________________
श्री-प्रमाचन्द्र-कृतः तह चेव मच्चुवग्घपरद्धो बहुदुक्खसप्पबहुलम्मि । संसारबिले पडिदो आसामूलम्मि संलग्गो ।। बहुविग्घमूसगेहिं आसामूलम्मि तम्मि छिज्जते । लेहदि विभयविलज्जो अप्पसुहं विसयमधुबिंदुं ॥१०६३-६५।]
अस्य कथा-कश्चित्पुरुषो ऽटव्यां व्याघ्रण खेदितो ऽन्धकूपे ६ पतितस्तृणस्तम्बे. लग्नो व्याघ्राभिहितकूपतटागतवृक्षशाखाकम्पा
दुच्चलितमधुमक्षिकाभिः खाद्यमानसर्वाङ्गो मुखे पतितमृष्टमधुबिन्दुः
स्तम्भमूलं च कृष्णश्वेतमूषिकौ कर्तयतः तले चतुर्दिशासु चत्वारो ___९ महासर्पा एतत्सर्वमविगणयन् मधुबिन्दुमेव वाञ्छति ।।
[३७] जातश्च चारुदत्त इत्यादि । [ जादो खु चारुदत्तो गोट्ठीदोसेण तह विणीदो वि । १२ __ गणियासत्तो मज्जासत्तो कुलदूसओ य तहा ॥१०८२॥]
अस्य कथा-चम्पानगर्यां राजा शूरसेनः, श्रेष्ठी भानुः, श्रेष्ठिनी सुभद्रा पुत्रार्थ कुदेवतानां सेवां करोति । एकदा चैत्यालये चारणमुनि वन्दित्वा भगवन्मे तपो [?] भविष्यति न वेति तयोक्तम् । कथितं भगवता-तवोत्तमः पुत्रो भविष्यति । पुत्रि, मिथ्यादेवानां सेवां कृत्वा
सम्यक्त्वम्लानतां मा कुरु इत्युक्त्वा मुनिर्गतः । तस्याः कतिपय१८ दिनैश्चारुदत्तनामा पुत्रो जातः। सर्वार्थस्य मातुलस्य पुत्री मित्रवती
परिणीता परं कामसेवां न करोति । ततः सुभद्रया गणिकाभिः व्यसनिभिश्च सह संसर्गः कारितो मांसादौ प्रवृत्तो वसन्तसेनया गणिकया सह द्वादशवर्षेः षोडशसुवर्णकोटयः खादिताः। ततो मित्रवतीस्वकीयान्याभरणानि प्रेषितानि दृष्ट्वा कलिङ्गसेनया कुट्टिन्या
भणितम् । पुत्रि, क्षीणद्रव्यो ऽयं त्यज्यतां सधने ऽन्यत्र नरे मनः २४ क्रियताम् । ततो ऽसौ त्यक्तो भार्याभरणानि गृहीत्वा मातुलेन सहोलू
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org