________________
१६
20
५६ ॥
५७ ॥
५८ ॥
कलगीतमुपश्रुत्य सोमशर्मा जिनान्तिकात् । चचाल सोमिलावासं प्रति निश्चितमानसः ॥ ५५ ॥ विज्ञाय सोमशर्माणं गतं किन्नरगीततः । जिनाज्ञां प्राप्य तत्पश्चाद् वारिषेणो विनिर्ययौ ॥ संप्राप्य सोमशर्माणं वारिषेणो जगाविमम् । प्रथमं मगृहं यावो यास्यावस्त्वहं पुनः ॥ 10 श्रुत्वा तद्वचनं रम्यं तद्वाक्यात्प्रीतमानसः । सोमशर्माऽमुना साकं वारिषेणगृहं ययौ ॥ गृहागतं तमालोक्य ँ वारिषेणं ससंभ्रमम् । सोमशर्मसमायुक्तं चेलनापि तमग्रहीत् ॥ स्वहस्तेन समादाय सरागं वृहदासनम् । परीक्षार्थं ददौ चान्यद्वीतरागं हि चेलना ॥ वीतरागे समाविष्टो वारिषेणो महामुनिः । सरागे सोमशर्मा च विष्टरे मूढमानसः ॥ नमस्कारं विधायास्य वारिषेणस्य तत्समम् । चेलना शुद्धचेतस्का तस्थौ तत्पुरतो मुदा " विलोक्य मातरं पुत्रो जगौ तां त्रस्तमानसाम् । आनय त्वरितं मातर्वधूसंघं मदन्तिकम् ॥ वारिषेणवचः श्रुत्वा दूतिकां प्रजिघाय सा । वधूनामन्तिकं शीघ्रं तदानयनकारणात् ॥ ६४ ॥ ततो यावद्वधूसंघो नूनमागच्छति प्रभो । तावद्धर्मकथां ब्रूहि कर्णामृतरसायनम् ॥ ६५ ॥ जननीवाक्यमाकर्ण्य वारिषेणो वभाण ताम् । त्वमेव प्रथमं ब्रूहि बहुजन्मनिमित्ततः ॥ ६६ ॥ निशम्य भारतीमस्य विद्याकठिनचेतसः । जगौ कथानकं रम्यं चेलना धर्मभाविता ॥ ६७ ॥
६१ ॥
1
॥
६२ ॥
६३ ॥
30
हरिषेणाचार्यकृते बृहत्कथाकोशे
कुवलयनवदलसमरुचिनयने सरसिजदलनिभवरकरचरणे । श्रुतिसुखकरपरभृतकलवचने कुरु जिननुतिमयि सखि विधुवदने ॥ ५२ ॥ बहुमलमलिनशरीरा मलिनकुचेलाधिविगततनुशोभा । त्वद्गमनदग्धहृदया शोकातपशुष्कमुखकमला ॥ ५३ ॥ विमना गतलावण्या वरकान्तिकला॑पपरिमुक्ता । किं जीविष्यत्यवनिका नाथेऽपि गतेऽक्षयं मोक्षम् ॥ ५४ ॥
कस्मिन्नपि पुरे भद्र सुभद्रा वनिताऽभवत् । तस्याः पुत्रः सुभद्राख्यो गोवत्सपरिपालकः ॥६८॥ अन्येद्युर्भक्षिता क्षीरी सुभद्रेण मनोहरी । अन्येन केनचिदत्ता गोपालेन सरोवरे ॥ ६९ ॥ उक्ता माता सुभद्रेण गृहं गत्वान्यवासरे । अम्बिके क्षीरिकां देहि मह्यं त्वं पुत्रवत्सले ॥ ७० ॥ तयाऽवाचि पुनः पुत्रो न दुग्धं न च तन्दुलाः । कथं सुत भवेत् क्षीरं तद्ब्राहं मुञ्च साम्प्रतम् ॥ ७१ ॥ सुभद्रावचनं श्रुत्वा सुभद्रः प्राह तां पुनः । ददासि मे यदि क्षीरं ततो रक्षामि वत्सकान् ॥७२॥ * तदाग्रहं परिज्ञाय बालबुद्धेः सुतस्य च । सुभद्रस्य तया क्षीरिः प्रतिपन्ना सुभद्रया ॥ ७३ ॥ याचयित्वा परं दुग्धं तन्दुलानपि मातृका । तत्संस्कारविधिं कृत्वा ददौ क्षीरीं सुताय सा ॥ ७४ ॥ महागृद्धिसमेतेन भक्षिता साऽमुनाऽखिला । भूयः प्रच्छर्दिता क्षिप्रं तया पात्रे प्रतीक्षिता ॥ ७५ ॥ भूयोऽपि गदिता माता देहि मे तां मुहुर्मुहुः । तच्छर्दिता तया दत्ता भक्षिता तेन साखिला ॥ ७६ ॥ ततो मुनेऽस्य किं युक्तं वत्सपालस्य निन्दितम् । छर्दिभक्षणकं कर्तुं हि मे तनुसंभव ॥ ७७ ॥ तथा चोक्तम् - यानीह दत्तानि पुरा नरेन्द्रैर्दानानि धर्मार्थयशस्कराणि ।
a
[ १०.५२
Jain Education International
५९ ॥
६० ॥
निर्माल्यवत्संप्रति मानितानि को नाम साधुः पुनराददीत ॥ ७८ ॥
चेलनावचनं श्रुत्वा वारिषेणो जगाद ताम् | जिनधर्मसमासंगजातनिश्चलमानसाम् ॥ ७९ ॥ उज्जयिन्यां पुरि ख्यातो वसुपालो नराधिपः । आसीदस्य प्रिया तन्वी परा वसुमती सती ॥८०॥
1 फ कलाकलाप. 2 फ त्रिकलम्, पज त्रिकलमिदम्. 3 फ खगृहागतमालोक्य 4 फ वीतरागी, ज वीतरागो. 5 पज रसायनीम्. 6 फ क्षीरिं. 7 पज क्षीरिं. 8 फ जगावमूं.
For Private & Personal Use Only
www.jainelibrary.org