________________
रेवतीकथानकम् तस्यां च भव्यसेनाख्यः सूरिरस्ति महातपाः । एकादशाङ्गधारी च चातुर्वर्ण्यगणाधिपः ॥२०॥ ज्येष्ठो जीवादितत्त्वानां संशयोच्छेदकारकः । तस्येशस्य किं साधोः प्रहिणोषि न वन्दनाम् ॥२१॥ खेटस्य वचनं श्रुत्वा तमुवाच यतीश्वरः । गम्भीरभारतीनादनादिताशेषभूतलः ॥ २२ ॥ यो भव्योपपदो सेनो भवदुक्तो मदग्रतः। स धराकायिकान् जीवान् न श्रद्धत्ते विमूढधीः ॥२३॥ तन्मिथ्यात्वं भवेद् यच्च पदार्थानामरोचनम् । मिथ्यात्वमलिनो जीवो बम्भ्रमीति भवार्णवे ॥२४॥ अनेन कारणेनास्य वन्दना प्रतिवन्दना। नास्माभिः प्रहिता खेट नोक्तं स्वकुशलं ततः ॥ २५ ॥ अन्यच्च यत्त्वया पृष्टं रेवतीश्राविकाशिषम् । प्रहिणोमि न चान्येषां येन तत्कारणं शृणु ॥ २६ ॥ सम्यग्दर्शनसंपन्ना जिनोक्तमतसङ्गिनी। कुतीर्थलिङ्गिपाषण्डचरितच्युतमानसा ॥ २७॥ प्रतिपन्नो जिनो देवो मोक्षमार्गोऽप्यकिंचनः । अहिंसालक्षणो धर्मस्तपोऽपीन्द्रियनिग्रहम् ॥ २८॥ सचारित्रधरा धीराः क्षान्तिभूषितविग्रहाः । ब्रह्मचर्यसमायुक्ता गुरवो विहिता यया ॥ २९ ॥10 अनेन कारणेनार्य रेवत्याः प्रहिणोम्यहम् । आशीर्वादं न चान्येषां मिथ्यात्वमलिनात्मनाम् ॥३०॥ मुनिगुप्तस्य तद्वाक्यं परिणामसुखावहम् । आकर्ण्य ध्रुवमुत्क्षिप्य दध्यौ विद्याधरो हृदि ॥ ३१ ॥ अहो कषायबाहुल्यं मुनीनामपि जायते । येन सदृष्टिसंशुद्धा श्राविकोक्ताऽमुना परा ॥ ३२॥ समस्तागमसंवेदी महायोगी महामुनिः । एवंविधोऽपि येनोक्तो मिथ्यादृष्टिरनेन सः॥ ३३॥ तस्माद्बहुविकल्पेन किं कृतेन प्रयोजनम् । तत्परीक्षणकं शीघ्रं करोमि प्राप्य तां पुरीम् ॥ ३४ ॥ 15 जिनं स मुनिमानम्य जगामायं ततः क्रुधा । ससंभ्रमो मनोवेगः संप्राप्तस्तां पुरी क्षणात् ॥ ३५॥ ब्रह्मरूपं परं पूर्व सहसं सकमण्डलुम् । चतुर्मुखं चकारायं पूर्वस्यां दिशि मायया ॥ ३६॥ विष्णुरूपं सशङ्ख च सगदं गरुडासनम् । सचक्रं दक्षिणाशायां मायया कृतवानसौ ॥ ३७ ॥ रुद्ररूपं सखवाङ्गं कृतवासुगिशेखरम् । सवृषं पश्चिमाशायां चक्रे स निजमायया ॥ ३८॥ योगाभ्यासरतं शान्तं बुद्धरूपं सुरूपकम् । उत्तरस्यां दिशि स्पष्टं माययाऽऽशु चकार सः ॥३९॥2॥ रुद्रादिदेवसंघातं विलोक्य स्वस्वभक्तितः । माहेश्वरजनाः सर्वे जग्मुर्मुदितचेतसः॥४०॥ श्रावकाः श्राविकाश्चापि गतास्तं मन्दबुद्धयः। दृष्टा न तेन सा याता रेवती श्राविका परम् ॥४१॥ पुरमध्ये समायुक्तं प्रातिहार्यैः सहाष्टभिः । तथा तीर्थकरं चक्रे पञ्चविंशं स मायया ॥ ४२ ॥ पञ्चविंशं जिनं श्रुत्वा भव्यसेनो गणाग्रणीः । सहार्यिकागणैरायाच्छ्रावकैः श्राविकागणैः ॥४३॥ अथ स्त्रीनिकरः प्राह रेवती श्राविकामसौ । हले तीर्थकरः प्राप्तः पञ्चविंशः पुरान्तरे ॥४४॥ 25 यतिसंघार्जिका याताः श्रावकाः श्राविकास्तकम् । पुष्पादिकं समादाय भक्तिनिर्भरचेतसः ॥४५॥ पुष्पाक्षतं फलं धूपं चन्दनं दीपकं चरुम् । आदाय त्वरितं यामः सखि तद्वन्दनार्थतः ॥४६॥ रेवती श्राविका प्राह स्त्रीसंघं भक्तितत्परम् । तोषपूरितचेतस्कं तन्मुखाम्बुजवीक्षणम् ॥४७॥ गृहधर्मप्रसक्ताया गमनं मे न पूर्यते । वदन्तीमिति तां प्राहुः सख्यस्ताः स्नेहनिर्भराः ॥४८॥ एकैव पूरियं धन्या ब्रह्माद्यध्यक्षतः कलौ । तत्समये ते रुचिर्नास्ति तद्युक्तं न गता हि यत् ॥४९॥ ३० जिनदेवावतारेऽपि पापव्यापारसक्तधीः । न यासि यासि तत् शुभ्रे गदन्त्यो गन्तुमुद्यताः ॥५०॥ येऽतीता वर्तमाना वा भविष्यन्तो जिनाधिपाः । ते चतुर्विंशतिः स्पष्टं कथितं मे मुनीश्वरैः ॥५१॥
1प कुतीर्थ लिङ्ग. 2फ यथा. 3 फ चतुष्कुलकम् , पज चतुष्कुलकमिदम्. 4 फ ब्रह्मरूपपरं. 5फ सखड्वाझं. 6[वासुकि]. 7फ त्रिकलम्, पज त्रिकलमिदम्, 8फ पापे. 9 फ गदन्त्योऽन्वगदत्तु ताः. 10 फच.
बृ० को०३ Jain Education International For Private & Personal Use Only
www.jainelibrary.org