________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[३. ३२दत्तासनं समाविष्टाः कृतसन्मानसत्क्रियाः । प्रोचुः ससंभ्रमं सर्वाः युगपत्तां मृदूदितैः ॥ ३२॥ हले त्वदीयकान्तेन व लब्धं धनमुत्तमम् । अक्षदृष्टिरपि स्पष्टं कथयैतत् सखि द्रुतम् ॥ ३३॥ आकर्ण्य तद्वचः साऽपि हसित्वा प्रीतमानसा । सत्यं वक्तुं समारेभे तत् प्रत्यक्षं सकौतुकम् ॥३४॥ तिरस्कृतो मया कान्तः कठोरैदृढभाषितैः । श्रुत्वा मद्वचनं सोऽपि निर्गतोऽशक्नुवन् गृहात् ॥३५॥ ललाटं वृक्षमूलेन भिन्नमस्य प्रधावतः । तद्रक्तनिर्गमादस्य दृष्टिर्जाता धनं तथा ॥३६॥ सोमिल्लावाक्यमाकर्ण्य लब्धद्रव्यसमागमाः । स्खं स्वं निकेतनं यातास्तका मुदितचेतसः ॥ ३७॥ विष्णुदत्तस्य वृत्तान्तं कथयित्वा तदग्रतः । स्वस्वकान्तान् परिप्राप्य प्रोचुः स्वस्वप्रियास्तदा ॥३८॥ निशम्यात्मात्मभार्योक्तं सर्वे दुःखितमानसाः । धावन्ति स्म त्वरावन्तो धनलोचनतृष्णया ॥३९॥
केचित् पतन्ति कूपेषु केचित् सरसि दुःखिताः । केचिन्नदीषु वापीषु केचित्पुष्करणीषु च ॥४०॥ 10 तरूपलासमाघातचूर्णिताखिलविग्रहाः । रौद्रार्तध्यानिनः पापाः सर्वे मरणमाययुः ॥४१॥
केचित् श्वभ्रगति भीमा केचित्तिर्यग्गतिं खलाः । प्रधावन्तोऽधिकस्थानं स्वपदाद् भ्रंशमागताः ॥४२॥ विष्णुदत्तेन चेल्लब्धो धन-दृष्टिसमागमः । ततोऽन्यैर्मृतिमासाद्य प्राप्ता दुःखपरंपराः ॥४३॥ तस्मात् पुण्यसमुत्थानां प्राणिनां जगति ध्रुवम् । पापपुञ्जप्रजातानां न समानं प्रयोजनम् ॥४४॥
॥ इति विष्णुदत्तगर्तनिधिदृष्टिलाभकथानकमिदम् ॥ ३॥
४. सोमदत्त-विद्युच्चौरकथानकम् । अथास्ति मगधे देशे राजपूर्वगृहं पुरम् । धनधान्यसमाकीर्णं पौरलोकसमावृतम् ॥१॥ तत्र राजा प्रजापालो निहताशेषशात्रवः । कीर्तिशुभ्रीकृताशेषगगनावनिमण्डलः ॥२॥ प्रजापालनशक्तस्य गुणसन्ततिवारिधेः । तस्य भार्या महादेवी कनका कनकोज्वला ॥३॥ तत्रैव नगरे श्रेष्ठी जिनदासो महाधनः । जिनपूजाविधानज्ञो जिनधर्मरतोऽभवत् ॥४॥ 20 जिनदत्ता प्रिया तस्य जिनभक्तिपरायणा । रूपशीलकुलोपेता बभूव कलभाषिणी ॥५॥
अथारणाच्युतो देवो धन्वन्तरिचरः स्वकाम् । पाठसिद्धिं ददावस्मै जिनदासाय सादरम् ॥६॥ अन्येषां शक्तिहीनानां बाल-वृद्ध-युवेशिनाम् । साधिता सिद्धिमायाति विद्या जनितविस्मया ॥७॥ आकाशगामिमत्रेण कृत्रिमाकृत्रिमाणि सः । जिनबिम्बानि वन्दित्वा पुनरेति पुरं निजम् ॥ ८॥ अन्यदा सोमदत्तेन सोमिल्लावल्लभेन च । धर्मपुत्रेण पुष्टेन ग्रामवस्त्रविभूषणैः ॥९॥ 25 जिनदासः परं पृष्टः कौतुकेन गरीयसा । अष्टम्यां च चतुर्दश्यां तात यासि क मे वद ॥१०॥
श्रुत्वा तद्वचनं श्रेष्ठी जगादेमं सकौतुकम् । स्नेहनिर्भरचेतस्कं विनयानतविग्रहम् ॥ ११ ॥ यावन्ति जिनचैत्यानि कृत्रिमाकृत्रिमाण्यपि । तावन्ति तानि वन्दित्वा मणिवर्णमयानि वै ॥१२॥ मेरौ नमेरुशोभाहें मित्रमत्रप्रयोगतः । आकाशगमनेनारमागच्छामि पुरं पुनः ॥ १३ ॥ जिनदासवचः श्रुत्वा हृदयानन्दकारणम् । भूयोऽपि तं जगादायं विस्मयव्याप्तमानसः ॥१४॥ " तात तावदिमां विद्यामाकाशगमने क्षमाम् । देहि मे येव गच्छावो मन्दरं जिनमन्दिरम् ॥१५॥ कृत्रिमाकृत्रिमाण्याशु जिनबिम्बानि भक्तितः। वन्दित्वान्यान् मुनीनूनमागच्छावो विहायसा॥१६॥
1फ यथासनं. 2 पज शकस्वगृहात्. 3फ शुभ्रकृता. 4 फ भवेत्. 5 पफ युग्मम् , ज युगलमिदम्, 6फगमनेनारामा'. 7 पफज त्रिकलमिदम्. 8 फकारिणम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org