________________
श्रेणिकनृपकथानकम्
९. श्रेणिकनृपकथानकम् ।
१ ॥
२ ॥
३ ॥
६
१० ॥
१५ ॥
अथास्ति मगधे देशे नगरं बहुभूतिकम् । धनदस्येव शोभाढ्यं तद्राजोपपदं गृहम् ॥ सम्यग्दर्शनसंपन्नः प्रतापाक्रान्तशात्रवः । राजपूर्वगृहं राजा श्रेणिकः पाति शुद्धधीः ॥ रूपयौवनसंपन्ना नीलोत्पलदलाक्षिका । सुदृष्टिस्तस्य भार्याऽऽसच्चेलना नाम विश्रुता ॥ अन्यदाऽऽस्ते सुराधीशो देवमध्ये सुरप्रियः । सद्रञ्जनकथासक्तः स्वर्गे सौधर्मनामनि ॥ ४ ॥ " मर्त्यलोके समस्तेऽपि श्रेणिकादपरस्य च । सम्यक्त्वं क्षायिकं नास्ति सुरेन्द्रेणेति भाषितम् ॥ ५ ॥ पुरन्दरवचः श्रुत्वा सत्सम्यक्त्वप्रशंसनम् । श्रेणिकस्य पुरं प्राप कोऽपि देवोऽत्यसूयकः ॥ मुनिरूपं समादाय तत्पत्तनसरोवरे । बृहज्जालकलापेन जग्राह शफरानयम् ॥ ७॥ अत्रान्तरे महाराजः श्रेणिक चतुरङ्गया । सेनया सहितो द्रष्टुं सरोवरमगात् पुरः ॥ ८ ॥ स्तोकान्तरमतिक्रम्य यावद्वजति भूपतिः । तावत्सरोवराभ्याशे संयतं पश्यति स्म सः ॥ ९ ॥ " आदाय मीनसंघातं करेणानायतः' स्थले । पिटके निक्षिपन्तं तं रोमाञ्चार्चितविग्रहम् ॥ दूराद्विलोक्य तं राजा हस्तिनो मदशालिनः । उत्ततार महाभक्त्या जिनाज्ञापालनोद्यतः ॥ ११ ॥ त्रिः परीत्य च तं भक्त्या ललाटन्यस्तपाणिकः । ववन्दे हृष्टचित्तोऽसौ जानुस्पृष्टमहीतलः ॥ १२ ॥ raiser पुरः स्थित्वा विनयानतविग्रहः । जगाद तं मुनिं वीरो धीरगम्भीरया गिरा ॥ १३ ॥ सतामनेन लिङ्गेन मोक्षमार्गप्रवर्तिना । न मीनहिंसनं कर्तुं युक्तं संसृतिवर्धनम् ॥ १४ ॥ मम त्वं प्रेक्षणं देहि मत्स्यबन्धनकारणे । पिटके खेन मुञ्चामि साधो त्वं दूरतो भव ॥ श्रेणिकस्य वचः श्रुत्वा किंचिन्नोवाच संयतः । जालं समर्पयामास भूपेन्द्रस्य कुतूहलात् ॥ राजा सरोवरे यावज्जालं क्षिपति शुद्धधीः । तावन्निवार्य तं प्राह विरतो हृदि विस्मितः ॥ शफरैरपरै राजन् न किंचिन्मे प्रयोजनम् | उत्तिष्ठ स्वगृहं याहि जिनशासनभावितः ॥ १८ ॥ राजाऽन्यस्य करे कृत्वा जालं मीनकदम्बकम् । तद्वाक्यतः समं तेन विवेश निजमन्दिरम् ॥ १९॥ 20 अथ सिंहासनारूढो यावदास्ते स्ववेश्मनि । तावन्नृपजनस्योच्चैः शुश्रावेति वचो नृपः ॥ २० ॥ कथं जालेन गृह्णाति मुनिर्मत्स्यान् खपाणिना । कथं वा भूपतिर्भक्तिं करोत्यस्य विमूढधीः ॥ २१ ॥ महास्वपरसामन्तमस्तकोपात्तशासनः । तथाप्यस्मत्पतिर्मूढो निर्देशं कुरुतेऽस्य किम् ॥ २२ ॥ स्वसामन्तवचः श्रुत्वा जिनशासनदूषणम् । तन्मोहनविनोदाय दध्यौ कार्यं महीपतिः ॥ २३ ॥ ग्रामपत्तनदेशानां पत्रिकाशासनानि च । वेष्टयित्वोपरि स्पष्टं पुरीषेणातिपूतिना ॥ २४ ॥ जिनशास्त्र महानिन्दातत्परेभ्यः कुशाग्रधीः । नृपतिभ्यो ददौ राजा श्रेणिको जिनभाक्तिकः ॥२५॥ आदाय ताः स्वहस्तेन दुर्गन्ध्यामोदिताशकाः । करेण पुष्पगन्धैर्विदधुर्निजमस्तके ॥ २६ ॥ यावत्ते मस्तके” कुर्युः शासनानि च पत्रिकाः । गूथावगुण्ठितास्तावज्जगादेति नतानयम् ॥ २७ ॥ गूथावगुण्ठिताशेषपत्रिकागुण्डिकादिकम् । स्वमस्तके कृतं कस्माद् भवद्भिर्वदताशु मे ॥ २८ ॥ श्रेणिकस्य वचः श्रुत्वा ते वदन्ति नरेश्वरम् । भवत्प्रसादतोऽस्माकं गूथं के कुङ्कुमायते ॥ २९ ॥ ॐ स्वसामन्तोदितं श्रुत्वा बँभाणेतान् पुरः स्थितान् । तदुक्ताकर्ण्य तान् शक्तान् शिरःकृतकरद्वयान् ॥३०॥ अशुच्याक्तं यथा सर्वमदत्तं पत्रिकादिकम् । युष्माभिर्विहितं भक्त्या शिरसि प्रणताङ्गकैः ॥ ३१ ॥
१६ ॥
१७ ॥
- १.३१ ]
१३
1फ करेणानायतं., [ करेणानाययत् ]. 2 पफ युग्मम्, ज युगलम् 3 पज प्रेषणं, [ प्रेखणं ]. 4 पज निर्देश्य 5 फ त्रिकलम्, पज त्रिकलमिदम् 6फ जिनसाधुमहा 7फ जिनभक्तितः. 8 पफ युग्मम्, ज युगलमिदम्. 9 [ दुर्गन्धा ]. 10 पज सगन्धे 11 प मस्तकं. 12 पफ हुण्डिका. 13 फ बाण तान्. 14 फ तदुक्तकर्णणात्सताः, [ तदुक्ताकर्णनासक्तान् ]. 15 [ सर्वं मद्दत्तं ].
For Private & Personal Use Only
Jain Education International
15
25
www.jainelibrary.org