________________
-६. २१]
जय-विजयकथानकम् मन्नाथनन्दनावेतौ 'क्षुधापंपातिपीडितौ । भुक्तवन्तौ मुदा सार्धं तगृहे पायसादिकम् ॥ ८ ॥ निर्गत्य तट्टहादेतौ प्रविष्टौ निजमन्दिरम् । भूयोऽपि भोजनं चके कनिष्ठोऽशनलम्पटः ॥९॥ विसूचिकामृतं दृष्ट्वा तदा विषरथं सुतम् । विषधरनृपो दध्यौ चेतसीदं विचक्षणः ॥ १०॥ जीवितं जलबिम्बाभं प्रेम स्वप्नसमं नृणाम् । सम्पदोऽपि खलाः पापास्तरङ्गगतिचञ्चलाः ॥ ११ ॥ सन्ध्यारागसमा प्रीतिः सहारं रमणीजनैः । कदलीगर्भनिःसारं यौवनं च शरीरिणाम् ॥ १२ ॥ एवं संचिन्त्य बुद्धात्मा पुत्रं ज्येष्ठं यशोरथम् । स्थापयित्वा स्वराज्येऽसौ नन्दनान्तेऽगृहीत् तपः १३ कृत्वा विषरथः कालं भोजनाशक्तिकारणात् । संसारे घोरदुःखानि प्रभुञ्जानोऽवतिष्ठते ॥ १४ ॥ इतरो भोजनाकांक्षी न मृतोऽसौ यशोरथः । राज्यं जनकतः प्राप्तः शं भुञ्जानोऽवतिष्ठते ॥१५॥
इति सकाङ्क्षविषरथ-निःकाङ्क्षयशोरथकथानकमिदम् ॥५॥
६. जय-विजयकथानकम् । ततोऽस्ति भारते वास्ये श्रीमदुज्जयिनी पुरी । राजा गगनचन्द्रोऽस्यां गगनश्रीः प्रियाऽस्य च ॥१॥ लङ्काधिपसमो धीमान् सिंहलद्वीपनायकः । वयस्योऽलं बभूवास्य गगनादित्यनामकः ॥२॥ शतपत्रशरच्चन्द्रमुखी कन्दोलोचना । आसीद् गगनसूर्यस्य भार्या गगनसुन्दरी ॥३॥ जातः पुत्रस्तयोरायो जयः कृतजयः सुधीः । कनिष्ठो विजयः शूरो विजयार्जितभूतलः ॥४॥ अन्यदा गगनादित्यः सिंहलद्वीपनायकः । बलवानपि शूरोऽपि नीतः कालेन पञ्चताम् ॥ ५॥ 15 गगनादित्यमित्रस्य लोकान्तरमितस्य सः । श्रुत्वा वार्ता सशोकोऽभूच्छ्रीमदुज्जयिनीपतिः ॥ ६॥ हितैनरैः समानीतौ तत्पुत्रौ निजपत्तनम् । व्योमचन्द्रहितालापैनष्टशोको बभूवतुः ॥ ७॥ पुष्पताम्बूलकपूरकुङ्कुमैर्मलयोद्भवैः । वस्त्राभरणकैः पूजां चकार नृपतिस्तयोः ॥ ८॥ तत्प्रत्यक्षं समाहूय सूपकारं नराधिपः । आदिदेश तकं क्षिप्रं विषान्नं भोजनं कुरु ॥ ९॥ सूपकारेण तच्छीघ्रं भोजनं विविधं तदा । आनीय दत्तमताभ्यां सशकं भुक्तमत्र च ॥१०॥ अथ तो भोजनं कृत्वा सुप्तौ निशि मनोहरे । शयनीये जयः प्राह विजयं बोधमागतः ॥११॥ सरोजदण्डवजिह्वा मे काठिन्यमुपागता । वेपतेऽङ्गतरोर्बादं वाताहतमिव च्छदम् ॥ १२ ॥ जयवाक्यमुपाश्रित्य विजयोऽमुं जगौ पुनः। खरा जिह्वा न मे कस्मात् कम्पते नो वपुस्तथा ॥१३॥ विजयोक्तं निशम्यायं निजगाद जयोऽपि तम् । किं न वाक्यं श्रुतं भ्रातः सभामध्येऽस्य भूभुजः॥१४॥ विषान्नं भोजनं पथ्यं सूपकारानय द्रुतम् । विषमिश्रं यदन्नं स्यात् विषान्नं तन्मतं बुधैः ॥ १५॥ 25 अन्नं विषेण सन्मित्रं विषान्नमिति भक्षितम् । अस्माभिस्तेन जिह्वा स्यात् खरा मे वेपते वपुः ॥१६॥ निशम्य तद्वचो मूढं जगावेनं विचक्षणः । विजयो विजयोपेतो निर्भयो मतिदुर्विधम् ॥ १७॥ यद्येवं रसनं जाड्यं ते शरीरं सकम्पनम् । किं कारणं न मे ब्रूहि त्वद्भोजनसमानतः ॥१८॥ गृहीतो विपरीतोऽर्थस्त्वया मूढत्वमीयुषा । नूनं विषान्नशब्दस्य ब्रवीम्यर्थं तव प्रभो ॥ १९ ॥ विशिष्टमन्नमत्युद्धं नानारससमन्वितम् । विषान्नं शोभनाहारं निगदन्ति मनीषिणः ॥ २० ॥ 30 कान्ति पुष्टिं बलं वीर्यं विदधाति शरीरिणाम् । विषान्नभोजनं भुक्तं तदस्माभिरशङ्कितम् ॥२१॥
1 [क्षुधाकम्पा ]. 2 फ निर्गतो. 3 पफ चतुष्कुलकम् , ज चतुष्कुलकमिदम्. 4 फज पुत्रस्तरोराख्यो. 5फ विषयार्जित. 6फ विजयोपेतं. 7 फज मत्युद्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org