________________
-४. ४८ ]
सोमदत्त-विद्युच्चौर कथानकम्
३० ॥
सोमदत्तवचः श्रुत्वा जिनदासोऽवदत् तकम् । पुत्र देवेन सा विद्या दत्ता मे पाठसिद्धिदा ॥ १७ ॥ अन्येषां हीनशक्तीनां दुस्साध्या जायते सका । तेन त्वं जिनबिम्बानि स्तुत्वेह तानि तिष्ठ भो ॥१८॥ तेन भूयोऽपि संपृष्टो जिनदासः पटीयसा । कथं दुःसाध्यतां याता विद्या जनक मे वद ॥ १९ ॥ धर्मपुत्रवचः श्रुत्वा जिनदासो जगावमुम् । विनयाचारसंपन्नं जिनभक्तिपरायणम् ॥ २० प्रथमं षष्ठमादाय विहितेन्द्रियनिग्रहः । शुचिः कृष्णचतुर्दश्यां श्मशानं व्रज निर्भयः ॥ २१ ॥ तदन्तःस्थमहातुङ्गमहीधरशिरस्थितम् । शाखाछादितदिग्भागं वटवृक्षं निरूपय ॥ २२ ॥ अष्टोत्तरशतप्रान्तपादनिर्मितसिक्ककम् । तद्वटोपरिशाखायां प्रात्तं कृत्यधनं हि तत् ॥ २३ ॥ सिक्काधःप्रासकुन्तेषु छुरिकाद्यायुधानि च । कर्तव्यान्यूर्ध्ववक्राणि तीक्ष्णधाराणि तान्यलम् ॥ २४ ॥ कर्तव्यं पुरतस्तस्य त्वया विद्यासमाप्तये । गन्धाक्षतोद्गमहविर्दीपधूपफलादिकम् ॥ २५ ॥ खड्गधेनुं समादाय तीक्ष्णधारां समुज्वलाम् । नमः सिद्धेभ्य इत्युक्तत्वा समारोहय सिक्ककम् ||२६|| " जिन-सिद्ध-गणाधीश-पाठकेभ्यस्त्रिधा नमः । साधुभ्योऽपि नमस्कृत्वा छिन्द्धि तत्पादमेककम् ॥२७॥ एवं क्रमेण चोच्चार्य तत्पदानां कदम्बके । करवाल्या समुच्छिन्ने खेगमस्ते भविष्यति ॥ २८ ॥ विद्योपदेशमावेद्य सोमदत्तस्य धीमतः । जिनदासो विशुद्धात्मा जोषमादाय तस्थिवान् ॥ २९ ॥ धर्मपुत्रोऽपि तत्सम्यक् जिनदासनिवेदितम् । तोषपूरितचेतस्को जग्राह कृततन्नुतिः ॥ अन्येद्युः सोमदत्तोऽपि वटे पूर्वनिरूपिते । बबन्ध सिक्ककं हृष्टो जिनदासोपदेशतः ॥ ३१ ॥ is अधःकृत्वायुधान्यस्य चोर्ध्ववक्राणि वन्दनम् । दत्त्वा पुष्पप्रदीपादीनारुरोह तकं सकः ॥ ३२ ॥ यावदालोकते' भूमिं खड्गधारातिभीषणम् । तत्रस्थस्तावदेषोऽभूत् सभयः क्षुरिकाकरः ॥ ३३ ॥ सिक्ककस्य यदि च्छेदं करवाल्या करोम्यधः । ततः पताम्यहं क्षिप्रमायुधोपरि निश्चितम् ॥ आयुधोपरि संपाते नियतं मरणं मम | विद्या यास्यति किं सिद्धिं न वा चकितचेतसः ॥ ३५ ॥ एवं संचिन्त्य भीतात्मा सिक्कादुत्ततार सः । आरुरोह तदेवाशु व्याकुलीभूतमानसः ॥ ३६ ॥ 20 अत्रान्तरेऽन्तरालस्थो विद्युच्चौरो विलोक्य तम् । वभाण भासुराकारः सिक्ककावनिसंस्थितम् ॥३७॥ किमिदं कर्तुमारब्धं वटवृक्षे त्वया द्विज । समस्तं ब्रूहि वृत्तान्तं मम विस्मयकारणम् ॥ ३८ ॥ विद्युच्चौरवचः श्रुत्वा सोमदत्तोऽब्रवीत्तकम् । आकाशगामिनी विद्या मयाऽऽराधयितुं श्रिता ॥ ३९ ॥ अर्हत्सिद्धादिसन्मन्त्रं पठित्वा त्रिगुणीकृतम् । सिक्ककस्यैकपादो हि खड्गधेन्वा निकृत्यते ॥ ४० ॥ तत्पादेषु च सर्वेषु नूनं छिन्नेष्वनुक्रमात् । "धरामप्राप्य वेगेन गमनं दिवि जायते ॥ ४१ ॥ 25 अहं संशयमापन्नस्तिष्ठामि विजने वने । संशयं कुर्वतां पुंसां न किंचित् सफलं भवेत् ॥ ४२ ॥ निशम्य सोमदत्तस्य वचनं भीरुतावहम् । विद्युच्चौरोऽपि तं प्राह तद्विद्याग्रहणेच्छया ॥ ४३ ॥ विद्येयं केन ते दत्ता सच्चिदानन्ददायिनी' । ' त्वत्पक्षपातयुक्तेन कथयाशु मम द्विज ॥ ४४ ॥ विद्युच्चौरवचः श्रुत्वा सोमदत्तोऽप्यमुं जगौ । जिनदासेन मे दत्ता विद्या गगनगामिनी ॥ ४५ ॥ भणितं सोमदत्तस्य भयविह्वलचेतसः । विद्युच्चौरः समाकर्ण्य दध्यौ मनसि धीरधीः ॥ ४६ ॥ 30 जिनदासो दयायुक्तो जिनशासनभावितः। न चिन्तयति यो दुःखं कीटिकाया विशुद्धधीः ॥४७॥ स्वहस्तपोषितं विप्रं धर्मपुत्रं जनप्रियम् । पञ्चेन्द्रिययुतं चित्रं किं स हन्ति दयार्द्रधीः ॥ ४८ ॥
३४ ॥
1 फ विहते. 2 फ गन्धा..... । कर्तव्यं 5 फ कारिणं. 6 पज धारा 7 फज सच्चित्ता
Jain Education International
॥ २५ ॥ 3 प यावदालोक्यते 4 फ तावदेको. 8 फ तत्पक्ष.
For Private & Personal Use Only
www.jainelibrary.org