥ १०१॥ किं किन्नरी किमिन्द्राणी किं यक्षी खेचरी च किम् । इति संचिन्त्य भूपोऽसौ 'मुमूर्छारतिविस्मयात्॥ चेतनां प्राप्य भूयोऽयं निजगौ पार्श्ववर्तिनः । कस्येयं सुन्दरी लोकाः क्षिप्रं मम निवेद्यताम् ॥१०३॥ भूपवाक्यं समाकर्ण्य ते वदन्ति नरेश्वरम् । राजन् रूपसमायुक्ता कन्येयं बुद्धधर्मणः ॥ १०४ ॥ 5 श्रुत्वा तद्वचनं भूपः कन्याध्यानपरायणः । विवेश खगृहं भूयो विह्वलीकृतचेतनः ॥ १०५॥ ततः कन्यानिमित्तेन भूपतिर्विबलात्मकः । शीघ्रं प्रवेशयामास सचिवान् बुद्धधर्मणः ॥ १०६ ॥ उपविश्य यथास्थानं तद्विहारे मनीषिणः । वदन्ति बुद्धधर्माणमिति भूपतिमत्रिणः ॥ १०७॥ सुवर्णरजतग्रामतुरङ्गवरकुञ्जरान् । यदीच्छसि ततः कन्यां प्रयच्छ त्वं महीभुजे ॥ १०८ ॥
श्रुत्वा तद्वचनं कान्तं बुद्धधर्मा जगौ तकान् । वितीर्णा भूभुजेऽस्माभिः कन्या मुनिमनोहरी ॥१०९॥ 10 निशम्य तद्वचस्तेऽपि सुन्दरीलाभतोषिणः । जग्मुर्नरपतेः पार्श्व कन्यावृत्तान्तभाषिणः ॥ ११०॥ शोभने दिननक्षत्रे योगे च रजनीपतौ । तयोविधानतो वृत्तं पाणिग्रहणमङ्गलम् ॥ १११॥ राजा प्रीतो विवाहान्ते पुरन्ध्रिनृपसाक्षिकम् । बबन्धायं महादेवीपदं प्रीणितमार्गणः ॥ ११२ ॥ महारजतसद्राममणिवस्त्रादिसंपदा । राज्ञा सन्मानदानेन बुद्धधर्मा प्रपूजितः ॥ ११३ ॥
अथ फाल्गुनमासस्य शुक्लपक्षेऽष्टमीदिने । उर्विला च रथं जैनं निःसारयितुमुद्यता ॥ ११४ ॥ 15 श्रुत्वा नृपमहादेवी सपत्नीरथनिर्गमम् । 'उविल्लां प्राह हृष्टात्मा पतिपक्षबलान्विता ॥ ११५ ॥ पूर्व बुद्धरथो यातु मध्येऽस्य नगरस्य मे । मणिकाञ्चननिर्माणः पश्चाजिनरथस्तव ॥ ११६ ॥ श्रुत्वा दारिद्रिकावाक्यं वज्रेणेव समाहता । उर्विल्ला सोमदत्तान्तं जगामाक्षिजलप्लवा ॥ ११७॥ उर्विला सोमदत्तस्य विधाय शिरसा नतिम् । जगौ सर्वं यथावृत्तं सपत्नीविहितं मुनेः ॥ ११८ ॥
तस्मात्तत्रस्य मन्त्रस्य सामर्थ्यस्य महामुने । अद्यमेव च प्रस्तावो नान्योऽस्ति भवतामिति ॥११९॥ 20 श्रावकीवचनं श्रुत्वा सोमदत्तगुरुस्तदा । जगौ वैरकुमारं च विद्यानिकरभूषितम् ॥ १२० ॥
तपोबलेन तन्त्रेण मन्त्रेणापि च सर्वथा । कर्तव्यं यतिना यत्नाजिनपूजाप्रवर्तनम् ॥ १२१ ॥ विश्रब्धिकां तकां कृत्वा स विसर्ग्य गुरूदितात् । ततो वैरकुमारोज्गादमरावतिकाङ्क्षणात् ॥१२२॥ दिवाकरादिदेवोऽयं सर्वविद्याधरास्तकम् । दृष्ट्वा प्रणम्य भावेन तस्थुर्मुदितचेतसः ॥ १२३ ॥
खेटान् सर्वानुवाचायं पृष्टोऽमीभिः ससंभ्रमम् । तदा वैरकुमारोऽपि कुशलप्रश्नपूर्वकम् ॥ १२४ ॥ 25 पूर्वोत्तरपदायुक्तमथुरानगरीभवः । जिनेश्वरमहापूजाभङ्गः सुष्ठु प्रवर्तते ॥ १२५ ॥ तन्मतेन ततः सर्वे कोपारुणनिरीक्षणाः । विद्याधरजनाः शीघ्रं सोमदत्तान्तिकं ययुः ॥ १२६ ॥ प्रणम्य सोमदत्तादींस्तपोराशीन् महामुनीन् । पूर्वोक्तमथुरान्ते च प्रययुः खेचरेश्वराः ॥ १२७॥ व्यापयित्वा पुरं सर्वं गगनं च समन्ततः । भीषणाकारसंयुक्तास्तस्थिवांसो नभश्चराः ।। १२८ ॥ महादेवीरथान् सर्वान् बुद्धार्चासंस्थितानपि । खेटा विध्वंसयामासुभषियित्वा नृपादिकम् ॥१२९॥ 30 भ्रामयित्वा रथाजैनान् महानन्देन पत्तने । 'उर्विलाकारितान् स्वर्णान् महामाणिक्यनिर्मितान् १३० तूर्याणि समतालानि नादितावनिखान्यलम् । कारयित्वा समस्तानि शंखध्वनियुतानि च ॥१३१॥ महारजतनिर्माणान् खचितान् मणिनायकैः । पञ्चस्तूपान् विधायाने समुच्चजिनवेश्मनाम् ॥१३२॥ स्वच्छनी रैघृतैः स्निग्धैः क्षीरैर्दधिभिरुज्वलैः । गन्धोदकैरपि श्लक्ष्णैः स्नापयांचक्रिरे जिनम् ॥१३३॥"
1 फ मुमुचुरिति, ज मुमूछरिति. 2 फ कन्याधान्यं परायणं. 3 फ उविला. 4 फ उविल्लां. 5फ उविला. 6 फ उविल्ला. 7 फ युग्मम् , ज युगलमिदम्. 8 फ उविला. 9 फ जिनवेश्मनम्. 10 फ जिनान्. 11 फ चतुष्कुलम्, पज चतुष्कुलकमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org