________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
- [८. ११संसारासारतां ज्ञात्वा शरीरं रोगि सक्षयम् । मुनिदत्तान्तिके शीघ्रं वैशाखोऽपि तपोऽग्रहीत् ॥११॥ ततस्तपःस्थितं बुवा घनं मिथ्यात्वमाप्य च । कनकश्रीम॒तिं कृत्वा बभूव व्यन्तरी तदा ॥१२॥ अन्यदा योगिनं दृष्ट्वा विभङ्गज्ञानतः सका । विहरन्तं तं वैशाखं व्यन्तरी क्रोधमागता ॥ १३ ॥ अयं विहाय मां क्रूरो निर्लज्जो नवयौवनाम् । मयि कोपं गतायां हि करिष्यति कथं तपः ॥ १४ ॥ मासोपवासखिन्नस्य मुनेरेकविहारिणः । आहारसमये साऽपि करोतीन्द्रियवर्धनम् ॥ १५॥ मासमेकमुपोष्यायं पारणार्थं महातपाः । विवेश विहरन् कापि तदा राजगृहं पुरम् ॥ १६ ॥ उपवासपरिश्रान्तं योगिनं वीक्ष्य चेलना । स्वगृहाजिरमायातं समुत्थाय तमग्रहीत् ॥ १७ ॥ अथ स्थानस्थितं दृष्ट्वा पारणार्थं तपस्विनम् । कनकश्रीचरी चक्रे व्यन्तरीन्द्रियवर्धनम् ॥ १८ ॥
सोपसर्ग मुनिं दृष्ट्वा चेलना भक्तितत्परा । काण्डादिकं पटं चक्रे जनजल्पनभीतितः ॥ १९॥ 10 विधाय भोजनं योगी वैराग्याहितमानसः । चेलनावन्दितस्तूर्णं निर्जगाम तदालयात् ॥ २०॥ विपुलादिगिरौ स्थित्वा ध्यानेनायं मुनीश्वरः। निहत्य घातिकर्माणि केवलज्ञानमाप्तवान् ॥ २१ ॥ विदित्वाऽऽसनकम्पेन वैशाखस्य मुनेरिदम् । केवलज्ञानमुत्पन्नं सहसाऽगुः सुरेश्वराः ॥ २२ ॥ शकादयः सुराः सर्वे मस्तकन्यस्तपाणयः । पूजां केवलिनश्चक्रुः पुष्पधूपाक्षतादिभिः ॥ २३ ॥ विज्ञाय केवलोत्पत्तिं वैशाखस्याशु योगिनः । चेलनादिजनः प्राप नन्तुं केवलिनं मुदा ॥ २४ ॥ ॥ नत्वा केवलिनं भक्त्या चेलना सुरसंसदि । पप्रच्छ किंकृतं तेऽत्र चोपसर्ग वदाशु मे ॥ २५ ॥ चेलनावचनं श्रुत्वा पाहेमां केवली तदा । कनकधीरतिक्रूरा बभूव चललोचना ॥ २६ ॥ वैशाखाख्येन सा पूर्व परिणीताऽतिरागतः । कनकधीरियं दुष्टा भोगिनीव भयावहा ॥ २७ ॥ अन्यदा मगृहं प्राप्तो मुनिदत्तो भ्रमन् कचित् । मयाऽयं परमान्नेन प्रीणितो मित्रकारणात् ॥२८॥ मुनिनाऽहं समं यातः कनकश्रीनिकेतनात् । स्तोकान्तरमतिक्रम्य दीक्षितोऽस्मि तदन्तिके ॥ २९ ॥ ० श्रुत्वा मद्दीक्षणं क्रुद्धा मिथ्यात्वं प्राप्य तत्क्षणात् । मृत्युमासाद्य संजाता व्यन्तरीयं भयानका ॥३०॥
मां तपस्स्थं प्रविज्ञाय विभङ्गज्ञानतः खला । तेन वैरानुबन्धेन चकारेन्द्रियवर्धनम् ॥ ३१॥ मासोपवासयुक्तस्य त्वन्मन्दिरमुपेयुषः । भोजनार्थं स्थितस्येयं चकारेन्द्रियवर्धनम् ॥ ३२ ॥ मासोपवासमालोक्य धर्मवत्या त्वयेदृशम् । कृतं तत्पटयोगेन तदानीं तन्निवारणम् ॥ ३३॥ त्वद्गृहे भोजनं कृत्वा सोपसर्गविनिर्गतः। धृत्वा ध्यानं गिरावत्र कायोत्सर्गेण तस्थिवान् ॥ ३४ ॥ * दग्ध्वा ध्यानाग्नियोगेन घातिकर्मेन्धनानि मे । केवलज्ञानमुत्पन्नं लोकालोकावलोकनम् ॥ ३५॥ नवयौवनसंपूर्णा दिनसप्तकमात्रके । नवोढेयं मया मुक्ता" तपो जैनं प्रकुर्वता ॥ ३६॥ पञ्चतां प्राप्तया सद्यो मिथ्यात्वं गतयाऽनया । उपसर्गः कृतो मे हि व्यन्तरीत्वमुपेतया ॥ ३७॥ यत्पृष्टोऽहं त्वया भद्रे सत्सम्यक्त्वमुपेतया । उपगूहनकारिण्या ख्यातं तन्निखिलं मया ॥३८॥" इति केवलिना प्रोक्ते स्ववृत्तान्ते सुरासुराः । विस्मयं परमं प्राप्य नेमुस्तं नतमस्तकाः॥ ३९ ॥ ० आखण्डलादयो देवा नत्वा केवलिनं मुदा । चेलनादिजनाः सर्वे जग्मुस्ते निजमालयम् ॥ ४०॥ निहत्य शेषकर्माणि दग्धरज्जुसमानि सः । वैशाखकेवली" मुक्तिं प्राप्तवान् सुखसागराम् ॥४१॥ यथा चेलनया नूनं कृतं यत्युपगृहनम् । तथाऽन्येनापि कर्तव्यं धर्मयुक्तस्य कस्यचित् ॥ ४२ ॥
॥ इति चेलनामहादेवीकृतं वैशाखस्योपगृहनाख्यानकमिदम् ॥ ८॥
*
1फ धवं. 2 प विशाखाख्यं, 3फ जिनकल्पन. 4 पज स्थानेनायं. 5प वन्दित्वा. 6 प विशाखस्य, ज विशाषस्य. 7 प भयानिका. 8प पट्टयोगेन. 9फसोपसर्गो विवर्गतः, 10 पमुक्त्वा. 11 पफज कुलकमिदम्. 12 प विशाष, ज विशाख.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org