________________
कथाकोशः [३७]
खलदेशे उशिरावर्तपत्तनं गतः । कार्पासमादाय तामलिप्तपुरीं गच्छ - तो व्यां दवाग्निना कार्पासो दग्धः । उद्वेगान्मातुलस्याकथयत्समुद्रदत्तस्य प्रोणेन पवनद्वीपं गतो धनमुपार्ज्यागच्छतः प्रोहणः स्फुटितः । ३ एवं सप्तवारान् तस्य प्रोहणः स्फुटितः । फलकेन समुद्रमुत्तीर्य राजपुरपत्तनं गतो विष्णुमित्रपरिव्राजकेन गौरवेण निजमठे धृत्वा भणितः । भीमाटव्यां पर्वतनितम्बे धातुरसस्तिष्ठति । तं ते पुत्र ददामि येन तव ६ दारिद्र्यनाशो भवति । चारुदत्तेनोक्तम् - तातैवं कुरु । ततस्तेन वरत्राबद्धशिक्येन हस्ते तुम्बकं दत्त्वा तत्कूपे प्रवेशितः । रसं गृह्णन्नेकपुरुषेण स निषिद्धः । ततश्चारुदत्तेन पृष्टः कस्त्वम् । उज्जयिन्यां वणिक् ९ धनदत्तोऽहम् । सिंहलद्वीपाद्व्याघुटितो भिन्नप्रोणो ऽनेन परिव्राजकेन वञ्चयित्वा रसतुम्बकं गृहीत्वा अत्र वरत्रं कर्तित्वा निक्षिप्तो रसे । न भक्षितः प्राणा मे गच्छन्ति लग्ना इत्याकर्ण्य चारुदत्तेनोक्तम् - तर्हि १२ रसो ऽस्य न दीयते । तेनोक्तम् -- यदि न दीयते तदा पाषाणादिनोपसर्गं करिष्यति । अतो रसतुम्बकं दत्त्वा द्वितीयवेलायां शिक्ये पाषाणे धृते दूरमाकृष्य शिक्यवरत्रां कर्तित्वा गतः परिव्राजकः । ततश्चारुदत्तेन १५ स भणितः । त्वया मम जीवितं दत्तं तवेदानीं सुगतिप्राप्त्युपायं ददामीत्युक्त्वा संन्यासं पञ्चनमस्कारांश्च दत्त्वा चारुदत्तेन पृष्टः - अस्ति मे कोsपि निःसरणोपायः । तेनोक्तं च - रसं पीत्वा अद्य गता गोधा १८ प्रभाते गच्छन्त्यास्तस्याः पुच्छं धृत्वा निःसर त्वम् । ततस्तथा निर्गत्य महाटवीं परित्यज्य गच्छन् चारुदत्तो मातुलेन मिलितेन रुद्रदत्तेन दृष्टो रत्नद्वीपे चालितः । छागयोरारुह्याजपथेन पर्वतस्योपरि गतौ । २१ रुद्रदत्तेन भणितोऽपि चारुदत्तो निजच्छागं न मारयति । व्रतादुपकारान्न च हतः । सोऽपि रुद्रदत्तेनैव मारितः चारुदत्तेन तस्य संन्यासपञ्चनमस्काराश्च दत्ताः । छागयोश्चर्मभस्त्रामध्ये प्रविष्टौ तौ रत्नद्वीपाया - २४ तभेरुण्डपक्षिभ्यां गृहीत्वा रत्नद्वीपाभिमुखं नीयमानयोरन्तराले रुद्रदत्तभस्त्रायां द्वयोर्भेरुण्डयोर्युद्धे समुद्रमध्ये पतितो रुद्रदत्तो मृत्वा
Jain Education International
For Private & Personal Use Only
५७
www.jainelibrary.org