________________
-११. १२५ ]
विष्णुकुमार कथानकम्
२१
१०६ ॥
खखामिवचनं श्रुत्वा बलिरूचे प्रभुं पुनः । आस्तां तावद्वरो नाथ निक्षेपो मे त्वयि स्थितः ॥ ९४ ॥ अथ योगी तपोराशिः पूजार्हः पूजितः सताम् । शतैः सप्तभिरायुक्तो मुनीनां शुद्धचेतसाम् ॥९५॥ अकम्पनमुनिर्ज्ञानी श्रीमदुज्जयिनीपुरात् । हस्तिनागपुरोद्यानं नानावृक्षं समाययौ ॥ ९६ ॥ अकम्पनमुनिं धीरं समुनिं मुनिनायकम् । हस्तिनागपुरोद्यानमागतं धर्मदेशकम् ॥ ९७ ॥ श्रुत्वा निजगृहं तिष्ठन् भुञ्जानो जनवाक्यतः । गत्वा वनमसौ दृष्ट्वा दध्यौ बलिरिदं सभीः ॥ ९८ ॥ श्रीमदुज्जयिनीतोऽहं प्रह्लादादिभिरन्वितः । निर्धाटितोऽधुना किं वा घाटयिष्यन्ति मां न किम् ॥ ९९ ॥ कारापयन्ति नो यावद्योगिनो मम धाटकम् । तावत्करोम्यहं किंचिदेतेषां नाशनं लघु ॥ १०० ॥ एवं विचिन्त्य संप्राप्य भूपतिं साधुवत्सलम् । बलिर्मधुरगम्भीरं ययाचे प्राक्तनं वरम् ॥ १०१ ॥ तद्वाक्यतोऽमुनाऽवाचि पझेनायं विवेकिना । ग्रामहस्तितुरङ्गादीन् गृहाण त्वं बले द्रुतम् ॥१०२॥ नरेन्द्रवाक्यमाकर्ण्य भाषितो बलिना नृपः । दिनानि सप्त मे राज्यं देहि राजेन्द्र निश्चितम् ॥ १०३ ॥ 10 महीपालोऽपि तद्राज्यं प्रदाय दिनसप्तकम् । प्रविश्यान्तःपुरं तस्थौ तद्गुणाकृष्टमानसः ॥ १०४ ॥ अकम्पनादियोगीन्द्रान् विलोक्य प्रवनस्थितान् । बलिप्रभृतयस्तेषामुपसर्गं प्रचक्रिरे ॥ १०५ ॥ चतुर्ष्वपि च पार्श्वेषु यज्ञशालाः प्रवर्तिताः । मुनीनां बलिनाऽऽदिष्टैर्भटैर्यमभटैरिव ॥ तद्भटाहतजीवौघनादनादितपुष्कराः । मखानिलशिखाक्षिप्ततिलाज्यकृतधूमकाः ॥ १०७ ॥ महिषाजादिकान् जीवान्निघ्नन्ति बलिचोदिताः । भटा मुनिसकाशे च ध्वनिपूरितदिङ्मुखाः ॥ १०८ ॥ ७ कायोत्सर्गं विधायात्र भोजनादेर्मुनीश्वराः । प्रत्याख्यानं च सालम्बं तस्थुः स्थिरशरीरकाः ॥ १०९ ॥ अथ विष्णुकुमारस्य मिथिलानगरीस्थितः । गुरुर्ददर्श नक्षत्रं श्रवणं चलिचञ्चलम् ॥ ११० ॥ दृष्ट्वा श्रवणनक्षत्रं चलं विष्णुगुरुर्जगौ । अहो मुनिनिकायस्य चोपसर्गः प्रवर्तते ॥ १११ ॥ क्षुल्लकः पुष्पदन्ताख्यः श्रुत्वा विष्णुगुरोर्वचः । दिव्यज्ञानयुतं सूरिमुवाचेति विचक्षणः ॥ ११२ ॥ कस्मिन् स्थाने मुने केषां कुतो वा स विनश्यति । एतत्सर्वं समाचक्ष्व दिव्यज्ञानविलोचन ॥ ११३॥ 20 पुष्पदन्तवचः श्रुत्वा जगौ विष्णुगुरुस्तकम् । अकम्पनादियोगीशं हस्तिनागपुरे वरे ॥ ११४ कारापितोऽमुना नूनं बलिना पद्ममत्रिणा । उपसर्गों महानद्य नितरां जनदुःसहः ॥ ११५ ॥ शीघ्रं विष्णुकुमारेण तपःपूतेन योगिना । ऋद्धियुक्तेन धीरेण तत्क्षणात्स निरस्यते ॥ ११६ ॥ श्रुत्वा मुनीन्द्रसद्वाक्यं संशयोच्छेदकारणम् । पुष्पदन्तोऽगमत् क्षिप्रं धरणीभूषणं गिरिम् ॥११७॥ तद्गुहावासिनं नत्वा कुमारं विष्णुपूर्वकम् । जगाद पुष्पदन्ताख्यः क्षुल्लको धर्मशुद्धधीः ॥ ११८ ॥ 25 अकम्पनादिसाधूनामुपसर्गों महानयम् । हस्तिनागपुरे नाथ काले संप्रति वर्तते ११९ ॥ विकुर्वणादिका सिद्धिर्विद्यते भवतामियम् । तस्याः प्रभावतो नाशमुपसर्गः प्रयास्यति ततः स विस्मयोपेतस्तदा क्षुल्लकवाक्यतः । करं गुहोन्मुखं चक्रे भिन्नशैलं महातपाः ॥ ततो विकुर्वणायुक्तमात्मानमवगम्य सः । साधूपसर्गहान्यर्थं मतिं चक्रे महामतिः अद्यापि सा गुहाछिद्रा विष्णुपाणिविदारिता । लोकातिशयसंपन्ना विद्यते धरणीतले ॥ अथ विष्णुकुमारोऽयं” गुरुणाऽपि विसर्जितः । पद्मपार्श्वं परिप्राप्य जगादैनं ससंभ्रमम् ॥ १२४॥ अस्मत्कुलसमायातो जिनधर्मः स दीक्षिणः । उपसर्गो न केनापि मुनिधर्मस्य वा कृतः ॥ १२५ ॥
॥
१२० ॥
१२१ ॥
॥
१२२ ॥
१२३ ॥ ०
1 फ युगलम्, पज युगलमिदम्. 2 प जिनवाक्यतः 3 पफ युग्मम् ज युगलम्. 4 फ चालिचञ्चलम्. 5 पज योगीशां. 6 पज पुरे. 7 पफ त्रिकलम् ज त्रिकुलम् 8 प सिद्धिर्विभ्रमे 9 पफ त्रिकलम्, ज त्रिकुलम्. 10 Omitted in फ. 11 प कुमारोऽपि .
Jain Education International
॥
For Private & Personal Use Only
www.jainelibrary.org