________________
-३. ३१]
विष्णुदत्तकथानकम्
३. विष्णुदत्तकथानकम् । अथ जम्बूमति द्वीपे क्षेत्रे भरतनामनि । अवन्तीविषयः सारो विद्यते जनसंकुलः ॥१॥ जिनायतनसाणूरसौधापणविराजिता । तत्रास्ति कृतिसंवासा श्रीमदुजयिनी पुरी ॥२॥ दुःखितानां दरिद्राणां नित्ययाचितकारिणाम् । अन्धलानां बभूवास्यां पाटको दीनचेतसाम् ॥३॥ तन्मध्ये विष्णुदत्तोऽभूदन्धलो धनवर्जितः । तजाया सोमिला नाम खरनादनिनादिनी ॥४॥ हृदयं मस्तकं हत्वा करस्थकठिनोपलैः । हट्टमध्ये तथा दन्तैर्विधृत्य तृणपूलिकाम् ॥५॥ गीतैर्मनोहरैर्लोकं रञ्जयन् विष्णुदत्तकः । कुटुम्बपोषणं चके क्लेशेनातिगरीयसा ॥६॥ ततोऽन्येधुरयं विप्रः शिरोवेदनयाऽर्दितः । स्थितो निजगृहे भूमौ पतित्वा क्लान्तविग्रहः ॥७॥ यावदास्ते द्विजो दुःखी पतितः स्वकुटीरके । तावदागत्य तद्भार्या पादेनाहत्य तं जगौ ॥ ८॥ रेरे निष्कम्प निर्लज्ज स्वकीयोदरपूरण । किमानयसि नाद्यापि द्रुतं मे शिशुभोजनम् ॥ ९॥॥ तस्मादाहारमानेतुं याहि खेदमचिन्तयन् । न हि सन्तो मनोदुःखं कुर्वते सुतपोषणे ॥ १० ॥ भार्यावचनमाकर्ण्य पूतनावाक्यसंनिभम् । जगाद निष्ठुरस्वान्तां विष्णुदत्तः स्वसुन्दरीम् ॥११॥ भार्या मनोरमा पुत्रों दुहिता मणिकाञ्चनम् । धनं धान्यादिकं सर्व वल्लभं सति विग्रहे ॥ १२॥ शिरःस्थवेदनासङ्गविह्वलीभूतमानसः । न दातुं पदमप्येकं शक्नोमि दयिते स्वतः ॥१३॥ विष्णुदत्तवचः श्रुत्वा सोमिल्लेमं जगौ पुनः । भोजनार्थं त्वयाऽवश्यं गन्तव्यं दुःखितेन च ॥१४॥ 15 सुतमादाय हस्तेन मरणे कृतनिश्चयः । कान्तावचनतो विप्रो नगरीतो विनिर्ययौ ॥१५॥ गृहं प्रति सुतं मुक्त्वा विष्णुदत्तोऽतिदुःखितः । ललाटे तरुजालेन धावन् विद्धोऽपतद् भुवि ॥१६॥ ललाटवणनिर्यातरक्तारुणिततत्क्षमः । पश्यति स्म स संप्राप्य चेतनां सधनं कुटम् ॥१७॥ कुम्भ रत्नभृतं दृष्ट्वा सन्तोषपुलकाञ्चितः । स्वप्नो वा संशयो वायं सत्यमेवावबुध्य सः॥१८॥ उत्थातुमसहो यावत् किं करोमीति चिन्तयन् । आस्ते तावञ्च सा भार्या तमुद्देशं तदीयिका ॥१९॥ 20 अन्वेषयन्ती संप्रापदुत्थापयितुमानसा । हन्ति पादेन यावत्तं तावदुक्तं द्विजन्मना ॥२०॥ निधिलाभेन मे दृष्टिरित्युत्थाप्यानुनीय च । आनयस्व गृहं शीघ्रमित्युक्त्वा सा गृहं ययौ ॥२१॥ क्लेशेनाथ समुत्क्षिप्य निजपुण्यं विचिन्तयन् । विप्रः शीघ्रं तमादाय सदृष्टिः स्वगृहं ययौ ॥२२॥ विलोक्य दधतं कुम्भं सधनं दयितं प्रिया । तत्सन्मुखमभीयाय तदानीं विकसन्मुखी ॥ २३ ॥ तन्मस्तकात् समादय तं कुटं निजपाणिना । मुमोच खकुटीकोणे संगुप्तं हृष्टमानसा ॥ २४ ॥ 25 तस्यासनं प्रदायाशु पादौ प्रक्षाल्य वारिणा । भोजनं विधिना दत्त्वा पप्रच्छेमं धनागमम् ॥२५॥ यथा खुण्टेन संभिन्नो दृष्टिलाभो धनागमः । तथा निशम्य तद्वाक्यं तस्याः सर्वं निवेदितम् ॥२६॥ श्रुत्वा तद्वचनं हृष्टा सुखसागरमध्यगा । सोमिल्ला विष्णुदत्तेन समं तस्थौ प्रियंवदा ॥ २७॥ एकदाऽन्धाः परीवारयुक्ताः सर्वे निमत्रिताः । भोजिताः पायसान्नाद्यैर्यथेष्टं तोषमागताः ॥ २८॥ अथ तौ दम्पती तत्र वस्त्राभरणभूषितौ । पुष्प-ताम्बूलशोभाढ्यौ हय-गोमहिषीवृतौ ॥ २९॥ 30 विस्मयव्याप्तचेतस्काः पाटकान्धलयोषितः । चिन्तयन्ति स्म तत्पुण्यभाषणासक्तमानसाः ॥३०॥ खकीयनादसन्तानपूरिताकाशभूतलाः । धनतृष्णापरिग्रस्ताः सोमिल्लां ताः समाययुः ॥ ३१॥
1प युग्मम् , फ युगलम् , ज युगलमिदम्. 2 प खेदमचिन्तयत्. 3 पज पुत्रा. 4 फ पदमेकं तु. 5फ दयितेमुतः. 6फ सत्यमेव विबुध्य, ज सत्यमेवं वबुध्य. 7 पफ युग्मम् , ज युगलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org