________________
॥ श्रीवीतरागाय नमः॥ श्री-हरिषेणाचार्य-कृतं
बृहत्कथाकोशम्
___ <>*02k-Sश्रियं परां प्राप्तमनन्तबोधं मुनीन्द्रदेवेन्द्रनरेन्द्रवन्धम् । निरस्तकन्दर्पगजेन्द्रदएँ नमाम्यहं वीरजिनं पवित्रम् ॥१॥
विघ्नो न जायते नूनं न क्षुद्रामरलङ्घनम् ।
न भयं भव्यसत्त्वानां जिनमङ्गलकारिणाम् ॥२॥ जनस्य सर्वस्य कृतानुरागं विपश्चितां कर्णरसायनं च । समासतः साधुमनोऽभिरामं परं कथाकोशमहं प्रवक्ष्ये ॥३॥
१. राजकुमारकथानकम् । अथ भद्रपुरे राजा जिनचन्द्रोऽभवत् प्रभुः । प्रतापसाधितारातिः सत्यत्यागसमन्वितः ॥१॥ . बभूवास्य नरेन्द्रस्य जिनदत्ता मनःप्रिया। तथा जिनमतिस्तन्वी चावीं जिनमतिः प्रिया ॥२॥ सुषुवे जिनदत्ताऽमुं सूरदत्ताभिधं सुतम् । शूरं धीरं महासत्त्वं शास्त्रशिक्षादिकोविदम् ॥३॥ जिनमत्यां महादेव्यां जिनदत्तोऽभवत् सुतः । गजाश्वादिक्रियादक्षो भोगदुर्ललिताङ्गकः ॥४॥ भूपतेर्जिनचन्द्रस्य याति यावदनेहसि । सुखेन तावदागत्य रुद्धं भद्रपुरं परैः ॥ ५॥ दृष्ट्वा निजपुरं रुद्धं म्लेच्छैर्निष्ठुरमानसैः । जिनदत्तं सुतं राजा प्रजिघाय तदन्तिकम् ॥ ६ ॥ ततः क्षणादसौ म्लेच्छैर्निर्जितो हतसैनिकः । रणात् पलायनं कृत्वा प्रविवेश निजं पुरम् ॥ ७॥ जिनदत्तं पुरो वीक्ष्य म्लानवाम्बुजश्रियम् । चिन्तापिशाचिकाग्रस्तो जिनचन्द्रो बभूव सः ॥ ८॥ विलोक्य पितरं त्वेष सूरदत्तो जगावमुम् । तात देहि ममादेशं याम्यहं म्लेच्छकान् प्रति ॥ ९॥ एवमस्त्विति संभाष्य जिनचन्द्रं मुमोच तम् । सूरदत्तं महानादनादिताशेषपुष्करम् ॥ १०॥ ० तत्समीपं पुनः प्राप्य सूरदत्तो जगाद तान् । रेरे खला दुराचारास्तिष्ठताग्रे ममाधुना ॥ ११॥ श्रुत्वा तं दुर्धरं वीरं वेष्टयित्वा च तं खलाः । स्वसैन्यसमुदायेन सर्वतस्तेऽवतस्थिरे ॥ १२ ॥ निर्जित्य तद्बलं युद्धे खड्गधाराप्रहारतः । विवेश पत्तनं शूरः पताकावलिराजितम् ॥१३॥ शत्रुर्जितो यतोऽनेन जितशत्रुरितीरितः । पुत्रो जयश्रिया सेव्यो भूभुजा तोषमीयुषा ॥ १४ ॥ अभिषेकं विधायासौ भूपतिर्भूपसाक्षिकम् । जलकुम्भैर्घटैः स्वर्णैर्युवराजपदं ददौ ॥ १५॥ ५ सर्वकालं पुरे ग्रामे देशेऽपि जनवाक्यतः । जितशत्रुकथा रम्या 'श्रूयते सर्वजन्तुभिः ॥१६॥
____ 1 पॐ नमो वीतरागाय, फ ॐ नमो विघ्नच्छिदे, ज ॐ नमो वीतरागाय. 2 प जिनस्य. 3 फ जनमति. 4 पज सूरं. 5 फ दुर्लडिताङ्गकः. 6 प जिनवाक्यतः, फ जन्मवाक्यतः 7 फज स्तूयते.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org