________________
-१२. ३७ ] वैरकुमारकथानकम्
२३ सुभूतिब्राह्मणो नाम तत्पुरेऽपि पुरोहितः । तद्भार्या काश्यपी तस्याः सोमभूतिः सुतोऽभवत् ॥५॥ सोमभूतेः स्वसा चार्वी कलाविज्ञानकौशला । रूपयौवनसंपन्ना यज्ञसेनेति कीर्तिता ॥ ६॥ अन्यदा सोमदत्तोऽपि हस्तिनागपुरादरम् । शस्त्रशास्त्रकृतप्रीतिरहिच्छत्रपुरं ययौ ॥७॥ विश्रान्तस्तदिनं सोऽपि कृतप्राघूर्णकक्रियः । सुखासनोपविष्टः सन्मातुलं निजगाविति ॥ ८॥ क्षिप्रं दर्शय मां राज्ञो मातुल स्नेहवत्सल । भवत्प्रसादतो येन वर्तनं मे प्रजायते ॥९॥ उक्तोऽपि मातुलोऽनेन भूयो भूयः प्रजल्पितैः । महामात्सर्यसंयुक्तो न तं नयति भूभुजम् ॥१०॥ ज्ञात्वा मातुलसद्भावं पैशुन्येन समन्वितम् । पिशाचरूपमादाय स विवेश नृपालयम् ॥ ११॥ ततो राजाऽपि तं दृष्ट्वा सोपचारं जगाविमम् । कोऽसि त्वं केन कार्येण समायातो मदन्तिकम् ॥१२॥ नृपवाक्यं समाकर्ण्य जगादायं नराधिपम् । हस्तिनागपुराद्भूप सोमदत्तोऽहमागतः ॥ १३ ॥ यदि कस्यास्ति विज्ञानं शस्त्रे शास्त्रकलासु च । ततो मया समं राजन्नागच्छतु करोतु तत् ॥१४॥10 इति तद्वचनं श्रुत्वा केचिन्नृपसभान्तरात् । उत्थिता सहसा कर्तुं तत्समं स्वगुणान्तरम् ॥ १५ ॥ ततस्ते युगपत्सर्वं सोमदत्तेन धीमता । धनुर्वेदेन शास्त्रेण कलाभिरपि निर्जिताः ॥ १६ ॥ धनुर्वेदादिविज्ञानैर्जितं दृष्ट्वा नृपव्रजम् । सतोषो भूपतिस्तस्मै ददौ मत्रिपदं महत् ॥ १७ ॥ ततोऽन्यदा विलोक्येमं महाभूतिं पुरोहितः । सुभूतिर्मातुलः प्रीतो ददावस्मै सुयज्ञिकाम् ॥१८॥ भुञ्जानाया रतिं तेन सोमदत्तेन भोगिना । बभूव सहसा गर्भो यज्ञिकायाः सुतेजसः ॥ १९ ॥ पुरःस्थितां मनःकान्तां कान्तां तामवदत् प्रियः । किमर्थं वल्लभे ब्रूहि शोकयुक्तेव दृश्यसे ॥२०॥ श्रुत्वा कान्तवचः स्निग्धं यज्ञदत्ता जगौ धवम् । आम्राणि खादितुं नाथ दौहृदं मे मनःप्रियम् ॥२१॥ भार्यावचनमाकर्ण्य सोमदत्तोऽगमगृहात् । आम्राणि तानि चानेतुं घनकालेऽपि दुःखितः॥२२॥ नदीतीरं समासाद्य घनाम्रतरुराजितम् । फलिताम्रतरोर्मूले ददर्शायं यतीश्वरम् ॥ २३॥ मुनिप्रभावादाम्राणि संजातान्यत्र शाखिनि । इति मत्वाऽन्यहस्ते च कान्तायै प्रजिघाय सः॥२४॥ 20 त्रिः परीत्य तमीशानं सुमित्राचार्यमादरात् । श्रुत्वा धर्मममुष्यान्ते सोमदत्तोऽगृहीत्तपः ॥ २५॥ ततो हि विहरन् वापि संघेन गुरुणा सह । सोमदत्तः पुरं प्राप सोपारं मागधोद्भवम् ॥ २६ ॥ श्रुत्वाऽऽगमं गुरोः पार्थे सोपारे नगरे स्थितः । निःसृत्य सोमदत्तोऽस्मात्संप्रापन्नाभिपर्वतम् ॥२७॥ ततो नाभिगिरौ तत्र कायोत्सर्गेण धीरधीः । सोमदत्तमुनिीष्मे तस्थौ वरशिलातले ॥ २८॥ यज्ञिका सुतमादाय बन्धुवर्गसमन्विता । ददर्श सा तदा क्रुष्टा कायोत्सर्गस्थितं मुनिम् ॥ २९ ॥ तत्पादोपरि तं पुत्रं मुक्त्वा निष्ठुरमानसा । ययौ निजगृहं क्रुद्धा यज्ञिका रोदनाकुला ॥ ३०॥ उपसर्गों महानेष यदि क्षेमेण यास्यति । तदाहारशरीरादेः प्रवृत्ति, भविष्यति ॥ ३१॥ अत्रान्तरे महाखेटो देवान्तो हि दिवाकरः । मुनि वन्दितुमायातो महादेवीसमन्वितः ॥३२॥ दृष्ट्वा खेटोऽपि तं बालं मुनिपादोपरि स्थितम् । उपसर्गार्थमानीय मुक्तं केनापि हेतुना ॥ ३३ ॥ एवं संचिन्त्य तं बालं गृहीत्वा निजपाणिना । खेटः समर्पयामास पुत्रहीनः स्खयोषितः ॥ ३४ ॥ ७ मुनिपूजां विधायाशु पुष्पगन्धानुलेपनैः । कृत्वा नामास्य बालस्य कुमारं वैरपूर्वकम् ॥ ३५ ॥ कृत्वा मुनिनमस्कारं भक्तिरोमाकुराञ्चितः । भार्यावैरकुमाराभ्यां खेटो निजपुरं ययौ ॥ ३६॥ ततो वृद्धिमनुप्राप पञ्चवर्षसमुद्भवाम् । वैरादिककुमारोऽतः सर्वखेटमनोहरः ॥ ३७॥
1 पज मनःप्रियः. 2 प रुष्टा, ज तुष्टा. 3 फ omits 33. 4 प युग्मम् , ज युगलमिदम्. 5 ज विधायात्र. 6 पफ युग्मम्, ज युगलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org