________________
20
८
25
विचिकित्सां विहायं त्वं संशयोत्पादकारिणीम् । विधाय धीरतां चित्ते विशुद्धो भव साम्प्रतम् ॥२३॥ * एवं निगद्यमानोऽपि विजयेन जयः पुनः । विषशङ्कागृहीतात्मा पञ्चत्वं प्राप्तवानसौ ॥ २४ ॥ क्रोधनीरभरापूर्णे माननक्रभयंकरे । मायासमुत्थकलोले लोभवेलाविसर्पिण ॥ २५ ॥ संसारसागरे घोरे नानायोनिसमीरणे । भ्रान्त्वा जयः प्रभुञ्जानो बहुदुःखं वितिष्ठते ॥ २६ ॥ विजयो जीवितस्तत्र विचिकित्साविवर्जितः । पूजामवाप्य भूपालान्निजं द्वीपं प्रयातवान् ॥ २७ ॥ निजद्वीपे चिरं राज्यं कृत्वाऽयं जितशात्रवम् । विहाय सकलं सङ्गं तपो जैनमशिश्रियत् ॥ २८ ॥ 10 द्रव्य-भावात्मकं हित्वा विचिकित्सां स धीरधीः । चिरं कालं तपस्तप्त्वा कनिष्ठो मोक्षमाप्तवान् ॥ २९॥ ॥ इति विचिकित्सान्वितजयनिर्विचिकित्स विजयकथानकमिदम् ॥ ६ ॥
30
हरिषेणाचार्यकृते बृहत्कथाकोशे
तथा चोक्तम्''त्वच्छासनरसज्ञानां विदुषां मोक्षकाङ्क्षिणाम् ।
विषान्नमिव भोक्तृणां श्रुतिरन्या न रोचते ॥ २२ ॥
अथ पाण्ड्यमहादेशे दक्षिणा मथुराऽभवत् । धनधान्यसमाकीर्णा जिनायतनमण्डिता ॥ १ ॥ तस्यां बभूव राजेन्द्रः प्रजापालनतत्परः । पाण्डुनामा गुणग्रामरञ्जिताशेषभूतलः ॥ २ ॥ " तद्भार्या शीलसंपन्ना रूपिणी मृदुभाषिणी । कीर्तिव्याप्तसमस्ताशा सुमतिः सुमतिर्मता ॥ ३ ॥ समस्तशास्त्रसंवेदी दिव्यज्ञानी महातपाः । आचार्यो मुनिगुप्तोऽस्यां वसति स्म गुणाम्बुधिः ॥ ४ ॥ अन्यदा कोऽपि वेगेन विद्याधरकुमारकः । आजगाम मनोवेगो दक्षिणां मथुरां पुरीम् ॥ ५ ॥ त्रिः परीत्य च भावेन जैनमुत्तममन्दिरम् । कृत्वा जिननमस्कारं सर्वदुःखविनाशनम् ॥ ६ ॥ गुरुभक्तिं विधायास्य मुनिगुप्तस्य योगिनः । अन्यानपि मुनीन्नत्वा निविष्टोऽसौ तदन्तिके ॥ ७ ॥ मुहूर्तमेकमास्थाय धर्मादिकथया सुधीः । मुनिगुप्तं जगादायं भक्तिभारनताङ्गकः ॥ ८ ॥ भगवन् गन्तुमिच्छामि श्रावस्तीं नगरीमहम् । जिनं वन्दितुमादेशं देहि मे यामि पावनीम् ॥९॥ मनोवेगवचः श्रुत्वा मुनिगुप्तो वभाण तम् । नर्तयन् शिखिनो वाचा धनकालविशङ्किनः ॥ १० ॥ श्रावस्तीं नगरीं रम्यां यदि श्रावक यास्यसि । देववृन्दनमस्यार्हान् प्रशस्तान् वन्दितुं जिनान् ॥११॥ रेवतीश्राविकार्या हि धर्मभावितचेतसः । ततो यत्नेन संदिष्टः कथय त्वं ममाशिषम् ॥ १२ ॥ मुनेर्वचनमाकर्ण्य तदा विस्मितमानसः । दध्यौ मनसि तत्रत्यः श्रावको ऽविदिताशयः ॥ १३ ॥ प्राहिणोति स्म यत्नेन रेवतीश्राविकाशिषम् । मुनीनां वन्दनान्नैष श्रावकानां न चाशिषम् ॥ १४ ॥ चिन्तयित्वा चिरं सोऽपि तत्परीक्षणकारणात् । भूयोऽपि तं मुनिं प्राह श्रावस्तीं याम्यहं पुरीम् ॥१५॥ श्रावकोक्तं समाकर्ण्य मनोवेगं जगौ मुनिः । वक्रतोपेतचेतस्कं भ्रान्तिज्ञानसमन्वितम् ॥ १६ ॥ रेवतीनामयुक्तायाः श्राविकाया मदाशिषम् । कथय त्वं जिनं नन्तुं यदि यास्यसि तां पुरीम् ॥१७॥ भूयोऽपि विस्मयं प्राप्य कोऽयं चामुं जगाद सः । भगवन् कान् गुणांस्तस्याः श्राविकाया निवेदय १८ वारत्रयं प्रपृष्टोऽपि येन तच्छ्रा विकाशिषम् । प्राहिणोषि न चान्येषां श्रावकाणां च न" प्रभो ॥ १९ ॥
-
Jain Education International
*
७. रेवतीकथानकम् ।
1 फ उक्तं च. 2 पज विहायेत्थं. 5प युग्मम्, फ युगलम् ज युगलमिदम् 10 [ नः ].
[ ६.२२
3 प भावात्मतां, ज भावात्मां. 4 फ रञ्जिताखिलभूतलः. 6फ पावना 7 पज श्रावकाया 8 प मदाशिखम् 9 ज कोपं.
For Private & Personal Use Only
www.jainelibrary.org