________________
श्री-प्रभाचन्द्र-कृतः दुर्गतिं गतः । चारुदत्तभस्त्रा तु रत्नद्वीपे रत्नचूलपर्वतस्योपरि मुक्ता।
तां पाटयित्वा निर्गतः चारुदत्तः। नष्टो भेरुण्डः । तत्रातपनस्थं ३ मुनिमालोक्य प्रणतवान्। पूर्णयोगेन मुनिनोक्तम्-कुशलं ते चारुदत्त। तेनोक्तम्-भगवन्, क्वाहं त्वया दृष्टः । मुनिः कथयति । अमितविद्या
धरो ऽहं चम्पायां कदलीवने वसन्तश्रीभार्यया सह क्रीडितुं गतः । ६ वसन्तश्रियं दृष्ट्वा धूमसिंहविद्याधरोमां छलेन वृक्षे विद्यया कीलित्वा
तां गृहीत्वा गतः । तस्मिन्प्रस्तावे त्वया तत्र क्रीडितुं गतेनाहं दृष्टः ।
मया चोक्तम्-अस्मिन् फरके तिस्र ओषधयः सन्ति । मित्रताः पिष्टवा ९ मे शरीरे देहि येनोत्कीलितो भवामि । तासु तथा दत्तासु गत्वाष्टा
पदगिरौ धूमसिंह जित्वा भार्यां मोचयित्वा व्याघुटय त्वं भणितो ऽसि मित्र वरं प्रार्थयेति । त्वया चोक्तम्-न मे वरेण किंचित्प्रयोजनमिति । ततो दक्षिणश्रेण्यां शिवमन्दिरे पुरे कियत्कालं राज्यं कृत्वा सिंहयशो
वराहग्रीवपुत्रयो राज्यं समर्प्य चारणमुनिर्भूत्वात्र तपः करोमि । १२ अत्र प्रस्तावे पुत्रयोर्वन्दनाभक्त्यर्थम् आगतयोश्चारुदत्तवृत्तान्तः
कथितः । अत्र प्रघट्टके छागचरदेवेनागत्य चारुदत्तस्य प्रणामः कृतः ।
ततश्चारुदत्तेनोक्तम्-गुरौ सति मम प्रणामः कर्तुं देव तवानुचितः । १५ देवेनोक्तम्-त्वमेव मे गुरुः रुद्रदत्तेन मार्यमाणस्य मे संन्यासपञ्च
नमस्काराश्च त्वया दत्तास्तन्माहात्म्यात्सौधर्म स्वर्गे देवो जात इत्युक्त्वा दिव्यहारादिभिः पूजां कृत्वा स्वर्गे गतः । सिंहयशोवराहग्रीवौ चारुदत्तं चम्पायां नीत्वा अक्षयद्रव्यं दत्त्वा निजनगरं गतौ । चारुदत्तो ऽपि कतिपयदिनैः सुन्दरपुत्राय श्रेष्ठिपदं समर्प्य मुनिर्भूत्वा स्वर्गं गतः ॥
[३८] जैनीसंसर्गतः शकट इत्यादि । [सगडो हु जइणिगाए संसग्गीए दु चरणपन्भट्ठो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org