________________
हरिषेणाचायकृते बृहत्कथाकोशे
[११.६१अथान्यद्विकटं जातं संविधानं तदुच्यते । कुरुजङ्गलदेशेऽस्ति हस्तिनागपुरं परम् ॥ ६१॥ तत्राभवन्महापद्मो भूपतिर्जनवल्लभः । लक्ष्मीमती महादेवी तस्य लक्ष्मीसमन्विता ॥ ६२ ॥ तयोद्वौ नन्दनौ जातौ पद्मविष्णुमहाबलौ । विनयाचारसंपन्नौ प्रतापहतशात्रवौ ॥ ६३॥ कदाचिद्विहरन्नार हस्तिनागपुरं वनम् । श्रुतसागरचन्द्राख्यः सूरिराचारपण्डितः ॥ ६४ ॥ 5 महापद्मनृपः श्रुत्वा चन्द्रान्तं श्रुतसागरम् । मुनिं नन्तुं जगामायं ससुतो वनमुत्तमम् ॥ ६५ ॥
श्रुत्वा धर्मकथां तत्र दत्वा पद्माय संपदम् । विष्णुना 'श्रुतवाय॑न्ते महापद्मस्तपोऽग्रहीत् ॥६६॥ अत्रान्तरे परिप्राप्य हस्तिनागपुरं तके । पूर्वोक्तमत्रिणो भूयो जाता पद्मस्य मत्रिणः ॥ ६७ ॥ अथ सिंहबलो राजा कोट्टनाथो महाबलः । व्याघ्रसिंहादिभिर्भीमे पर्वतान्ते वसत्यसौ ॥ ६८॥ धनधान्यहिरण्यानि रूप्यहस्तितुरङ्गमान् । आदाय पद्मदेशस्य स तस्थौ कोट्टमध्यके ॥ ६९ ॥ " खदेशलुण्टनं श्रुत्वा पद्मः पद्मदलेक्षणः । हस्त्यश्वरथपादातयुक्तोऽपि हृदि खिन्नवान् ॥ ७० ॥ विमनस्कं तरां पद्मं पद्माऽऽलिङ्गितवक्षसम् । जगाविति गुणावासो बलिरिङ्गितकोविदः ॥ ७१॥ मूढचित्तोऽसि किं राजन् शोकवान् दुःखितोऽसि किम् । यदिष्टं तद्वद क्षिप्रं सर्वं संपादयामि ते॥७२॥ मदीयो लुण्टितो देशो बले सिंहबलेन च । दुर्गमाश्रित्य दुष्टेन तेन दुःखं ममाधिकम् ॥ ७३॥ पद्मस्य वचनं श्रुत्वा बलिरूचे नृपं पुनः । वशीकरोमि तं शत्रु खबुद्ध्या धीरतां व्रज ॥ ७४ ॥ 15 बलिवाक्यं समाकर्ण्य तोषकण्टकिताङ्गकः । बभूव तत्क्षणादेव पद्मः पद्मनिभेक्षणः ॥ ७५ ॥
अन्यधुर्बलिवाक्येन खानुकूले दिने शुभे । नक्षत्रे रजनीनाथे प्रस्थानमकरोत्प्रभुः ॥७६॥ गोणिकासु सुदीर्घासु पृथुलासु घनासु च । चित्रचित्रविचित्रासु कृतासु वरशिल्पिभिः ॥ ७७ ॥ प्रासासिकुन्तखेटादिभासिताखिलविग्रहान् । बलिः प्रवेशयामास पुरुषान्पुरुविक्रमान् ॥ ७८ ॥
अञ्जनाद्रिसमानेषु महिषेषु कलखनाः। गुरूरारोपयामासुः पुमांसो गोणिकास्तकाः ॥ ७९ ॥ 20 महामहिषसार्थोऽयं महापुरुषसंगतः । चचाल बलिवाक्येन हस्तिनागपुरादरम् ॥ ८॥ ततः क्रमेण संप्राप्तस्तदा सैंहबलं पुरम् । महामहिषसार्थोऽपि बलिनाधिष्ठितो महान् ॥ ८१॥ तत्कोट्टमध्यकं प्राप्य गोणिकान्तरतो नराः । पाटयित्वा तु ताः शस्त्रैर्निर्ययुस्तन्निवासिनः ॥ ८२॥ ततः सिंहबलो दृष्ट्वा परचक्र समागतम् । दष्टदन्तच्छदं श्रान्तं कुन्तप्रासासिभीषणम् ॥ ८३॥
अधिरुह्य समावेगं तुरङ्गं चलचामरम् । तत्सन्मुखमभीयाय कोपलोहितलोचनः ॥ ८४॥ 28 ततो बलिरपि स्पष्टं दृष्ट्वा सिंहबलं पुरः । खसैन्यसमुदायेन तत्सन्मुखमवाप सः॥८५॥
खड्गधेनुसमाबद्धैः करवालकरै टैः । बलिः सिंहबलं शीघ्रं जीवग्राहं गृहीतवान् ॥ ८६ ॥ आदाय तं महासत्त्वं नृपं सिंहबलं बलिः । आजगाम स्वसैन्येन हस्तिनागपुरं परम् ॥ ८७॥ अथास्थानस्थितस्यास्य पद्मस्यायतवक्षसः । बलिः समर्पयामास तदा सिंहबलं नृपम् ॥ ८८॥
दृष्ट्वा सिंहबलं राजा बभाणेमं कृतानतिम् । क्रियते किं तवेदानीमसुखं वा सुखं वद ॥ ८९॥ 30 श्रुत्वा पद्मवचो दीनं तकं सिंहबलोऽवदत् । यत्तुभ्यं रोचते देव तदेव कुरु साम्प्रतम् ॥ ९॥ निशम्यास्य वचःसारं तोषं प्राप्य नराधिपः । ददावङ्गपरिस्पृष्टं तस्मै कङ्कणकादिकम् ॥ ९१ ॥ कारयित्वा निजां केरां संधि वा सार्वकालिकाम् । मुक्तोऽमुनाऽगमत्सोऽपि संतुष्टो निजपत्तनम् ॥९२॥ अत्रान्तरे बलिं प्राह पद्मो हृष्टतनूरुहः । वरं वृणीष्व भद्र त्वं तुष्टोऽहं स्वमनीषितम् ॥ ९३॥
1 ज श्रुतपार्श्वन्ते. 2 ज कोटनाथो. 3 [विमनस्कतर] 4 प युग्मम् , फ युगलम् , ज युगलमिदम्. 5ज केरां-सेवां.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org