________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
३८ ॥
३९ ॥
कनकादिपुरे रम्ये निजमैथुनिकस्य' च । विमलोपपदस्यान्ते वाहनस्य महात्मनः ॥ दिवाकरादिदेवेन विद्यागुणगणाप्तये । नीतो वैरकुमारोऽयं बालादित्यसमप्रभः ॥ कुलजातितपोविद्याशास्त्रवारिधिपारगः । नूनं वैरकुमारोऽपि निर्बभौ तगृहे तराम् ॥ ४० ॥ अन्यदाऽस्य नरेन्द्रस्य रूपराजितविग्रहा । इन्द्रपूर्वा मतिः पुत्री बभूव कलनिःखना ॥ ४१ ॥ • तदा वैरकुमारोऽपि रममाणो वयंसकैः । इन्द्रमत्या च तत्पुत्र्या सहासमवतिष्ठते ॥ ४२ ॥ दृष्ट्वा वैरकुमारं च दीव्यन्तं सुतयाऽनया । तत्पिता कान्तया साकं क्रीडां प्रतिनिषिद्धवान् ॥४३॥ आसीद् गरुडवेगस्य श्रीसमाङ्गमतेरपि । सुता पवनवेगेति रूपातिशयशालिनी ॥ ४४ ॥ इयं विद्याधरी धीरा विद्यां प्रज्ञप्तिमूर्जिताम् । आराधयितुमुत्तुङ्गहीमन्तं पर्वतं ययौ ॥ ४५ ॥ यावत्प्रसाधयत्येषा विद्यां तद्ध्यानतत्परा । श्रमेण महता युक्ता श्रमः स्थाने फलत्ययम् ॥ ४६ ॥ सहायैः कुलसंभूतैर्विद्याधरकुमारकैः । तावद्वैरकुमारोऽपि संप्रापत् तं नगं तदा ॥ ४७ ॥ सिद्धिमागन्तुकामापि विद्या विव्याध ' कण्टकैः । यदाऽपाकुरुते कोऽपि तांस्तदेयं च सिध्यति ॥ ४८ ॥ दृष्ट्वा विद्याधरीमेष बदरीकण्टकैश्च ताम् । लोचने तानपि क्षिप्रं तीक्ष्णतुण्डान्निरस्तवान् ॥ ४९ ॥ कन्या निःशल्यतां प्राप्य कुमारं निजगौ पुनः । भवत्प्रसादतः सिद्धा विद्या मम नरोत्तम ॥ ५० ॥ चेतसो यदभीष्टं ते तत्प्रार्थय महामते । प्रयच्छामि परं प्रीता' तुभ्यं पूर्णमनोरथा ॥ ५१ ॥ 15 खेचरीवचनं श्रुत्वा कुमारो वैरपूर्वकः । ययाचे तां महाविद्यां सावधिं दिनसप्तकम् ॥ ५२ ॥ तदा वैरकुमाराय सुकुमाराय धीमते । विद्या दत्ता तया स्नेहाद्यथेष्टमतकारिणी ॥ ५३ ॥ ततो विद्यां समादाय गत्वाऽसावमरावतीम् । कनिष्ठजनकेनामा युङ्खाऽमुं च निरस्तवान् ॥ ५४ ॥ तदानीममरावत्यां यथेष्टं सुरसंसदि । जनकं स्थापयामास कुमारो नतिपूर्वकम् ॥ ५५ ॥ एवं तिष्ठति यावच्च कुमारः प्रीतमानसः । तावत्पूर्वोक्तखेचर्याहृतोऽन्यैरपि सुन्दरः ॥ ५६ ॥ 20 ज्ञात्वा गरुडवेगस्तद् वृत्तं पत्त्या निवेदितम् । ददावस्मै सुतां शीघ्रं विधिनोत्सवपूर्वकम् ॥ ५७ ॥ तत्र वैरकुमारोऽयं भुञ्जानः सुखसंपदम् । देवेन्द्रभोगसंकल्पां सतोषं व्यवतिष्ठते ॥ ५८ ॥ प्रणम्य श्वशुरं श्वश्रूमवाप्याज्ञामथैतयोः । आटामरावतीं सोऽथ साकं पवनवेगया ॥ ५९ ॥ अन्यदा भ्रातृकार्येण ज्ञात्वा मातृरुषं सकः । पप्रच्छ पितरं तात त्वत्पुत्रोऽहं भवे न वा " ॥ ६०॥ श्रुत्वा वैरकुमारस्य वचनं जनकेन तत् । समाख्यातं यथावृत्तं तस्य कौतुकचेतसः ॥ ६१ ॥ 25 श्रुत्वा पितृवचः सत्यं जगादेमं स धीरधीः । तात यामि गुरोः पार्श्व संसारोच्छेदकारिणः ॥ ६२॥ कुमारवचनं श्रुत्वा भूयोऽवाचि स बन्धुभिः । पितृमातृसमायुक्तैस्तात तावन्न गम्यते ॥ ६३ ॥ पितृवाक्यं निशम्यायं जनकं प्राह सोत्सुकम् । तात गन्तव्यमस्माभिर्निश्चितं किं बहूदितैः ॥ ६४॥ ततस्ते निश्चयं श्रुत्वा कुमारस्य महात्मनः । विद्याधरगणाः सर्वे तमादाय पुरादगुः ॥ ६५ ॥ उत्तरोपपद श्री कैमथुरासन्नवर्तिनी । क्षान्दिकाख्या गुहा दिव्या राजते कनकादिभिः ॥ ६६ ॥ ३• अस्यां साधुसमेतस्य सोमदत्तगुरोरिमे । यदाभ्याशं परिप्रापुस्तत्समं खेटराशयः ॥ ६७ ॥ त्रिः परीत्य च भावेन सोमदत्तादियोगिनः । दिवाकरादिदेवाद्याः प्रणेमुः खेचरा भृशम् ॥ ६८ ॥ उपविश्य यथास्थानं * सोमदत्तमुनीश्वरम् । दिवाकरादिदेवोऽयं जगौ प्रणतमस्तकः ॥ ६९ ॥
14
10
२४
1 फ मैथुनकस्य 2 पफ युग्मम्, ज युगलमिदम्. 3 फ कलनः खना. 4 फ श्रमस्थाने. 5 ज विवाध. 6 प कण्टकैश्रितां, ज कण्टकैश्वेतां. 7फ प्रीति ज प्रीत्या 8 फ सप्तकां. 9 पज 'वेगस्य सद्वृत्तं. 10 फ संतोषं व्यवतिष्ठति. 11 फ भवेर्नवा 12 ज श्रीका 13 [ खेचरादयः ] 14 फ यथास्थाने.
Jain Education International
[ १२.३८
For Private & Personal Use Only
www.jainelibrary.org