________________
१८
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ १०.१११
यथा कृतः स्थिरीकारो वारिषेणेन तत्त्वतः । भार्यानिहितचित्तस्य सुतरां सोमशर्मणः ॥ १११ ॥ तथाऽन्येनापि वीरेण धर्मभावितचेतसा । कर्तव्यो धर्मयुक्तस्य सम्यक्त्वादिच्युतस्य वै ॥ ११२ ॥' ॥ इति श्री सोमशर्म वारिषेणस्थिरीकरणकथानकमिदम् ॥ १० ॥
5
*
११. विष्णुकुमारकथानकम् ।
11
10
ततोऽवन्तीबृहद्देशे श्रीमदुज्जयिनी पुरी । अस्यां बभूव राजेन्द्रः श्रीधर्मा श्रीधरो महान् ॥ प्रियंवदा महाभार्या नामतः श्रीमती परा । कलाविज्ञानसंपन्ना श्रीमती भूपतेरभूत् ॥ २ ॥ बलिर्बृहस्पतिश्चैव प्रह्लादो नमुचिस्तथा । चत्वारो मंत्रिणस्तस्य भूपतेरभवन् प्रियाः ॥ ३ ॥ अकम्पनादियोगीन्द्राः श्रुतसागरपारगाः । तदुद्यानवनं प्राप्ता विहरन्तः सलीलया ॥ ४ ॥ एकं दिनं तदुद्याने स्वाध्यायगतचेतसाम् । अकम्पनमुनिस्तेषां ददौ मौनं महामतिः ॥ ५ ॥ एको मुनिर्न तन्मध्ये केवलं श्रुतसागरः । भिक्षार्थं नगरं यातः स्थितस्तत्राशनेच्छया ॥ ६ ॥ सौधोपरि स्थितो यावन्मत्रिभिः सह तिष्ठति । तावत्पश्यत्ययं लोकं व्रजन्तं वनसन्मुखम् ॥ ७ ॥ ततोऽप्राक्षीत्तदा राजा मत्रिणो निकटस्थितान् । ब्रूत लोकः किमर्थं वा वनं याति विनोत्सवम् ॥ ८ ॥ निशम्य भूपतेर्वाक्यं तदानीं तं जगौ बलिः | आययुस्त्वत्पुरोद्यानं श्रमणा नग्नरूपिणः ॥ ९ ॥ गृहीत्वा सर्वभावेन पुष्पधूपाक्षतादिकम् । तद्वन्दनार्थमायाति तद्भक्तो निखिलो जनः ॥ १० ॥ Is बलिवाक्यं समाकर्ण्य भूपस्तद्भक्तितत्परः । उवाच तं तदा वीरस्तदालोकनकौतुकः ॥ ११ ॥ तदेहि तद्वनं यावो' नत्वा तान् मुनिपुङ्गवान् । श्रुत्वा धर्मं दयाढ्यं च स्वमेष्यामो गृहं ततः ॥१२॥ बलिः प्रोवाच भूयोऽपि भूपस्य वचनादिमम् । धर्मस्य लोकपथ्यस्य वेदो मूलं भवेन्नृप ॥ १३ ॥ या श्रुतिः स भवेद्वेदो धर्मशास्त्रं स्मृतिः स्मृता । सकलेष्वेषु मीमांसा धर्मस्ताभ्यां बभौ पुनः ॥ १४ ॥ श्रुतिस्मृतिभवं धर्ममधितिष्ठति यः सदा । इहत्यं स सुखं प्राप्य प्रभुंक्ते नाकजं तथा ॥ १५ ॥ 20 इदं वेदे समुद्दिष्टं वाक्यं जनसुखावहम् । लोके प्रमाणतां यातं ब्रह्मवऋविनिर्गतम् ॥ १६ ॥ यदि पृच्छसि मां भूप धर्मं वेदमतं परम् । सर्वलोककृतं शुद्धं निर्मलं कथयामि ते ॥ १७ ॥ नग्नश्रमणधर्मोऽयं श्रुतिस्मृतिबहिष्कृतः । विप्रभूपपरित्यक्तः संमतो न विचक्षणैः ॥ १८ ॥ श्रुत्वा बलिवचोऽनेन भाषितोऽयं महीभुजा । अवश्यमेव गन्तव्यं मुनिपार्श्वं मया बले ॥ १९ ॥ बलिनाऽवाचि भूयोऽपि 'भूपतिर्गर्वमीयुषा । विजिग्ये तानहं वादात् त्वं मध्यस्थो भव प्रभो ॥२०॥ 25 राजा तद्वचनं श्रुत्वा कौतुकव्याप्तमानसः । जगाम मन्त्रिभिः सार्धं वनं मुनिसमाकुलम् ॥ २१ ॥ यावत्संभाषणं तेन कुर्वन्ति सुनिभिः समम् । मौनमादाय तिष्ठद्भिस्तावद्भूपं वदत्यलम् ॥ २२ ॥ 'अस्मत्तो भीतचेतोभिः श्रमणैर्मूर्खराशिभिः । न किंचिदुत्तरं दत्तं ब्रुवाणेभ्योऽपि भूपते ॥ २३ ॥ विलोक्य मन्त्रिणः साधून् मौनमादाय संस्थितान् । निगदन्ति स्म भूपालं तोपहृष्टतनूरुहाः ॥ २४ ॥ यदस्माभिः कृतं भूप दौहृदं वादमिच्छुभिः । तदेतान् श्रमणान् प्राप्य विलीनं हृदये च तत् ॥ २५॥ 30 तस्मादुत्तिष्ठ गच्छामस्त्वरितं निजमन्दिरम् । न कार्यमन्तरेणात्र स्थानं युक्तं मनखिनाम् ॥ २६ ॥ एवं निगद्य भूपालं चत्वारोऽपि वनान्तरात् । निर्जग्मुस्तोषसंपूर्णा भवनं गन्तुमिच्छवः ॥ २७ ॥
5
1
4 पज ईहत्यं. 5 पफज
1 पफ युग्मम् ज युगलम् 2 प याव, जयायौ. 3प लोकपथस्य. षट्कुलकम्. 6 प भूपतिं 7 प अस्मतो. 8 फ त्रिकुलकम्, पज त्रिकलकमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org