________________
-११. ६० ] विष्णुकुमारकथानकम्
१९ एकोऽनड्वान् समायाति शृङ्गहीनः पुरादरम् । नग्नरूपधरो राज्ञो दर्शितो बलिना मुनिः॥२८॥ वने पुरः स्थितं दृष्ट्वा प्राहेमं श्रुतसागरः । आगतोऽसि कुतो भद्र ब्रूहि मे त्वरितं खल ॥ २९ ॥ बलिस्तद्वचनं श्रुत्वा जगौ तं नृपसाक्षिकम् । ज्ञानी त्वं मां न जानासि पुरःस्थनगरागतम् ॥३०॥ भवन्तं वेश्यहं नूनमिहत्यनगरागतम् । पृच्छामि श्वभ्रतिर्यक्त्वमनुष्यसुरजं भवम् ॥ ३१ ॥ श्रुतसागरसद्वाक्यं श्रुत्वा बलिरुवाच तम् । यते किं कोऽपि जानाति ह्यन्यजन्मभवान्तरम् ॥३२॥ भूयोऽयं मुनिनाऽवाचि तद्भवान्तरवेदिनां । भवद्भवान्तरं वेभि शृणु त्वं कथयामि वः ॥ ३३॥ इहैव नगरे विप्रो रुद्राणीरुद्रसंभवः । क्रोधमानादिसंग्रस्तः कपिलः कपिलोद्भवः ॥ ३४ ॥ अन्यदा धनलोभेन दण्डादण्डि कचाकचि । युद्धमासीत्कृताकम्पं तव देवगणस्य च ॥ ३५॥ अनेन पञ्चतां नीतः कोपारुणनिरीक्षणः । करवालसमाघातान्नरकं प्रथमं गतः ॥ ३६॥ उत्तीर्य दुःखतस्तस्मादायुषि क्षयमागते । स्तोकपुण्यानुभावेन बभूव हरिणो वने ॥ ३७॥ 10 भूयोऽपि गीतदोषेण कर्णश्रवणहारिणा । व्याधेन पञ्चतां नीतो हरिणो मुग्धमानसः ॥ ३८॥ देवकीदेवसंभूतो मिथ्यात्वग्रहदूषितः । जातो मन्त्री नृपस्यास्य साम्प्रतं बलिरुत्तमः ॥ ३९॥ यद्यच्च बलिना प्रोक्तं तेन तत्तच दूषितम् । प्रमाणनयनिक्षेपैः प्रभोरग्रे अनेकधा ॥४०॥ राजा तोषं परं प्राप्तः श्रुत्वा बलिभवान्तरम् । आ जन्ममूलतः ख्यातं श्रुतसागरयोगिना ॥४१॥ नत्वा मुनेः पदाम्भोजं श्रुतसागरयोगिनः । विलक्षमत्रिभिः सार्धं जगामायं स्वमन्दिरम् ॥४२॥ 15 जित्वा वादं सुहृष्टात्मा तदानीं श्रुतसागरः । अकम्पनगुरोः पार्थं प्राप्य तस्थौ प्रणम्य तम् ॥४३॥ दृष्ट्वाऽमुं पुरतः सूरिर्वदति स्म कृतागसम् । संघं विहाय चान्यत्र कायोत्सर्गेण तिष्ठ भो ॥४४॥ अकम्पनगुरोर्वाक्यं श्रुत्वा हि श्रुतसागरः। हित्वा गणं पुराभ्याशे कायोत्सर्गेण तस्थिवान् ॥४५॥ श्रुतसागरनामानं मुनि स्थानस्थितं निशि । नगरासन्नदेशस्थं ददृशुः क्रूरमत्रिणः॥४६॥ आदाय करवालानि दष्टदन्तच्छदा भृशम् । वेष्टयित्वा रुषोपेताः सर्वतस्तेऽवतस्थिरे ॥४७॥ 20 आकृष्टकरनिस्त्रिंशा भृकुटीभीषणालिकाः । लालाविलमुखाभोगाः कोपारुणनिरीक्षणाः ॥४८॥ तत्पक्षपातकारिण्या तदा देवतया मुनिम् । परितः स्तम्भितास्त्रस्ता बभूवुस्तत्क्षणेन ते ॥४९॥ दुःखविह्वलचित्तानां मुनिनिन्दाविधायिनाम् । अनयाऽवस्थया तेषां शर्वरी विलयं गता ॥५०॥ अथारुणोदये जाते दृष्ट्वा तांस्तदवस्थितान् । प्राप्ता राजादयः सर्वे हाहाकारं विधाय ते ॥५१॥ महाकलकलं श्रुत्वा बधिरीकृतदिङ्मुखम् । लोकानां भूपतिं प्राह देवता गगनस्थिता ॥ ५२ ॥ 25 मदावासस्थितं साधु मुनि हन्तुं समुद्यतान् । निकारकारिणो हन्मि भूपतेऽहं त्वदग्रतः ॥ ५३॥ देवीवचनमाकर्ण्य भूपतिः प्राह तां पुनः । मद्वाक्यतो विमुञ्चार्ये बुद्धिहीनानिमानरम् ॥५४॥ मुमोच भूपवाक्येन देवतैतान् कृतागसः । महतामुपरोधेन प्रसीदन्ति हि देवताः ॥ ५५ ॥ विमुक्तबन्धनाः सन्तो मुक्ता देव्या नरेशिना । निर्धाटिता द्रुतं देशाचत्वारोऽपि मलीमसाः ॥५६॥ देवताऽपि मुनि नत्वा समाप्तनियमं तदा । जगामादृश्यतां क्वापि स्वेच्छाचारा हि देवताः ॥५७॥ 30 आश्चर्यमिदमाकर्ण्य श्रुत्वा धर्ममतः परम् । केचिच्छ्रावकतां प्राप्ताः केचिन्मध्यस्थतां पराम् ॥५८॥ भूयोऽपि नमनं कृत्वा मुनेरस्य प्रशान्तधीः । लोको मुनिगुणग्राही जगाम खं निकेतनम् ॥ ५९॥ उपसर्गजयं कृत्वा नृपलोकनमस्कृतः । जगाम स्वगुरोः पाच निर्दोषः श्रुतसागरः ॥ ६॥
1पज स्थिरं.2 °वेदता. 3 पधनलाभेन. 4 Only in फ.5 पज दोषं परं प्राप्तं. 6 फ सूर्योज्वलं ख for करवालानि.7 पफ युग्मम, ज युगलमिदम्.8प निन्दाभिधायिनाम.9 फ महावास.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org