________________
15
5
25
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ११. १२६
युष्माकं जानतां धर्मं समक्षमधुना सताम् । साधूपेक्षा न सा युक्ता विधातुं नीतिशालिनाम् ॥ १२६॥ तेन राज्यस्य' देशस्य न यावद्भवतामपि । विनाशो जायते तावन्निषेद्धव्या हि माहनाः ॥ १२७ ॥ श्रुत्वा विष्णुकुमारस्य वचनं नरकुञ्जरः । उवाचेमं पुनः स्पष्टं तन्मतस्थितमानसः ॥ १२८ ॥ यथैतेषां मया पूर्वं वरो दत्तोऽतितोषिणाम् । अतः किमपि कुर्वन्तो धर्तुं शक्या न माहनाः ॥ १२९ ॥ तथोक्तम् -
२२
१३२ ॥
॥
१३९ ॥
१४० ॥
तेन त्वं याशो मेडलं तादृशः सोऽपि माहनः । ब्रवीमि नोभयत्रापि समभावा हि साधवः ॥ १३१ ॥ ततो निसृत्य वेगेन कृत्वा रूपं स वामनम् । सभास्थितं बलिं प्राप वेदध्वनिमथोच्चरन् ॥ 1. पठित्वा मत्रमस्याग्रे स पादत्रय भूमिकाम् । प्रययाचे बलिं वृद्धमातृपितृनिमित्ततः ॥ बलिः स्वरूपमालोक्य वामनस्य त्रिपादगाम् । भूमिं ददौ प्रहृष्टात्मा करे तोयं विधाय वै ततो विकुर्वणां कृत्वा निजकायस्य वामनः । चिक्षेपैकं पदं मेरौ द्वितीयं मानुषोत्तरे ॥ क्षेत्रमप्राप्नुवन्नन्यस्तृतीयचरणोऽस्य सः । अन्तराले भ्रमन्नास्ते वदन्निव पदं कुतः ॥ ततो किन्नरखेटाद्याः समेत्य भयविह्वलाः । पूजयन्ति च तत्पादं विचित्रकनकाम्बुजैः ॥ साधूपसर्गमाहत्य बलियागं विकीर्य च । पश्चात्करं बबन्धुस्ता वलिं शासनदेवताः ॥ निधाय मस्तके भस्म पञ्चबिल्वप्रबन्धनम् । खरारोहं बलिं कृत्वा भ्राम्यन्ति नगरं सुराः ॥ भूयोऽपि किन्नराः खेटाः पादलग्ना वदन्ति ते । विधाय नो दयां पूत त्वं पादमुपसंहर ॥ घोषा सुघोषनामा च महाघोषा मनोहरी । वितीर्णं किन्नरैस्तुष्टैरस्य वीणात्रिकं परम् ॥ मुक्तैकाऽपि मतं विष्णोर्वलकी किन्नरामरैः । इहत्यविजयार्धस्य सिद्धकूट जिनालये ॥ 20 वीणाऽन्या' दक्षिणश्रेण्यामुत्तरस्यां कला परा । विजयार्धस्य संदत्ता विद्याधरगणाय तैः सर्वे विद्याधरा देवा" विस्मयाहितबुद्धयः । देव्योऽपि तत्पदं नत्वा ययुर्धाम यथायथम् ॥ पद्मोऽप्यन्ये नृपाः सर्वे बलिप्रभृतिमत्रिणः । अकम्पनादिसाधूनां प्रणेमुः पादपङ्कजम् ॥ दृष्ट्वाऽतिशयमीदृक्षं प्रापुः केचिन्महाव्रतम् । केचिच्छ्रावकतां शुद्धां केचिचोपशमं परम् येऽपि मिथ्यादृशो लोकाः क्रोधादिकलुषीकृताः । जिनधर्मं प्रशंसन्तस्तस्थुर्मुदितचेतसः ॥ उपसर्गं सहित्वा ते यतयो कम्पनादयः । शुभानुष्ठानसंयुक्ता धर्मयोग्यं पदं ययुः ॥ विधाय मुनिवात्सल्यं कुमारो विष्णुपूर्वकः । आलोचनां गुरोः पार्श्वे कृत्वा योग्यं पदं ययौ ॥ १४९ ॥ ॥ इति सम्यक्त्ववात्सल्यविष्णुकुमारकथानकमिदम् ॥ ११ ॥
१४१ ॥ १४२ ॥
॥ १४३॥
॥
१४७ ॥
१४८ ॥
*
१२. वैरकुमारकथानकम् ।
अथ नागपुरे रम्ये नागो नाम नराधिपः । बालश्रीरस्य भार्याऽऽसीद् बालादित्यतनुप्रभा ॥ १ ॥ 30 तस्य पुरोहितो विप्रो रुद्रदत्तोऽभवत्प्रियः । तद्भार्याऽपि च सोमिल्ला सुभूतिभगिनी सका ॥ २ ॥ बभूव सोमदत्तोऽस्या नन्दनो लोकनन्दनः । स्वदेहकान्तिसंतानजितचन्द्रकरोत्करः ॥ ३ ॥ अहिच्छत्रपुरे" राजा दुर्मुखोऽभवदिद्धधीः । दुर्मुखी तस्य भार्या च कलागुणविशारदा ॥ ४ ॥
सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति साधवः ।
सकृत्कन्याः प्रदीयन्ते त्रीण्येतानि सकृत्सकृत् ॥ १३० ॥
1 फज राजस्य 2 पज शक्यो. 3 पज भूमिकम्. 4 पज त्रिपादगम् 6 ज मुक्तकोपि 7 फ वेणान्या 8 फ परे. 9 फ विद्याधरदेवा. 10 फ आलोचनं
Jain Education International
For Private & Personal Use Only
१३३ ॥
१३४ ॥
१३५ ॥
१३६ ॥
१३७ ॥
१३८ ॥
१४४ ॥
१४५ ॥
१४६ ॥
5फ करोत्येवं विधाय वै. 11 प पुरो.
www.jainelibrary.org