________________
-१०.११० ]
सोमशर्मवारिषेणकथानकम्
१७
अनयोरूपसंपन्ना सुता गुणमती प्रिया । कुमारी लोकविख्याता नारीगुणगणोदधिः ॥ ८१ ॥ . अन्यदा सा सुखं सुप्ता शयनीये मनोहरे । कुतोऽप्यागत्य वेगेन दष्टा सर्पेण कोपिना ॥ ८२ ॥ ततस्तत्क्षणमात्रेण विषव्याप्तशरीरका । निश्चलीभूतसर्वाङ्गी कुमारी सहसाऽभवत् ॥ ८३ ॥ सुतावार्तां समाकर्ण्य दन्दशूकसमुद्भवाम् । तत्पिताऽऽहूतवानाशु भिषजान् विषघातिनः ॥ ८४ ॥ ततः समागताः सर्वे तत्पत्तननिवासिनः । उपविष्टा यथास्थानं तदानीं मतिमानिनः ॥ ८५ ॥ ताम्बूलादिभिः संमान्य तत्पिता निजगाविमान् । मत्सुताजीवनं सन्तः कुर्वन्तु मतिशालिनः ॥ ८६ ॥ शिरोनतिं विधायाशु भूपतिं निगदन्ति ते । त्वत्सुतासंग्रहोऽस्माकं राजन् विशति नो' स्फुटम् ॥ ८७ ॥ ततस्तद्वचनस्यान्ते धन्वन्तरिरिमं जगौ । शक्नोमि नागमानेतुं त्वत्सुतोत्थापनं न तु ॥ ८८ ॥
धन्वन्तरिवचः श्रुत्वा वसुपालो जगावमुम् । अष्टनागकुलाह्वानं कुरु त्वं मण्डलं च भो ॥ ८९ ॥ अनन्तं वासुकिं चैव कर्कोटं तक्षिकान्वितम् । तथा पद्ममहापद्मौ कुलिकं शङ्खपालकम् ।। ९० ।। 10 एतान् सर्वान् समाहूय मण्डलाधिगतानरम् । धन्वन्तरिरसौ चक्रे वसुपालनिदेशतः ॥ ९१ ॥ अग्निकुण्डं विधायोच्चैः खदिराङ्गारसंभृतम् । धन्वन्तरिरुवाचैतान् सकलानपि भोगिनः ॥ ९२ ॥ वसुपालसुता दष्टा येन पापेन भोगिना । स परं तिष्ठतु क्षिप्रं यान्त्वन्ये मण्डलाद्बहिः ॥ ९३ ॥ विषघातिवचः श्रुत्वा सप्तनागकुलान्यगुः । कुलिकस्तु सदोषत्वात्तस्थौ तत्रैव मण्डले ॥ ९४ ॥ धन्वन्तरिरमुं प्राह नागं कुलिकसंज्ञकम् । गृहाणात्मविषं पाप विशाग्निं वाऽर्चिषोज्वलम् ॥ धन्वन्तरिगिरं श्रुत्वा दन्दशूकोऽपि तद्विषम् । विहाय निर्भयो मंक्षु अग्निकुण्डं विवेश सः ॥ तथा चोक्तम्
९५ ॥ 15
९६ ॥
वरं प्रविष्टं ज्वलिते हुताशने न चापि भग्नं चिरसंस्थितं व्रतम् ।
१०० ॥
१०१ ॥
वरं हि मृत्युः सुविशुद्धकर्मणां न शीलवृत्तिस्खलितं हि जीवितम् ॥ ९७ ॥ स्वरूपलोचनोत्क्षेपैर्जितशत्रुवधूजनम् । रत्नाभरणभाभारभाविताकाशभूतलम् ॥ ९८ ॥ पादनूपुरझंकारबधिरीकृतदिङ्मुखम् । अन्तःपुरं कृतानन्दं संप्रापच्चेलनान्तिकम् ॥ ९९ ॥ निरीक्ष्यान्तःपुरं सर्वं सोमशर्ममुनिं तदा । जगाद वारिषेणोऽपि भोगनिःस्पृहमानसः ॥ अन्तःपुरमिदं कान्तं मणिहस्तितुरङ्गमान् । सोमशर्म गृहाण त्वं मदीयं सकलं धनम् ॥ वारिषेणोदितं श्रुत्वा सोमशर्माऽतिविस्मितः । वैराग्याहितचेतस्को दध्यौ मनसि धीरधीः ॥ १०२ ॥ अहो त्यागो महानस्य अहो धैर्यमहो तपः । अहो सत्यमहो वीर्यमहो कान्तिरहो महः ॥ १०३ ॥ 25 अहो वचनसौभाग्यमहो रूपमहो गुणः । अहो शीलं वृषागारमहो विभवकारणम् ॥ १०४ ॥ एवं विचिन्त्य बुद्धात्मा कान्तासुखविरक्तधीः । वारिषेणं जगौ वीरं सोमशर्मा गुणाकरम् ॥१०५॥ नूनं निर्व्यूढमायातं मित्रत्वं तव शोभनम् । मां नियोजयतो मूढं मार्गे रत्नत्रयात्मके ॥ १०६ ॥ तस्मादुत्तिष्ठ यास्यावो महावीरजिनान्तिकम् । विधायालोचनां तत्र शोभनं नो भविष्यति ॥ १०७॥ सोमशर्मोदितं श्रुत्वा तत्समं निरगादतः । "जननीवन्दितो भक्त्या वारिषेणो महामतिः ॥ १०८ ॥ 30 केवलामलनेत्रस्य सुरासुरनतस्य च । क्रमेण वीरनाथस्य समीपं प्राप्तवानसौ ॥ १०९ ॥ आलोचनाविधिं कृत्वा तत्सकाशे प्रशान्तधीः । महावैराग्यसंपन्नः सोमशर्मा मुनिर्बभौ ॥
११० ॥
5
1 पज संग्रहेऽस्माकं राजन् वेत्स्यति नो. 2 फ सुतोत्थापने 3 फ मण्डलं च मे 4 फ यथा. सर्वान् 6प युग्मम् फ युगलम् ज युगलमिदम्. 7फ वसाग्निं. 8 फ लोचनाक्षेपै. युगलम् ज युगलमिदम्. 10 फ चतुष्कुलकम्, पज चतुष्कुलकमिदम्. 11 जनन्या. बृ० को ० ३
Jain Education International
5 प तान्
9 प युग्मम्, फ
For Private & Personal Use Only
20
www.jainelibrary.org