________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[४. ४९संशयग्रहसंग्राहवेपिताखिलविग्रहः । जिनदासोदितं मूढो मन्दभाग्यः करोति नो ॥ ४९ ॥ इति संचिन्त्य बुद्धात्मा गृहं प्रति विसृज्य तम् । तदुक्तं सर्वमादाय चारुरोह स सिक्ककम् ॥५०॥' खप्रयोजनहानित्वान्म्लानवसरोरुहः । आरक्षकैः समं सोऽपि सोमदत्तो गृहं ययौ ॥५१॥ अथ सिद्धस्तुतिं कृत्वा नत्वा पञ्चाईदादिकान् । चिच्छेद सिक्ककं चौरः सपादं क्षुरिकाहतेः ॥५२॥ 5 सपादसिक्कसंछेदाद् गगनस्थितविग्रहः । पश्चान्मेरुमसौ प्रापद् विद्युच्चौरो विहायसा ॥ ५३॥
नन्दने सौमनस्येऽपि भद्रशालवने वने । पाण्डुकाख्ये स चैत्यानि वन्दित्वोपशमं गतः ॥ ५४॥ सिद्धकूटेऽपि वन्दित्वा जिनार्चाः प्रीतिमाप्नुवत् । समं मुनिभिरद्राक्षीजिनदासं स तस्करः॥५५॥ त्रिः परीत्य स भावेन जिनदासं प्रणम्य च । विद्या भवत्प्रसादेन सिद्धा मे वरगामिनी ॥ ५६॥ जिनदासोऽप्यमुं दृष्ट्वा विकसन्मुखपङ्कजम् । दध्यौ हृदि विषण्णात्मा कृष्णीभूतमुखाम्बुजः ॥५७॥ 10 सुवर्ण-मणि-चैत्यानि तद्विम्बानि वराणि च । हरिष्यति न सन्देहस्तस्करो धनलम्पटः ॥ ५८॥ चिन्तयित्वा चिरं सोऽपि पप्रच्छेमं पुरःस्थितम् । वितीर्णा केन ते विद्या ब्रूहि मे व्योमगामिनी ॥५९॥ निशम्य भारतीमस्य म्लानवक्त्रस्य तस्करः । जगादैनं विशुद्धात्मा ललाटन्यस्तपाणिकः ॥ ६०॥ सोमदत्तेन मे विद्या दत्ता चञ्चलचेतसा । बहुना किं विकल्पेन मुनिर्विज्ञाप्यतामरम् ॥ ६१॥
श्रुत्वा तद्वचनं धीरं तोषपूरितमानसः । जिनदासो मुनि प्राह नीत्वामुं मुनिसंनिधिम् ॥ ६२ ॥ Is मगवन् भव्यसिंहाय धर्मयुक्ताय पावनीम् । दीक्षां दैगम्बरीं चास्मै दीयतां कर्मनाशिनीम् ॥ ६३॥ जिनदासवचः श्रुत्वा धर्मविन्यस्तचेतसम् । जगाद मुनिरप्येनं शिरोनिहितपाणिकम् ॥ ६४ ॥ धन्योऽसि कृतकृत्योऽसि मतिमानसि साम्प्रतम् । येनेशी तपोबुद्धिर्जाता ते नवयौवने ॥६५॥" मुनिवाक्यं समाकर्ण्य संसारोदधितारणम् । जगाद योगिनं वीरं जानुस्पृष्टमहीतलः ॥ ६६ ॥
संसारकूपसंपातहस्तालम्बनधारिणीम् । देहि दीक्षां विभो मह्यं कर्मविच्छेदकारिणीम् ॥ ६७ ॥ 20 अनायुषोऽस्य भव्यस्य श्रुत्वा वचनमुत्तमम् । ददौ दैगम्बरी दीक्षां हतयेऽखिलकर्मणाम् ॥ ६८॥ विद्युच्चौरश्चिरं तप्त्वा तपः कर्मविनाशनम् । विधिना मृतिमासाद्य बभूव विबुधो महान् ॥ ६९ ॥ शङ्कान्वितस्य विप्रस्य न विद्या सिद्धिमागता । विद्युच्चौरेण सा क्षिप्रं शङ्काहीनेन साधिता ॥ ७० ॥
॥ इति शङ्कितसोमदत्तनिःशङ्कितविद्युचौरकथानकम् ॥ ४ ॥
५. विषरथ-यशोरथकथानकम् । 25 अस्त्यत्र भरतक्षेत्रे जम्बूद्वीपस्य दक्षिणे । अवन्तीविषयः ख्यातो धनधान्यवधूजनैः॥१॥
अस्ति देशेऽत्र पू रम्या रमणीरामणैः कुलैः । रूपसौभाग्यसंपन्नैनूनमुज्जयिनी शुभा ॥२॥ बभूवापि पतिस्तस्यां गुणरञ्जितभूतलः । दोर्दण्डखड्गसंपातखण्डितारिर्विषंधरः ॥३॥ नृपस्यास्याभवद् भार्या कन्दोट्टदललोचना । उत्तप्तकाञ्चनच्छाया मालान्ता कनकादिका ॥ ४ ॥ जातौ पुत्रौ तयोः कान्तौ भुवनानन्दकारिणौ । यशोरथो यशोराशिस्तथा विषरथोऽपरः ॥५॥ 30 क्रीडन्तौ निर्भरं तौ च वनेषु च नदीषु च । पुलिनेष्वपि रम्येषु समं पुष्पोच्चयादिभिः ॥६॥ अन्यदा गोकुलं यातौ जनकस्य तकौ वरम् । दृष्टौ गोकुलनाथेन नीतौ निजगृहं मुदा ॥ ७॥
1 पफज कुलकम्. 2 फज आरक्षिकैः. 3 फ क्षुरिकाहते. 4 पज मानवान्. 5 पज जैनदासं वचः. 6 पफ युग्मम्, ज युगलमिदम्. 7 फरमणैः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org