________________
-१२. १०० ]
वैरकुमार कथानकम्
२५
यस्त्वत्पादान्तिकान्नीतो नन्दनो लोकनन्दनः । सोऽयमस्माभिरानीतः सविद्यो भवदन्तिकम् ॥७०॥ श्रुत्वाऽस्य वचनं योगी तोषपूर्णो जगा विमम् । सविद्योऽयं समानीतो भवद्भिः शोभनं कृतम् ॥७१॥ अत्रान्तरे स्तुतिं भक्त्या विधाय करकुडलम् । तोषी वैरकुमारोऽपि सोमदत्तगुरुं जगौ ॥ ७२ ॥ भगवन् देहि मे दीक्षां संसारार्णवतारिणीम् ' । आहत्री' नाकसौख्यस्य मोक्ष सौख्यस्य च क्रमात् ॥७३॥ श्रुत्वा वैरकुमारस्य भव्यसिंहस्य भारतीम् । ददौ दैगम्बरीं दीक्षां सोमदत्तगुरुस्तदा ॥ ७४ ॥ दिवाकरादिदेवाद्या विद्याधरकुमारकाः । विधाय महतीं पूजां ययुस्ते निजमन्दिरम् ॥ ७५ ॥ इदं प्रकटमन्यच कारणं तावदुच्यते । पूर्वोक्तमथुरा चासीन्नगरी परमोदया ॥ ७६ ॥ अस्यां पूतिमुखो राजा बभूव विनयान्वितः । नीतिशास्त्रकृताभ्यासो निर्जिताखिलशात्रवः ॥ ७७ ॥ धर्मप्रभावनासक्ता सत्सम्यक्त्वविभूषिता । उर्विल्लाऽस्य महादेवी विद्यते गुणसागरा ॥ ७८ ॥ अस्यामेव पुरि श्रेष्ठी दत्तान्तः सागरादिकः । आसीत् समुद्रदत्ताऽस्य गेहिनी गेहमण्डनम् ॥ ७९ ॥ " दारिद्रका सुता जाता दारिद्रोपहतानयोः । कालेन तद्धने नष्टे मृतः शोकेन वाणिजः ॥ ८० ॥ ततः समुद्रदत्ताऽपि दुःखसंतप्तमानसा । भृतिं करोति सा दीना परप्रेषणकारिणी ॥ ८१ ॥ दारिद्रका क्षुधाकान्ता भ्रमन्ती नगरान्तरे । देहलीदत्तसिक्थानि भक्षयन्ती च तिष्ठति ॥ ८२ ॥ अन्यदा नन्दनो योगी तथाऽन्योऽप्यभिनन्दनः । प्रविष्टौ नगरं साधू चर्यामार्गेण सक्रमम् ॥ ८३ ॥ तदा दरिद्रिकां दृष्ट्वा बुभुक्षाग्रस्त चेतसाम् । मुनिर्दयागृहीतात्मा कनिष्ठो वदतीतरम् ॥ ८४ ॥ 15 अहो कथमियं बाला शरावोत्सिष्टकान्यलम् । अश्नाति मस्तके भिन्ना शरावशकलैरपि ॥ ८५ ॥ पुटिकापत्रसंघातैश्चाहता विकृपैस्तराम् । भुङ्क्ते तलग्नमुत्सिष्टं रुधिरारुणविग्रहा ॥ ८६ ॥ कनिष्ठमुनिसद्वाक्यं श्रुत्वा ज्यायानुवाच तम् । दिव्यज्ञानसमायुक्तो नन्दनो भव्यनन्दनः ॥ ८७ ॥ येयं कन्या त्वया दृष्टा शरावोच्छिष्टकाशनी । इहत्यनगरेशस्य वल्लभाऽऽशु भविष्यति ॥ ८८ ॥ अत्रैव नगरे भिक्षुर्बुर्द्धधर्मा सुचीवरी । प्रविष्टः पिण्डवृत्त्यर्थं शुश्राव वचनं मुनेः ॥ ८९ ॥ श्रमणोऽमोघसद्वाक्यः श्रूयते जनवाक्यतः । इमां रूढिं प्रसाध्यायंस्तामादाय गृहं ययौ ॥ ९० ॥ विधाय मृष्टमाहारं स्नापयित्वा विधानतः । प्रीतां पप्रच्छ तां सोऽपि कोऽस्ति ते निगदाशु मे ॥९१॥ श्रुत्वा तद्वचनं बाला जगादेमं कलस्वना । ममैका विद्यते माता नापरः कोऽपि पावन' ॥ ९२॥ तद्वाक्यात् तां समादाय भिक्षुरादरसंयुतः । प्राप्य तन्मातरं वेगाज्जगाद प्रियसंगताम् ॥ ९३ ॥ भगिनी त्वं तथेयं च भागिनेयी मम स्फुटम् । यदहं ते करिष्यामि ज्ञास्यसि क्रिययाऽपि तत् ॥ ९४ ॥ 25 श्रुत्वा समुद्रदत्ताऽपि तद्वचो हृदयंगमम् । तथैवेत्यनुमेने सा बुभुक्षाक्षामविग्रहा ॥ ९५ ॥ तद्वान्धवान् समापृच्छ्य भगिनी भागिनेयिका । प्रतिपन्ना निगद्यारं स्वविहारं जगाम सः ॥ ९६ ॥ सुगन्धपक्कतैलेन दुर्गन्धमपनीय च । कोष्ठशुद्धिं विधायास्या वमनादिविधानतः ॥ ९७ ॥ तिक्ताम्लमधुरस्निग्धभक्तसूपघृतादिभिः । शरीरं वृद्धिमानिन्ये तस्या भिक्षुरतन्द्रितः ॥ ९८ ॥ क्रमेण सा वयः प्राप्य बाला द्वादशवर्षजम् । करोति दोलकारूढा मधौ गीतं मनोहरम् ॥ ९९ ॥ 30 अथ राजा स्वसैन्येन चतुरङ्गेण भूयसा । स निर्गच्छन् पुराद्गीतं श्रुत्वा च श्रुतिपेशलम् ॥ १०० ॥
1फदायिनीम् 2 प आहर्ती, ज आर्हती, फ आर्हत्रीं 3 ज तथाप्यन्योऽभिनन्दनः 4फ प्रविष्टं. 5 पज इहति 6फ बुद्धिधर्मा. 7फ पावनः. 8 फ वमनादिप्रभावतः. 9 पफ युग्मम् ज युगलम्. 10 पज add one more line after 100: यावच्छ्रणोति तद्गीतं श्रुत्वा च श्रुतिपेशलम् ; and it is a contamination of the two lines on either side.
बृ० को ० ४
Jain Education International
For Private & Personal Use Only
20
www.jainelibrary.org