________________
-१०. ५१]
सोमशर्मवारिषेणकथानकम् हारोक्ष्योतेन संप्राप्य कायोत्सर्गस्थितं तदा । वारिषेणं प्रपश्यन्ति ते नराः शस्त्रपाणयः ॥ १९॥ भार्यासमन्वितस्यास्य श्रेणिकस्य स्थितिस्थितम् । वारिषेणं सहारं च तस्करं निगदन्ति ते ॥ २०॥ सुतवार्ता समाकर्ण्य हारचोरणसंभवाम्' । आदिदेश तकान् राजा पुत्रनिग्रहणाय सः ॥ २१॥ आगत्य यावदेतेऽपि युगपन्नृपवाक्यतः । शिरश्छेदं प्रकुर्वन्ति तस्य प्रासाशिसायकैः ॥ २२ ॥ तावद्धर्यसमेतस्य वारिषेणस्य तत्क्षणात् । आयुधानि समस्तानि प्रययुः पुष्पमालताम् ॥ २३ ॥ तस्योपरि कलं मन्द्रं दुन्दुभिनंदति स्फुटम् । गन्धोदकं तथा देवा ववृषुः कृतसंस्तवाः ॥२४॥ भूयोऽपि तं परिप्राप्य निगदन्ति नरोत्तमाः । शस्त्राणि पुष्पमालाः स्युर्वारिषेणस्य भूपते ॥ २५ ॥ दुन्दुभिस्ताडितो देवैस्तस्योपरि नभोगतैः । गन्धोदकमपि क्षिप्रं प्रमुक्तं गन्धसुन्दरम् ॥ २६ ॥ राजा निशम्य तद्वाक्यं हृष्टरोमां जगौ प्रियाम् । तोषपूरितसर्वाङ्गी नितान्तं विकसन्मुखीम् ॥२७॥ अस्मत्कुलनभश्चन्द्रः प्रीणिताशेषभूतलः । वारिषेणः कथं कान्ते चोरणं विदधात्ययम् ॥ २८॥" जानताऽपि मया भद्रे सद्भावं तस्य शोभनम् । तथापि हिंसने बुद्धिमूढेन विहिता कथम् ॥ २९॥ खसुतं चौरमप्येष वल्लभत्वात् प्रमुञ्चति । परं साधुमपि क्षिप्रं निहन्ति निजकारणात् ॥ ३० ॥ मया जनभयात् कर्तुं प्रारब्धं मारणं सुते । अयं तु रक्षितः पुण्यैः स्वकीयैरमरैरपि ॥ ३१ ॥ यावच्चेलनया साकं जल्पतीदं महीपतिः । तावत्प्राभातिकैस्तूपैंर्गम्भीर ध्वनितं तदा ॥ ३२॥ श्रेणिकश्चलनालोकः सर्वो विस्मितमानसः । वारिषेणान्तिकं प्राप प्रभातसमये सति ॥ ३३॥ 5 कायोत्सर्ग विहायायं वारिषेणोऽरुणोदये। उपविष्टो धरापृष्ठे वैराग्याहितमानसः ॥ ३४ ॥ भूपश्चलनया साकं पादावादाय जल्पति । क्षमस्व मे त्वमज्ञस्य पुत्र मगोत्रभूषण ॥ ३५ ॥ गुणरञ्जितसल्लोकयशोधवलिताम्बर । मचित्तलोचनानन्द प्रोत्थाय स्वगृहं व्रज ॥ ३६॥" पित्रोर्वचनमाकर्ण्य तदानीं पादलग्नयोः । वारिषेणो जगादेतौ बाष्पविप्लुतलोचनौ ॥ ३७॥ उपसर्गोऽयमस्माकं यदि क्षेमेण यास्यति । ततो वयं करिष्यामः पाणिपात्रेण पारणम् ॥ ३८॥ 20 एवं विनिश्चयं ज्ञात्वा वारिषेणस्य धीमतः । श्रेणिकश्चलनालोको विवेश निजमन्दिरम् ॥ ३९॥ हित्वा परिग्रहं सर्वं वारिषेणो विशुद्धधीः । धर्मसेनगुरोः पार्थं तपो जैनमशिश्रयत् ॥ ४०॥ पुष्पाभजलपुत्रेण मित्रेण सोमशर्मणा । पलाशोपपदे कूटे ग्रामेऽनेन निवासिना ॥ ४१ ॥ वीरं नन्तुं व्रजन् दृष्टो वारिषेणोऽन्यवासरे। प्रीणितः परमान्नेन विधिना मित्रकारणात् ॥ ४२ ॥ प्रियां पृष्ट्वा ततोऽनेन सह लोकस्थितिं विदन् । सोमशर्मा पुरो वीक्ष्य क्षीरवृक्षं जगावमुम् ॥४३॥ वटवृक्षं मुने पश्य तथा स्वस्थं सरोवरम् । प्रबुद्धपद्मसंघातं गन्धागतमधुव्रतम् ॥ ४४ ॥ इदं प्रदर्शयन् तस्य सोमशर्मा ब्रुवन्नपि । नावाचि प्रभुणा किंचिन्निःस्पृहत्वादनेन सः ॥ ४५ ॥ वारिषणोऽपि संप्राप सहसा सोमशर्मणा । क्रमाद् वीरजिनेन्द्रस्य सरणं समवादिकम् ॥ ४६॥ स्तुत्वा वीरं यथायोग्यं सकलांश्च दिगम्बरान् । वारिषेणोऽमुना सार्धं स्वस्थाने समुपाविशत् ॥४७॥ वारिषेणसमीपे च दृष्ट्वामुं समवस्थितम् । कोऽपि साधुर्जगौ वाक्यं सहासं' वीरसंसदि ॥४८॥ 30 अयं पुण्यगृहीतात्मा सोमशर्मा विशुद्धधीः । सत्त्रात्र वारिषणेन तपः कर्तुं समागतः ॥ ४९॥ श्रुत्वा तद्वचनं विप्रो विलक्षः सदसि द्रुतम् । अज्ञातागमसद्भावो जग्राह परमं तपः ॥ ५० ॥ अथ वीणां समादाय सन्मनोहरणक्षमाम् । किन्नरैः किन्नरीयुक्तैः प्रारेभे गीतमुत्तमम् ॥५१॥
THHTHHTH
1फ चौरणसंभवम्. 2 पफ युग्मम् , ज युगलमिदम्. 3 प युग्मम्, फ युगलम् , ज युगलमिदम्. 4 फ चतुष्कुलकम् , फज चतुष्कलकमिदम्. 5 पफ युग्मम्. ज युगलमिदम्. 6प युग्मम्, फ युगलम्, ज युगलमिदम्. 7फ दृष्ट्वा. 8 प युग्ममू, फ युगलम् , ज युगलमिदम्.9 फ सहसा. .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org