________________
5
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ १.१७
अन्यदा तत्सभामध्ये केनचिज्जल्पितं स्फुटम् । जितशत्रोः परः शूरो न भूतो न भविष्यति ॥ १७ ॥ निशम्य तद्वचः प्रौढं जिनदत्तो जगावमुम् । म्लेच्छपराजये काऽस्य शूरता वर्णिता मया ॥ १८ ॥ क्रोधं मानं मदं मायां लोभं कामं च येऽनिशम् । परीषहचमूं घोरां सामान्यजनदुर्जयाम् ॥१९॥ पुण्यवन्तो महासत्त्वा गुणिनो विमलाशयाः । निराकुर्वन्ति ते शूरा मुनयः स्वहितैषिणः ॥ २० ॥ जिनदत्तवचः श्रुत्वा महावैराग्यसङ्गतः । श्रीधराख्यमुनेः पार्श्वे सूरदत्तोऽग्रहीत् तपः ॥ २१ ॥ यथा राजकुमारेण कुशलेन क्रियाविधौ । युद्धे जयध्वजः प्राप्तस्तपोऽपि परमं पदम् ॥ २२ ॥ साधुनाऽपि तथा त्वर्थं नूनं स्वहितमिच्छता । मतिः सदाऽतितोषेण कर्तव्याऽऽराधनाध्वजे ॥२३॥ ॥ इति राजकुमाराख्यानकमिदम् ॥ १ ॥
२. सोमशर्मकथानकम् ।
• अथास्ति भरतक्षेत्रे मथुरा नगरी पुरा । हिमवत्कूटसंकाशजिनायतनमण्डिता ॥ १ ॥ चारित्राचारसंपन्नो गुणशीलमहोदधिः । आचार्यो नन्दिमित्राख्यो मथुरायां वसत्यसौ ॥ २ ॥ अत्रान्तरे द्विजो मानी देशान्ताद् वागडादिकात् । सोमशर्मा जगामेमां पुरीं गोधनसंकुलाम् ॥ ३ ॥ प्रविश्य मन्दिरं जैनं दृष्ट्वाऽऽचार्यं प्रशान्तधीः । दीक्षां दैगम्बरीं सोऽपि नन्दिमित्रान्तिकेऽग्रहीत् ॥४॥ विशुद्धबोधदेहेन सूरिणा संपरीक्ष्य वै । यथा निर्वर्ण्यते दीक्षामिति दत्ता महात्मना ॥ ५ ॥ आचार्येण पुनस्तस्य लिखिता 'मातृकादरात् । पाठितोऽपि 'नमः सिद्धं' पदं नैति परिस्फुटम् ॥६॥ मातृकाक्षरमप्येकं यस्य नैति कथं तपः । करिष्यति स्फुटं साधुः सूरिणाऽयं तिरस्कृतः ॥ ७ ॥ आचार्यस्य वचः श्रुत्वा निष्ठुरं देहनिःस्पृहः । मरणस्थितचेतस्कः सोमशर्माऽभवन्मुनिः ॥ ८ ॥ अन्यमाचार्यमासाद्य पप्रच्छायं विशुद्धधीः । उत्कृष्टमरणोपायं पवित्रं कथयाशु मे ॥ ९ ॥ आकर्ण्य तद्वचस्सारं सूरिरागमकोविदः । तदुपायं जगादेति तस्य निर्मलचेतनः ॥ १० ॥
15
चतुर्धाऽऽराधनाशुद्धिं चतुर्धाऽऽहारमोचनम् । कृत्वा प्राचीमुखो भूत्वा वोदीची " सन्मुखोऽपि वा ११ स्थित्वा पर्यङ्कयोगेन कायोत्सर्गेण वा स्थिरः । चन्द्रप्रभजिनार्चायाः स्मर त्वं सुसमाहितः ॥ १२ ॥ आदाय तद्वचो जैनं मन्दिरं त्रिः परीत्य च । नत्वा जिनमसौ साधुं मथुरातो वनं ययौ ॥ १३ ॥ पृथुप्रांशुशिलापट्टे वटवृक्षतरोरधः । गिरीन्द्रनिश्चलो योगी कायोत्सर्गेण तस्थिवान् ॥ १४ ॥ शरीराहारमुत्सृज्य यावज्जीवं विशुद्धधीः । चन्द्रप्रभं जिनं कृत्वा हृदयेऽनूनसत्त्वकः ॥ १५ ॥ 25 आराधनां समाराध्य विधिना स चतुर्विधाम् | दिनद्वयगतायुष्को जातो देवो महर्द्धिकः ॥ १६ ॥ पूर्वाभावितयोगेनाराधिताऽऽराधना यदि । सोमशर्माभिधानेन प्रमाणं तन्न सर्वथा ॥ १७ ॥
॥ इति पूर्वाभावितयोगसोमशर्मकथानकम् ॥ २॥
*
20
1 फज नरदुर्जयाम् 2 फ युग्मम्, पज युगलमिदम् 3 ज परां 6 पफ युग्मम् ज युगलमिदम्. 7 [ साधुः ]. 8फ निप्रोधाख्यतरो
For Private & Personal Use Only
Jain Education International
4 फ चोदीची 5 फ स्थिरत्वं. 9 प प्रणामं.
www.jainelibrary.org