________________
१०
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ७.५२
५८ ॥
॥ ५९ ॥
६० ॥
॥
६१ ॥
॥
६२ ॥
६४ ॥
६५ ॥
६६ ॥
६७ ॥
६८ ॥
पञ्चविंशो जिनो नास्ति न भूतो न भविष्यति । एष मायी मया ज्ञातो यात यूयं जिनालयम् ॥५२॥ निशम्य रेवतीवाक्यं रामागणोऽतिविस्मितः । निर्गत्य रेवतीगेहाज्जगाम स्वमनीषितम् ॥ ५३ ॥ तद्वन्दनां विधायोच्चैः सिद्धभक्तिपुरःसरीम् । ' जगामाभव्य सेनोऽपि ससंघो निजमालयम् ॥ ५४ ॥ सकलोsपि तदा संघो मनोवेगेन वीक्षितः । अवलोकनविद्यातो न दृष्टा रेवती परम् ॥ ५५ ॥ जिनरूपं विहायायं क्षौलकं वेषमाश्रितः । असत्यवेदनाग्रस्तः पपात विशिखान्तरे ॥ ५६ ॥ छर्दिं कुर्वन् बहिर्वृत्तिं पूत्कारमपि सर्वगम् । रेवती श्राविकासंज्ञामुच्चरन् व्यवतिष्ठते ॥ ५७ ॥ कापि तन्मन्दिरं प्राप्य रेवतीमबला जगौ । हले त्वन्नाम गृह्णाति पतितः क्षुल्लकः पथि ॥ रेवती तद्वचः श्रुत्वा प्राहेमां क स तिष्ठति । तत्पृष्टया च साऽवाचि विशिखान्ते स तिष्ठति तद्वाक्यतो गता सापि रेवती तत्समीपकम् । तमादाय करेणाशु स्वगृहं पुनराययौ ॥ 10 क्षुल्लकः प्राप्य तद्देहं रेवतीं निजगाविदम् । बुभुक्षाग्रस्तचित्ताय देहि मे भोजनं द्रुतम् ततः सुखोपविष्टाय क्षुधापीडितचेतसे । रेवतीश्राविका पात्रे तस्मै भक्तं ददौ मुदा यावदादाय सा मुद्गान् ददात्यस्मै मनोरमान् । तावद्धि भक्षितं भक्तं तेन मायाप्रपञ्चतः ॥ यावद् घृतं ददात्य॒स्मै रेवती सरसं सका । तावच्च तेन तत् पीतं मायाकारेण योगतः ॥ यावदेषा ददात्यस्मै घृतपूरान् मनोहरान् । तावदेतेन ते सर्वे भक्षिता हि गुडं विना ॥ ," यावद्ददात्यसौ तस्मै व्यञ्जनानि घनानि च । तावदेषोऽर्धदत्तानि जघास ग्रासमात्रतः ॥ यावद्ददात्यसौ तस्मै कठिनं दधिसुन्दरम् । तावद्भक्तं विना स्निग्धं भक्षितं मायिनामुना ॥ यावदेषा ददात्यस्मै मण्डान् दुग्धं सशर्करम् । तावदेतेन निःशेषं पीतं तन्मण्डकैर्विना ॥ यद्यद्विदीयते तस्मै किंचित्सरसभोजनम् । तत्तदर्धवितीर्णं वा जघासायं प्रमायया ॥ ६९ ॥ एवं भुक्तसमस्तऽपि यदा तृप्तिं न यातवान् । तदायं रेवतीं प्राह साहसं खेदवर्जिताम् ॥ ७० ॥ 20 श्रुत्वा त्वत्कीर्तिमम्बाहं सत्सम्यक्त्व समुच्छ्रिताम् । त्वदन्तिकं समायातः 'क्षुधापंपाकदर्थितः ॥ ७१ ॥ * किल यास्याम्यहं तृप्तिं भोजनेन मनस्विनि । बाढं त्वत्करदत्तेन प्रीणितोऽस्मि न साम्प्रतम् ॥ ७२ ॥ तस्मादानय मे क्षिप्रं भोजनं सरसं बहु । येनाहं तृप्तिमायामि तदेव कुरु साम्प्रतम् ॥ ७३ ॥ क्षुल्लकस्य वचः श्रुत्वा रेवती बहुविस्मया । वैमनस्यं परं त्यक्त्वा भूयोऽन्नं दातुमुद्यता ॥ ७४ ॥ भक्तं बहुविधं पूराः पूरिका घृतपूरकाः " । मण्डकाशोकवर्तिन्यो घारिकाः पूपपत्रिकाः ॥ ७५ ॥ 25 खज्जकानां तथा खारी मोदकानामपि स्फुटम् । तदा विश्रद्धया दत्तमेतत्तेन च भक्षितम् ॥ ७६ ॥ घटानां जलपूर्णानां लाक्षाकोट्यो " ह्यनेकशः । पीता जलस्य तद्दत्तास्तेन तत्क्षणमात्रतः ॥ ७७ ॥ एतदन्नं समादाय नानाभेदरसं जलम् । मायी" छर्दिर्बहिर्वृत्तिं चकारायं पुनः पुनः ॥ ७८ ॥ तद्वान्तामेध्यसंघातं दुर्गन्धामोदिताशकम् । आदाय स्वकरेणेमं बहिश्चिक्षेप रेवती ॥ ७९ ॥ रेवत्या विनयं दृष्ट्वा वैयावृत्यममूढताम् । विहाय क्षौलकं" रूपं खेटरूपं ददर्श सः ॥ ८० ॥ 30 हारराजितवक्षस्कं स्वर्णकुण्डलभासितम् । द्विजपक्किप्रभा भारसितीकृत नभस्तलम् ॥ ८१ ॥ दिव्यरूपधरं दृष्ट्वा रेवती पुरतः स्थितम् । इमं पप्रच्छ कोऽसि त्वं केन कार्येण वागतः ॥ ८२ ॥ रेवतीवचनं श्रुत्वा जगादेमां स खेचरः । विद्धि विद्याधरं मां त्वं मनोवेगं मनखिनि ॥ ८३ ॥ 1 फ एष मायासमायातो. 2 प युग्मम् फ युगलम् ज युगलमिदम्. 3फ रामाचारो. 4 फ जगामाभाव्य 5 पज क्षुलकं 6 प विवतिष्ठते. 7 प विशिषान्ते. 8 प omits ६४ and ६६, after confusing some lines. 9 [ क्षुधाकम्प ]. 10 फ interchanges ७१ and ७२. 11 फ चतुष्कलम्, पज चतुष्कलमिदम्. 12 फ घृतपूरिकाः. 13 प लक्षा, ज लक्ष्या 14 फ माया. 15 पज क्षुत्रकं 16 पज कर्ण.
5
Jain Education International
For Private & Personal Use Only
६३ ॥
www.jainelibrary.org