________________
-6.90]
चेलनामहादेवीकथानकम्
११
कृता रुद्रादिदेवानां मया तद्धि विकुर्वणा । विधाय क्षौलकं रूपं त्वत्परीक्षार्थमागतः ॥ ८४ ॥ ख्यातं यन्मुनिगुप्तेनाभव्यसेनस्य योगिनः । तवापि दर्शनं सारं तत्सर्वं विदितं मया ॥ ८५ ॥ मुनिगुप्तेन गुप्तेन मनोवाक्कायकर्मभिः । आशीर्वचनमत्युद्धं प्रहितं तव रेवति ॥ ८६ ॥ पदानि पञ्च संप्राप्य तत्सन्मुखमुदारधीः । ववन्दे तत्पदद्वन्द्वं रेवती शिरसाऽऽदरात् ॥ ८७ ॥ कथयित्वा स्ववृत्तान्तं तस्यास्तां च परीक्ष्य सः । अदर्शनं ययौ क्वापि मनोवेगः प्रशान्तधीः ॥ ८८ ॥ खेटः प्रदक्षिणीकृत्य जिनमन्दिरमुन्नतम् | जिनं स्तुत्वा सुसाधुं वा भव्यसेनं गणाधिपम् ॥ ८९ ॥ भाविताखिलशास्त्रार्थैः श्रावकैर्जिनदैवतैः । तत्रोपविश्य शुश्राव तद्व्याख्यानं स खेचरः ॥ ९० ॥ तद्व्याख्यानमुपश्रुत्य' मनोवेगेन वेगिना । भव्यसेनो बहिर्वृत्तिं विधातुं प्रययौ तदा ॥ ९१ ॥ इष्टकाशकलं " भस्मविकृतिस्तेन मायिना । विद्याबलेन तन्नीतं सर्वं दृष्टेरगोचरम् ॥ ९२ ॥ बहिर्वृत्तिं विधायात्र श्रावकोऽवाचि योगिना । कुतोऽप्यन्वेषणं कृत्वा तूर्णं विकृतिमानय ॥ ९३ ॥ ॥ तदुक्तः श्रावकः सोऽपि मृत्स्नामादाय शोभनाम् । आगत्य च मुनेः पार्श्व तं जगाद सकौतुकः ॥ ९४ ॥ विकृतिर्मे त्रिभेदापि न लब्धा क्वापि संयत । ततो गृहाण सन्मृत्स्नां प्राशुकां मदुपाहृताम् ॥ ९५ ॥ मृत्तिकां वीक्ष्य योगीन्द्रस्तामादाय करेण सः । जगाद श्रावकं भूयः पृथिवीकायसंशयी ॥ ९६ ॥ ब्रुवन्ति केचिदाचार्याः पृथिव्याद्यसुधारिणः । सजीवानिति निश्शेषान् मनोवेगप्रतीहितान् ॥ ९७ ॥ एवमुक्त्वा तकं सोऽपि धरादिप्राणसंशयः । करप्रक्षालनं चक्रे तया मृत्तिकया यतिः ॥ ९८ ॥ is रेवतीं श्राविकां मत्वा सत्सम्यक्त्वविभूषिताम् । धरादिजीवसंदेहकारिणं योगिनं तथा ॥ ९९ ॥ मुनिं प्राप्य वन्दित्वा तं पुनः पुनः । तद्वृत्तान्तं समावेद्य स्वं धाम गतवानसौ ॥ १०० ॥ अन्यलिङ्गिप्रशंसेयं सम्यक्त्वक्षयकारिणी । न विषामृतयोरेकं स्वरूपं जायते भुवि ॥ १०१ ॥ ज्ञानं ज्ञानी मुनिः सिद्धाः सिद्धायतनकानि च । चारित्रं तद्युतः साधुरेतान्यायतनानि षट् ॥ १०२ ॥ जीवानां भयभीतानां धर्मबुद्धिविधायिनाम् । एतेभ्योऽन्यानि दुःखाय सन्त्यनायतनानि वै ॥ १०३ ॥ ७ जिनसाधुपदाम्भोजधर्मरेणुरसालिनी । मोहं न रेवती याता विद्याधरविडम्बनैः ॥ १०४ ॥
॥ इति अमूढदृष्टिरेवतीकथानकमिदम् ॥ ७ ॥
८. चेलनामहादेवीकथानकम् |
28
अथ विद्वजनावासं पुरन्दरपुरोपमम् । नगरं पाटलीपुत्रं बभूव वसुधातले ॥ १॥ तत्पुरं पाति भूपेन्द्रो विशाखो नाम विश्रुतः । दोर्दण्डस्थित निस्त्रिंशखण्डितारातिमण्डलः ॥ २ ॥ पद्मपत्रसमानाक्षी पद्मपादकरद्वया । प्रबुद्धपद्मसका विशाखा तत्प्रियाऽभवत् ॥ ३ ॥ तयोर्वैशाखनामाऽभूत् पुत्रः पुत्राभिलाषिणोः । कीर्तिव्याप्तसमस्ताशो विनयी गुणवारिधिः ॥ ४ ॥ कनत्कनकसद्वर्णशरीरच्छविराजिताम् । उपयेमे विधानेन वैशाखः कनकश्रियम् ॥ ५ ॥ अन्यदा यावदुत्तुङ्गे वैशाखो निजमन्दिरम् । आस्तेऽनया समं जल्पन्नवोढकनकश्रिया ॥ ६ ॥ प्रियामण्डनसक्तस्य तावद्वालसखोऽस्य सः । मुनिदत्तो मुनिः प्राप भिक्षायै तगृहं क्रमात् ॥ ७ ॥ 30 कुमारोऽपि मुनिं दृष्ट्वा प्रोत्थाय दयितान्तिकात् । तत्सन्मुखमभीयाय भक्तिहृष्टतनूरुहः ॥ ८ ॥ विधाय तन्नुतिं भक्त्या नीत्वाऽमुं निजमन्दिरम् । अम्धसा बहुमेदेन मुनिदत्तं ततर्प सः ॥ ९ ॥ मुनिराहारमाहृत्य तगृहान्निर्ययौ ततः । कुमारोऽप्यमुना सार्धं प्रियामापृच्छ्य निर्गतः ॥ १० ॥
1 पज क्षुलकं 2 फ नत्वा 3 पज जिनदेवतः 4 फ 'मुपाश्रित्य 5 पज सकलं. 6 फ त्रिभेदोप. 7 प युग्मम्, फ युगलम् ज युगलमिदम्. 8 प तयोर्विशाष.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org